श्रीवेङ्कटेशाष्टकम्

श्रीवेङ्कटेशाष्टकम्

श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना । सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥ शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः । मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥ वैकुण्ठराजसकलोऽपि धनेशवर्गो नीतोऽपमानसरणिंत्वयि विश्वसित्रा । तस्मादयंन समयः परिहासवाचाम् इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३॥ श्रीमन्नारास्तुकतिचिद्धनिकांश्च केचित् क्षोणीपतीन्कतिचिदत्रच राजलोकान् । आराधयन्तुमलशून्यमहं भवन्तं कल्याणलाभजननायसमर्थमेकम् ॥ ४॥ लक्ष्मीपतित्वमखिलेशतव प्रसिद्धमत्र प्रसिद्धमवनौमदकिञ्चनत्वम् । तस्योपयोगकरणायमया त्वया च कार्यः समागमैदं मनसि स्थितं मे ॥ ५॥ शेषाद्रिनाथभवताऽयमहं सनाथः सत्यंवदामि भगवंस्त्वमनाथ एव । तस्मात्कुरुष्वमदभीप्सित कृत्यजालम्- एवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६॥ क्रुद्धोयदा भवसि तत्क्षणमेव भूपो रङ्कायतेत्वमसि चेत्खलु तोषयुक्तः । भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क इच्छाम्यतस्तवदयाजलवृष्टिपातम् ॥ ७॥ अङ्गीकृतंसुविरुदं भगवंस्त्वयेति मद्भक्तपोषणमहंसततं करोमि । आविष्कुरुस्वमयि सत्सततं प्रदीने चिन्ताप्रहारमयमेवहियोग्यकालः ॥ ८॥ सर्वासुजातिषु मयातु समत्वमेव निश्चीयतेतव विभो करुणाप्रवाहात् । प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ नीचोन भाति मम कोऽप्यत एव हेतोः ॥ ९॥ सम्भावितास्तुपरिभूतिमथ प्रयान्ति धूर्ताजपं हि कपटैकपरा जगत्याम् । प्राप्तेतु वेङ्कटविभो परिणामकाले स्याद्वैपरीत्यमिवकौरवपाण्डवानाम् ॥ १०॥ श्रीवेङ्कटेशतव पादसरोजयुग्मे संसारदुःखशमनाय समर्पयामि । भास्वत्सदष्टकमिदं रचितं प्रभाकरोऽहमनिशंविनयेन युक्तः ॥ ११॥ श्रीशालिवाहनशकेशरकाष्टभूमि (१८१५) सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् । श्रीकेशवात्मजैदं व्यतनोत्समल्पं स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥ १२॥ इतिगार्ग्यकुलोत्पन्न यशोदागर्भज-केशवात्मज-प्रभाकर-कृतिषु श्रीवेङ्कटेशाष्टकं स्तोत्रं समाप्तम् ॥ श्रीकृष्णदास तनुजस्य मया तु गङ्गाविष्णोरकारिकिल सूचनयाष्टकं यत् । तद्वेङ्कटेशमनसो मुदमातनोतु तद्भक्तलोकनिवहानन पङ्क्तिगं सत् ॥ पित्रोर्गुरोश्चाप्यपराधकारिणो भ्रातुस्तथाऽन्यायकृतश्चदुर्गतः । तेषुत्वयाऽथापि कृपा विधीयतां सौहार्दवश्येनमया तु याच्यते ॥ Encoded and proofread by YV Malleswara Rao Brihatstotraratnavali
% Text title            : veNkaTeshAShTakam
% File name             : venkateshAShTaka.itx
% itxtitle              : veNkaTeshAShTakam
% engtitle              : venkaTeshAShTakam
% Category              : aShTaka, vishhnu, venkateshwara, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : prabhAkara  See the last two verses
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Description-comments  : Brihatstotraratnavali
% Indexextra            : (Scan)
% Latest update         : July 21, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org