श्रीविष्णुपञ्जरस्तोत्रम्
हरिरुवाच ।
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ।
नमोनमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥ १॥
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्तु ते ।
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥ २॥
हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।
प्रतीच्यां रक्ष मां विष्णो ! त्वामहं शरणं गतः ॥ ३॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ॥ ४॥
खड्गमादाय चर्माथ अस्त्रशस्त्रादिकं हरे ! ।
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ॥ ५॥
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम् ।
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर ॥ ६॥
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा ।
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥ ७॥
वैजयन्तीं सम्प्रगृह्य श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ॥ ८॥
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ! ।
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित ॥ ९॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥ १०॥
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम् ।
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ॥ ११॥
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ॥ १२॥
नाशायामास सा येन चामरं महिषासुरम् ।
दानवं रक्तबीजञ्च अन्याँश्च सुरकण्टकान् ।
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥ १३॥
इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
विष्णुपञ्जरस्तोत्रं नाम त्रयोदशोऽध्यायः ।
Garudapurana 1.13.1-13