श्रीवेङ्कटेशस्तोत्रम्
क्षेमं मे कमलापतिर्वितरतु श्रीवेङ्कटाद्रीश्वरः
कारुण्यामृतवारिधिस्त्रिजगतां क्षेमङ्करो वत्सलः ।
श्रीमद्भाष्यकृता सुबोधनिधिना रामानुजस्वामिना
भक्त्या दत्तपरत्वचिह्नविलसद्बाहुर्महावैभवः ॥ १॥
रेखारूपमनोज्ञदिव्यकलशश्रीपाञ्जजन्यध्वज-
ज्ञानाब्जाङ्कुशकल्पचकविलसत्पादारविन्दद्वयम् ।
लक्ष्मीदिव्यपदाम्बुजातयुगळीजाज्वल्यमानोल्लस-
ल्लाक्षालक्षितवक्षसं सुशरणं श्रीवेङ्कटेशं भजे ॥ २॥
सद्योजातमनोज्ञपल्लवलसत्पाण्यम्बुजाभ्यां रमा
बिभ्राणौ सभयं तु यस्य चरणौ संवाहनेऽपि क्लमम् ।
शीघ्रं किञ्च सरोरुहारुणतलौ मञ्जीरभूषोज्ज्वलौ
तं देवं श्रितपारिजातमतुलं श्रीवेङ्कटेशं भजे ॥ ३॥
ब्रह्मेशादिकिरीटकोटिघटितप्रत्यग्रनानाविध-
श्रीमद्रत्नमहःप्ररोहनिकरैर्नीराजितश्रीपदम् ।
आनन्दाख्यविमानदिव्यनिलये लक्ष्म्या सह क्रीडितं
साक्षान्मन्मथमन्मथं गुणनिधिं श्रीवेङ्कटेशं भजे ॥ ४॥
श्रीपादौ चरणागतैः प्रथमतो यस्यावगाह्यौ जनैः
देदीप्रावमृतायिताविव शिशोर्मातुः स्तनौ श्रीपतेः ।
गोत्रायां विपिने वृषाद्रिशिखरे चित्तेऽप्यनन्यात्मनां
वेदान्ते सममाहितौ तमतुलं श्रीवेङ्कटेशं भजे ॥ ५॥
अत्यन्तप्रियदर्शनं कमलया प्रारुढवक्षःस्थलं
नानाभूषणभूषितं प्रविलसत्पीताम्बरप्रोज्ज्वलम् ।
सर्वाभीष्टवरप्रदं प्रणमतां जाज्वल्यमानप्रभं
बालार्कोज्ज्वलदिव्यरत्नमकुटं श्रोवेङ्कटेशं भजे ॥ ६॥
अम्भोजामृतसिन्धुजातकलशप्रस्पर्धिदिव्याननं
सुभ्रूसुन्दरमध्यचन्द्रविलसत्भालं मनोज्ञस्मितम् ।
आकर्णायतलोचनं मणिमयश्रीहारभूषोज्ज्वलं
श्रीवत्साङ्कितवक्षसं श्रितनिधि श्रीवेङ्कटेशं भजे ॥ ७॥
सर्वज्ञं कलिकल्मषग्नममलं लक्ष्मीनिवासोरसं
शक्तं सन्नतवत्सलं विधिमुखैर्देवैः सदा वन्दितम् ।
संसारार्णवतारकाङ्घ्रियुगळं कन्दर्पकोटिप्रभं
षाड्गुण्यात्मकदिव्यमङ्गलतनुं श्रीवेङ्कटेशं भजे ॥ ८॥
अन्धः पश्यति दुःखिनस्तु सुखिनो मूकः प्रवक्ति स्फुटम् ।
पङ्गुर्धावति वेगतस्तु लभते वन्ध्या च भव्यं मुतम् ।
आर्ताश्चापि निरामयास्तु बधिराः शृण्वन्ति सम्यक् ततो
यस्यानुग्रहवैभवेन विमलं श्रीवेङ्कटेशं भजे ॥ ९॥
भक्ताभीष्टदभाष्यकारगुरुणा दत्ताब्जचक्रोज्ज्वल
द्वाहुं भक्तजनानुभाव्यमनिशं नीलाम्बुदश्यामलम् ।
सर्वाधीश्वरता प्रकाशकलसन्मुक्ताकिरीटोज्ज्वलं
राकाचन्द्रमुखं दयागुणनिधिं श्रीवेङ्कटेशं भजे ॥ १०॥
लक्ष्मीगेहभुजान्तरं कलियुगप्रत्यक्षनारायणं
सत्यानन्दचिदात्मकं परिनुतं पश्चाननाद्यैर्बुधैः ।
श्रीशेषाचलशृङ्गमङ्गलमहाभूषायितश्रीपदं
सर्वेषां जगतामभीष्टवरदं श्रीवेङ्कटेशं भजे ॥ ११॥
सर्वेषां सुहृदं सुशीलमनघं श्रीमङ्गलाशासनं
कुर्वद्भिः परिशुद्धमानसयुतैः श्रीवैष्णवैः संवृतम् ।
बिम्बाभाधरमुद्यदिन्दुवदनं कर्णान्तलोलेक्षणं
श्रीमद्दिव्यललाटपट्टतिलकं श्रीवेङ्कटेशं भजे ॥ १२॥
कौशेयपुष्पितकटीतटमम्बुजाक्षं
कान्ताकुचाम्बुरुहकुड्मललोलदृष्टिम् ।
कन्दर्पदर्पहरसुन्दरदिव्यमूर्तिं
श्रीवेङ्कटेशमगतिः शरणं प्रपद्ये ॥ १३॥
आपादमौलिमभिजातमनोहराङ्ग-
मादित्यकोटिकिरणोज्ज्वलहेतिराजम् ।
आताम्रदिव्यमधुराधरपल्लवं च
श्रीवेङ्कटेशमगतिः शरणं प्रपद्ये ॥ १४॥
दिव्यैर्दन्तिकरोपमैर्मृदुतरैः सुस्निग्धवर्णैः शुभैः
