वेङ्कटेश्वरस्तुतिः
%८६
वें ह्यव्ययं पापवाच्यमेतत्कटति वेङ्कटः ।
कटतेर्नाशनार्थत्वात्पापहा वेङ्कटेश्वरः ॥ १॥
परिपिपालयिषुर्जगतः स्थितिः य उ चकार ह शेषधरे स्थितिम् ।
द्रुतविलम्बितगेन मया क्षितौ स खलु वेङ्कट ईश्वर ईक्षितः ॥ २॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता वेङ्कटेश्वरस्तुतिः समाप्ता ।