श्रीवेङ्कटेशस्तोत्रम्
(शालिनीवृत्तम्)
नाहं जाने संस्कृतं प्राकृतं वा
स्तोतुं त्वां (भो) नो श्रुतिं नो स्मृतिं च ।
भक्तिर्ज्ञानं नापि योगस्तपोस्ति
देहि त्वं मे दर्शनं वेङ्कटेश ॥ १॥
नाहं याचे भोगसौख्यं दयालो
दुःख सर्वं जन्मना जायते यत् ।
जानेहं त्वां ज्ञानदं मोक्षदं च
देहि त्वं मे दर्शनं वेङ्कटेश ॥ २॥
देहोशुध्दो मूत्रविष्ठादिरूपः
ग्राम्यं सौख्यं कश्मलं दुःखरूपम् ।
न स्त्रीपुत्रक्षेत्रवित्तानि याचे
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ३॥
त्वद्रूपेस्मिन्नद्वये चित्स्वरूपे
पुंस्त्री विश्वं जन्ममृत्युर्मनो मे ।
मायाविद्या नापि तत्कार्यमीषत्
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ४॥
नायं देहो नेन्द्रियं नान्तरङ्गं
नायं लोको भाति सौख्याय मेद्य ।
त्वत्तोन्यो नो तारको दीनबन्धो
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ५॥
जानेहं त्वां ब्रह्मरूपं ह्यकायं
मायाविद्याशून्यमद्वैतरूपम् ।
भक्तानां यत्पालने रूपधृक्त्वं
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ६॥
त्वत्सौख्यं भो नित्यशुध्दाभयं यत्
मायाविद्याजन्मकर्मादिरूपम् ।
प्राप्तुं शक्यं किं भवेत्वां विनातो
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ७॥
श्रुत्या युक्त्या मत्सरूपं त्वमेव
ज्ञात्वापीयं बाधते कापि शङ्का ।
मायौद्धत्यं वारणायैहि शीघ्रं
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ८॥
दीनोऽहं त्वां प्रार्थये भक्तितोऽत्र
नोऽपेक्षस्व स्वेन रूपेण पाहि ।
मायाविद्याविश्वजीवेशशान्त्यै
देहि त्वं मे दर्शनं वेङ्कटेश ॥ ९॥
(अनुष्टुप्छन्दः)
वेङ्कटेशस्तवः पुण्यो ज्ञानविज्ञानदः शिवः ।
भवतापहरो नित्यं राजते शरदिन्दुवत् ॥
॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