नानाभूषणभूषितैः शुभनखैः कल्याणरेखाञ्चितैः ।
वृत्त्तैर्ज्याकिणकर्कशैरभयदैः पीनैश्चतुर्भिः सतां
श्रीमद्भाहुभिरायतैर्विलसितं श्रीवेङ्कटेशं भजे ॥ १५॥
दातारं किल सम्पदां त्वचरणद्वन्द्वाश्रितानां सतां
दैत्यानां तु निघातिनं त्रिजगतां नाथं महावत्सलम् ।
सिंहस्कन्धमनेकरत्नरचितश्रीहारवक्षःस्थलं
श्रीमत्पुण्ड्र्ललल्ललाटफलकं श्रीवेङ्कटेशं भजे ॥ १६॥
लक्ष्मीनिवास निखिलाश्रितलोकबन्धो
वैकुण्ठनाथ निरवद्यगुणैकसिन्धो ।
श्रीवेङ्कटेश भुवि विश्रुतदिव्यकीर्ते
पाहि प्रपन्नगगतिं शरणागतं माम् ॥ १७॥
वरगुणमणिसिन्धुर्वत्सलः श्रीनिवासः
कलशजलधिकन्याप्राणनाथो दयालुः ।
मणिवरमणिभूषा वत्सजाज्वल्यमानो
(मणिवरमाणिः - कौस्तुभमणि, वत्सः - श्रीवत्सः)
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १८॥
कनकमयकिरीटो दिव्यलावण्यसिन्धुः
प्रणतवरदबन्धुः पद्मपत्रायताक्षः ।
सुलभचरणयुग्मः स्वाश्रितानां कृपालुः
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १९॥
मरतकगिरिमूर्तिमङ्गलानां निवासः
स्फटिकमकुटमूर्धा पीतकौशेयवासः ।
कनकवलयभूषाप्रोज्ज्वलद्दिव्यबाहुः
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २०॥
सरसिजमुखपाणिः सर्वलोकैकनाथः
विकचकमलनेत्रः श्यामलः कोमलाङ्गः ।
जलजचरणयुग्मः श्रीनिवासो दयालुः
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २१॥
विधिविबुधनियन्ता विश्वभक्तार्तिरहन्ता
विनतविविधजातिक्षेमकल्यणमन्ता ।
विमलमधुरमन्दस्मेरदिव्याननाब्जो
वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २२॥
अत्यर्कानलदीप्तमुत्तमपदं वैकुण्ठमत्यद्भुतं
त्यक्त्वानुग्रहकाम्यया प्रणमतां लक्ष्म्या सह क्रीडितः ।
श्रीमद्वेङ्कट भूधरे मणिगणैर्नानाविधैर्धातुभि-
र्देदीप्रे भगवान् समास्तु गुणवान् क्षेमकरः सर्वदा ॥ २३॥
भक्तानां दोषभोग्यः प्रवरगुणनिधिर्मङ्गलानां निवासः
विख्यातः सर्वधाता सरसिजनयनो वेदवेदान्तवेद्यः ।
शेषाद्रौ शेषतस्पे जलधितनयया सार्धमिन्दीराक्ष्या
कीडन् देवाधिराजो मम तु वितरतान्मङ्गलं श्रीनिवासः ॥ २४॥
विधिशिवविबुधैन्द्रप्राणिरक्षैकदीक्षो
विविधकलिनिहन्ता वत्सलः स्वाश्रितेषु ।
श्रुतहृदयनिवासः शीलवान् पङ्कजाक्षो
विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २५॥
मरतकमणिरत्नस्फाटिकच्छन्नदिव्य-
प्रवरकनकभूषाभूषितः संश्रितार्थम् ।
नयनसुभगदिव्यश्यामकल्याणगात्रो
विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २६॥
वरद निखिलबन्धो क्षान्तिसौशील्यसिन्धो
कमलनयन विष्णो शङ्खचक्रासिपाणे ।
दिवि भुवि मम बन्धो श्रीपते वेङ्कटेश
श्रितजनशुभकल्प श्रीनिधे त्राहि दासम् ॥ २७॥
दिवि भुवि मम सौख्यं सम्प्रयच्छ प्रयच्छ
श्रुतिशिरसि विदीप्त श्रीनिधे वेङ्कटेश ।
चलमतिमविनीतं मां च कन्दर्पवश्यं
तव किल दयनीयं पाहि पाहि प्रसीद ॥ २८॥
कलौ लोकनाथ प्रशस्त प्रशस्त
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ।
हरे दीनबन्धो प्रसीद प्रसीद
सदा वेङ्कटेशं स्मरामि स्मरामि ॥ २९॥
स्वामिपुष्करिणीतीरे श्रीमद्वेङ्कटभूधरे ।
वसते रमया सार्धं वेङ्कटेशाय मङ्गलम् ॥ ३०॥
इति श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ।
Proofread by Gopalakrishnan