श्रीवेङ्कटेशस्तोत्रम् ५
%४४
व्येमित्यव्ययमाख्यातं मुनिभिः पापवाचकम् ।
कटते नाशनार्थत्वात्पापहा वेङ्कटेश्वरः ॥ १॥
यो भक्तरक्षणार्थाय विष्णुर्वैकुण्ठवास्ययम् ।
शेषाचले महालक्ष्म्या सह तिष्ठति वेङ्कटः ॥ २॥
चतुर्बाहुरुदाराङ्गो निजलाञ्छनलाञ्छितः ।
वेङ्कटेश इति ख्यातो देवः पद्मावतीप्रियः ॥ ३॥
शेषाचलं महत्तुङ्गं सर्वसम्पत्समन्वितम् ।
वैकुण्ठतुल्यमकरोच्छ्रीनिवासः स नोऽवतु ॥ ४॥
यद्दर्शनार्थमखिला ऋषियोगिसुरादयः ।
आयान्ति परया भक्त्या सपत्नीकाश्च सानुगाः ॥ ५॥
विशेषादाश्विने मासे महोत्सवदिदृक्षवः ।
भक्तानुकम्पी भगवान्वेङ्कटेशः स नोऽवतु ॥ ६॥
स त्वं मां पाहि देवेश लक्ष्मीश गरुडध्वज ।
सर्वापत्तिविनाशाय प्रसन्नो भव सर्वदा ॥ ७॥
प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद ।
दारिद्र्यदुःखौघभयं हरन्तं तं वेङ्कटेशं शरणं प्रपद्ये ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ।