श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम्

श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम्

(श्रीविष्णुसहस्रनामावल्यन्तर्गतं) अतीतोऽ यं क्षरं यस्मात् अक्षरः प्रोच्यते ततः । १७ अयं न जायते यस्मात् अज इत्युच्यते ततः ॥ ९५ अयं न च्यवते यस्मात्स्वस्थितेरच्युतस्ततः । १०० अमोघो यस्य सङ्कल्पो मोघो च स्यात्कदाचन ॥ ११० अनिरुद्धो न केनापि निरुद्धः संयुगादिषु । १८५ अयं ह्यनिमिषो नित्यं जागरूकोऽवनादिषु ॥ २१५ अग्रे सर्वस्य नेतृत्वाद् अग्रणीः उच्यते प्रभुः । २१८ अव्ययोऽयं सर्वगतिःन व्येति च कुतश्चन ॥ १३ अनादित्वादनन्तत्वात् अनादिनिधनो ह्यसौ । ४३ अमेयात्मा यतो ह्यात्मा मानैर्मातुं च शक्यते ॥ १०१ असम्मितो यतो नास्य देशकालव्यवस्थितिः । १०८ अनिलो यस्य नाधारः सर्वभूतधरो ह्यसौ ॥ २३४ अगम्यत्वात्प्रमाणानां अप्रमेय इति स्मृतः । ४७ अपक्षयविहीनत्वात्पुनरेवायमव्ययः ॥ ३१ अग्राह्यात्वान्मनोवाचांअग्राह्य इति कीर्त्यते । ५६ अमृतः कीर्तितो यस्मान्नित्यो मरणवर्जितः ॥ ११९ अव्यङ्गो हरिरेवस्याद्यतः सर्वाङ्गसुन्दरः । १२९ अच्युतोऽयं यतो भक्तान्न कदापि विमुञ्चति ॥ १०० अतुलो यस्य नास्त्येव सदृशो भुवनत्रये । ३५५ अतीन्द्रोऽयं यतो वीर्यादिन्द्रमत्येति भूरिशः ॥ १५७ अतीन्द्रियो यतोऽगम्य इन्द्रियैश्चक्षुरादिभिः । १६९ अग्राह्यश्चक्षुषा बुद्ध्या ततोऽदृश्यः स उच्यते ॥ ५६ अशक्यत्वात्सुनिर्देष्टुमनिर्देश्यवपुः स्मृतः । १७७ अन्तकत्वात्स सर्वेषां प्राणिनामन्तकः स्मृतः ॥ ५२० अनुत्तमो यतस्तस्मादुत्तमो नैव विद्यते । ८१ अनघोऽयं सदा शुद्धः पापसंसर्गवर्जितः ॥ १४६ अमोघा यस्य पादाब्जसेवा मोघा कदापि न । १५४ अयं स्यादप्रमेयात्मा यः प्रत्यक्षाद्यगोचरः ॥ २४८ अशेषस्यापि लोकस्य ह्यत्तृत्वादमिताशनः । ३७२ अहः संवर्तको यस्माद्दिवसानां प्रवर्तकः ॥ २३२ अनन्तजिद्यतो जेता सर्वेषामपि युध्यताम् । ३०७ अनुत्पन्नः कदापीति सोऽभूरित्यभिधीयते ॥ ४३७ अजितो यो न केनापि कदाचिदपि निर्जितः ॥ ५४९ अच्युतः सततं सिद्धः च्युतिहेतोरभावतः ॥ ५५२ अनन्तगुणसम्पत्तेः असङ्ख्येयः स उच्यते । २४७ एष एवामृतवपुः यद्वपुर्मृतिवर्जितम् ॥ ८१४ अर्थोऽसावर्थ्यमानत्वात्पुरुषार्थस्वरूपतः । ४३० अनर्थोऽयं यतो लोके तेन प्रार्थ्यं च किञ्चन ॥ ४८१ अमेयो विक्रमो यस्य प्रोच्यतेऽमितविक्रमः । ५१६ अविज्ञाता यतो भिन्नो विज्ञातुः जीवशब्दितात् ॥ ४८२ अक्षिणी यस्य पद्माभे सोऽरविन्दाक्ष ईर्यते । ३४७ अनुकूलः स सर्वेषां स्थितिरक्षणतत्परः ॥ ३४२ अहस्करस्वरूपत्वादेषोऽप्यहरितीर्यते । ९० अपां निधिर्यतस्तस्य स्याद्विभूतिर्हि सागरः ॥ ३२३ अमृतांशूद्भवस्तस्मात् चन्द्रस्यापि समुत्थितेः । २८३ अमृत्युः स यतो मृत्योरपि मृत्युर्भवत्यसौ ॥ १९८ अमराणामशेषाणां प्रभुत्वादमरप्रभुः । ४९ अक्षरो च क्षरत्येष सच्चिदानन्दलक्षणात् ॥ १७ अगाधत्वाद्गभीरत्वादम्भोनिधिरिति स्मृतः । ५१७ अशेषवस्तुरूपत्वादनन्तात्मेति विश्रुतः ॥ ५३८ अज इत्युच्यते विष्णुर्विराड्रूपेण संस्थितेः । २०४ अनलः कीर्त्यते विष्णुः परञ्ज्योतिःस्वरूपतः ॥ २९३ असदित्युच्यते तस्य नागरूपाद्यभावतः । ४७९ अधः कृत्वाऽक्षजा वृत्तीः ज्ञेयस्तस्मादधोक्षजः ॥ ४१५ अशोको नित्यमेवासौ नित्यानन्दस्वरूपतः । ३३६ निजानन्दसुधापाननिरतोऽमृतपः स्मृतः । अनीशः खलु सर्वेषां ईशानोऽयमिति स्मृतेः । ६२६ अशेषबन्धनिर्मुक्तो योऽनिरुद्धः स एव हि । ६३८ अनवच्छिन्नशौर्यत्वात्प्रोच्यतेऽमितविक्रमः ॥ ६४१ अनिर्विण्णः सदैवासौ नित्यतृप्तस्वभावतः । ४२५ अनयोऽयं यतो नेता नास्ति लोकत्रयेऽपि च ॥ ४०० अनन्तो योऽपरिच्छिन्नो देशकालान्यवस्तुभिः । ५२८ अयमेवाविधेयात्मा स्वतन्त्रः सर्वथा सदा । ६२१ अपराजित इत्युक्तो यस्य नास्ति पराजितिः ॥ ७१६ अधिष्ठानं प्रपञ्चस्य मायाकल्पितवस्तुनः । ३२४ अनन्तं यस्य चैश्वर्यं अनन्तश्रीः स एव हि ॥ ९३३ अप्रमत्तो भवेद्यस्मात्प्रमादरहितः सदा । ३२५ अशेषस्य लये मुक्तौ प्राप्यत्वादप्ययः सदा ॥ ९०० अशेषाणां च भूतानां पुरा सिद्धोऽग्रजः स्मृतः । ८९१ अयोनिजो यतो नास्य कर्माधीना जनिर्भवेत् ॥ ५७३ अनिवर्ती निवर्तन्ते यं प्राप्य न कदाचन । ५९६ अर्को भास्करमध्यस्थज्योतीरूपेण संस्थितेः ॥ ७९५ अनिर्देश्यवपुर्यस्मान्निर्देशार्हं न तद्वपुः । ६५६ अशेषैः पूज्यमानैश्च पूज्यमानोऽर्चितः खलु ॥ ६३४ अर्चिस्मान्दीप्तिमानेष स्वयञ्ज्योतिः स्वभावतः । ६३३ रथी चास्य समो नैव तेनाप्रतिरथः स्मृतः ॥ ६३९ अन्तो नास्त्यस्य रूपस्यानन्तरूपो भवत्यतः । ९३२ अनिशं जयशीलोऽसौ तस्मात्प्रोक्तोऽपराजितः ॥ ८६२ अनामयो यतो व्याधिराधिर्वाऽस्य च जायते । ६८९ अनलोऽग्निसमानोऽयं तेजःपुञ्जस्वभावतः ॥ ७११ अस्य क्षोभणकृन्नैव विद्यतेऽक्षोभ्य एव सः । ९९९ अनेकमूर्तरित्युक्तः सर्वास्तस्यैव मूर्तयः ॥ ७२१ अमूर्तिमान्निगूढत्वान्मूर्तिमत्स्वखिलेष्वपि । ७२० अमृताशः स्वयं चाश्नत्प्राशयत्यमृतं सुरान् ॥ ८१३ अचलो व्याप्तरूपत्वात्क्वचित् चलनवर्जितः । ७४५ अहङ्कारादिमानित्वरिक्तोऽमानीति कीर्त्यते ॥ ७४७ अधृतोऽन्येन केनापि स्वयं धत्तेऽखिलं जगत् ॥ ८४२ अणीयान्न यतः कश्चित्तस्मादणुरिति स्मृतः ॥ ८३५ अनिलो वायुरूपेण चेष्टयत्यखिलं जगत् । ८१२ अचिन्त्यरचनारूपजगत्स्रष्टाऽद्भुतः किल ॥ ८९५ अमूर्तिः स यतस्तस्य मूर्तिः काऽपि न विद्यते । ८३० अर्हः पूज्यतमैः सर्वैः पूज्यमानो निरन्तरम् ॥ ८७० अभिप्रायः स सर्वेषां प्राणिनां मनसि स्थितः । ८७१ अचिन्त्योऽयं यतश्चिन्ताविषयो न कदाचन ॥ ८३२ अनिर्विण्णः सदाऽऽनन्दी निर्वेदस्याप्रसक्तितः । ८९२ अजन्यत्वात्सदासिद्धो ह्यनादिः स सनातनः ॥ ९४१ अयं भोज्यस्वरूपेण स्थितत्वादन्नमुच्यते । ९८३ अयं भोक्तृस्वरूपेण तिष्ठन्नन्नाद उच्यते ॥ ९८४ अनुत्पन्नस्वभावत्वादज इत्युच्यते बुधैः । ५२१ अव्यक्तो नामरूपादिव्यञ्जकानामभावतः ॥ ७२२ अक्रूरः कूरचेष्टानां हिंसादीनां विवर्जनात् । ९१५ अमेयात्मा न मानार्हः आत्मा यस्य च केनचित् ॥ १७९ अघस्पर्शविहीनत्वादनघः सर्वदाऽपि सः । ८३१ अश्वत्थः प्रोच्यते देवोऽस्थिरलोकस्वरूतः ॥ ८२४ अक्षोभ्यः क्षोभ्यमाणोऽपि न क्षुब्धो भवति क्वचित् । ९९९ अरौद्रो रौद्रवृत्तीनां क्रोधादीनामभावतः ॥ ९०६ अन्यधातृविहीनत्वादधातेति स कीर्त्यते । ९५१ अन्तवत्सु स्थितोऽप्येष ह्यनन्तो नाशवर्जितः ॥ ५३६ इति श्रीज्ञानानन्दभारतीस्वामिविरचितं विष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : viShNorakArAdyaShTottarashatanAmArthavivaraNam
% File name             : viShNorakArAdyaShTottarashatanAmArthavivaraNam.itx
% itxtitle              : viShNorakArAdyaShTottarashatanAmArthavivaraNam (jnAnAnandabhAratIsvAmivirachitaM)
% engtitle              : viShNorakArAdyaShTottarashatanAmArthavivaraNam
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org