श्रीविष्णुसहस्रनामस्तोत्रं नारदपञ्चरात्रे

श्रीविष्णुसहस्रनामस्तोत्रं नारदपञ्चरात्रे

श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीमहादेव उवाच- ब्रह्महत्यासहस्राणां पापं शाम्येत् कथञ्चन । न पुनस्त्वय्यविज्ञाते कल्पकोटिशतैरपि ॥ १॥ यस्मान्न या कृता स्पर्धा पवित्रं स्यात्कथं हरे । नश्यन्ति सर्वपापानि तन्मां वद सुरेश्वर । तदाह देवो गोविन्द मम प्रीत्या यथायथम् ॥ २॥ श्रीभगवानुवाच- सदा नामसहस्रं मे पावनं मत्पदावहम् । तत्परोऽनुदिनं शम्भो सर्वैश्वर्यं यदीच्छसि ॥ ३॥ श्रीमहादेव उवाच- तमेव तपसा नित्यं भजामि स्तौमि चिन्तये । तेनाद्वितीयमहिमो जगत्पूज्योऽस्मि पार्वति ! ॥ ४॥ श्रीपार्वत्युवाच- तन्मे कथय देवेश यथाहमपि शङ्कर ! । सर्वेश्वरी निरूपमा तव स्यां सदृशी प्रभो ! ॥ ५॥ श्रीमहादेव उवाच- साधु ! साधु ! त्वया पृष्टो विष्णोर्भगवतः शिवे ! । नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमङ्गलम् ॥ ६॥ ॐ नमोनारायणाय पुरुषोत्तमाय च महात्मने । विशुद्धसद्माधिष्ठाय महाहंसाय धीमहि ॥ ७॥ विनियोगः ॐ अस्य श्रीविष्णोः सहस्रनाममन्त्रस्य महादेव ऋषिः । अनुष्टुप्छन्दः । परमात्मा देवता । सूर्यकोटिप्रतीकाश इति बीजम् । गङ्गातीर्थोत्तमा शक्तिः । प्रपन्नाशनिपञ्जर इति कीलकम् । दिव्यास्त्र इत्यस्रम् । सर्वपापक्षयार्थं सर्वाभीष्टसिद्ध्यर्थं श्रीविष्णोर्नामसहस्रजपे विनियोगः । ऋष्यादिन्यासः ॐ महादेवाय ऋषये नमः इति शिरसि ॥ १॥ अनुष्टुप् छन्दसे नमः मुखे ॥ २॥ परमात्मदेवतायै नमः हृदि ॥ ३॥ सूर्यकोटिप्रतीकाशबीजाय नमः गुह्ये ॥ ४॥ गङ्गातीर्थोत्तमशक्त्ये नमः पादयोः ॥ ५॥ प्रसन्नाशनिपञ्जरकीलकाय नमः नाभौ ॥ ६॥ विनियोगाय नमः सर्वाङ्गे ॥ ७॥ करन्यासः ॐ वासुदेवः परं ब्रह्म इत्यङ्गुष्ठाभ्यां नमः ॥ १॥ ॐ मूलप्रकृतिरिति तर्जनीभ्यां नमः ॥ २॥ ॐ भूमहावराह इति मध्यमाभ्यां नमः ॥ ३॥ ॐ सूर्यवंशध्वजो राम इति अनामिकाभ्यां नमः ॥ ४॥ ॐ ब्रह्मादिकमलादिगदासूर्यकेशवमिति कनिष्ठिकाभ्यां नमः ॥ ५॥ शेष इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । षडङ्गन्यासः ॐ वासुदेवः परं ब्रह्म इति हृदयाय नमः ॥ १॥ ॐ मूलप्रकृति शिरसे स्वाहा ॥ २॥ ॐ भूमहावाराह इति शिखायै वषट् ॥ ३॥ ॐ सूर्यवंशध्वजो रामः इति कवचाय हुं ॥ ४॥ ब्रह्मादिकमलादिगदासूर्यकेशवः नेत्रत्रयाय वौषट ॥ ५॥ ॐ दिव्यास्त्र इत्यस्त्राय फट् ॥ ६॥ इति हदयादिषडङ्गान्यासः ॥ ७॥ ॥ ध्यानम् ॥ विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदरांघ्रि- श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलं मण्डितांसम् । हस्तोद्यच्चक्रशङ्खाम्बुजगदलमलं पीतकौशयवासो - विद्युद्भासं समुद्यद्दिनकरसदृशं पद्महस्तं नमामि ॥ ८॥ ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परम् । परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ ९॥ परं शिवं परो ध्येयः परं ज्ञानं परा गतिः । परमार्थः परं श्रेयः परानन्दः परोदयः ॥ १०॥ परो व्यक्तः परं व्योम परार्धः परमेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ११॥ निरञ्जनो निरालम्बो निर्लेपो निरवग्रहः । निर्गुणोनिष्कलोऽनन्तोऽचिन्त्योऽसावचलोऽच्युतः ॥ १२॥ अतीन्द्रियोऽमितोऽरोध्योऽनीहोऽनीशोऽव्ययोऽक्षयः । सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ १३॥ शर्वः शम्भुः सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ १४॥ सर्वावासः सर्वरूपः सर्वादि सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ १५॥ सर्वातिशायकः सर्वाध्यक्षः सर्वेश्वरेश्वरः । षड्विंशको महाविष्णुर्महागुह्यो महाहरिः ॥ १६॥ नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ १७॥ जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १८॥ योगिप्रियो योगमयो भवबन्धैकमोचकः । पुराणः पुरुषः प्रत्यक् चैतन्यं पुरुषोत्तमः ॥ १९॥ वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः । ब्रह्मविद्याश्रयोऽलङ्घ्यः स्वप्रकाशः स्वयम्प्रभः ॥ २०॥ सर्वोपेय उदासीनः प्रणवः सर्वतः समः । सर्वानवद्यो दुष्प्रापस्तुरीयस्तमसः परः ॥ २१॥ कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः । सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ २२॥ अनुल्लघ्यं सर्वगतिर्महारुद्रो दुरासदः । मूलप्रकृतिरानन्दः प्रज्ञाता विश्वमोहनः ॥ २३॥ महामायो विश्वबीजः पराशक्तिसुखैकभुक् । सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥ २४॥ अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः । निरुपाधिः प्रियो हंसोऽक्षरः सर्वनियोजकः ॥ २५॥ ब्रह्मा प्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ २६॥ अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । योगी मृग्यः पद्मनाभः शेषशायी श्रियः पतिः ॥ २७॥ श्रीसत्योपास्यपादाब्जोऽनन्तः श्रीः श्रीनिकेतनः । नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २८॥ रम्यश्रीर्निश्चयश्रीदो विष्णुः क्षीराब्धिमन्दिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २९॥ श्रीवत्सवक्षा निःसीमः कल्याणगुणभाजनम् । पीताम्बरो जगन्नाथो जगद्धाता जगत्पिता ॥ ३०॥ जगद्बन्धुर्जगत्स्रष्टा जगत्कर्ता जगन्निधिः । जगदेकस्फुरद्वीर्यो नाहंवादी जगन्मयः ॥ ३१॥ सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्ववीरजित् । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ ३२॥ शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेववृत्तिरनुत्तमः ॥ ३३॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । यज्ञभुग् यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ ३४॥ यज्ञत्राता यज्ञपुमान् वनमाली द्विजप्रियः । द्विजैकमानदोऽहिंस्रः कुलदेवोऽसुरान्तकः ॥ ३५॥ सर्वदुष्टान्तकृत् सर्वसज्जनानन्दपालकः । सर्वलोकैकजठरः सर्वलोकैकमण्डलः ॥ ३६॥ सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः । शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ ३७॥ अनिर्देश्यवपु सर्वः सर्वलोकैकपावनः । अनन्तकीर्तिर्निः श्रीशः पौरुषः सर्वमङ्गलः ॥ ३८॥ सूर्यकोटिप्रतीकाशो यमकोटिविनाशनः । ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३९॥ कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः । कुबेरकोटिलक्ष्मीवान् शत्रुकोटिविनाशनः ॥ ४०॥ कन्दर्पकोटिलावण्यो दुर्गकोटिविमर्द्धनः । समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ॥ ४१॥ हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ४२॥ सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ४३॥ विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ४४॥ वैकुण्ठोऽनन्तमाहात्म्यो महायोगीश्वरेश्वरः । नित्यतृप्तोऽथ सद्भावो निःशङ्को नरकान्तकः ॥ ४५॥ दीनानाथैकशरणं विश्वैकव्यसनापहा । जगत्क्षमाकृतो नित्यो कृपालुः सज्जनाश्रयः ॥ ४६॥ योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेता प्रजापतिसभाधिपः ॥ ४७॥ शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४८॥ जगत्सेतुर्धर्मसेतुर्धीरोऽरिष्टधुरन्यरः । निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४९॥ रम्यमायो विश्वविश्वो विष्वक्सेनो नगोत्तमः । सर्वाश्रयः पतिर्देव्या सर्वभूषणभूषितः ॥ ५०॥ सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा । समस्तदेवसर्वज्ञः सर्वदैवतनायकः ॥ ५१॥ समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः । समस्तदेवकवचं सर्वदेवशिरोमणिः ॥ ५२॥ समस्तभयनिर्भिन्नो भगवान् विष्टरश्रवाः । विभुः सर्वहितोदर्को हतारिः सुगतिप्रदः ॥ ५३॥ सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः । ब्रह्मशम्भुपरार्धाढ्यी ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ५४॥ विराट् भक्तपराधीनः स्तुत्यः सर्वार्थसाधकः । सर्वार्थकर्ता कृत्यज्ञः स्वार्थकृत्यमदोज्झितः ॥ ५५॥ सदा नवः सदा भद्रः सदा शान्तः सदा शिवः । सदा प्रियः सदा तुष्टः सदा पुष्टः सदार्चितः ॥ ५६॥ सदा पूतः पावनाग्रो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥ ५७॥ भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मुञ्जकेशः सर्वयोगविनिस्मृतः ॥ ५८॥ वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यश्रेष्ठः पुराणर्षिर्निष्ठाशान्तिपरायणः ॥ ५९॥ शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः । नरकृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ६०॥ आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालो जितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥ ६१॥ आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्म गुरुर्वाग्मीश्वरीपतिः ॥ ६२॥ अनन्तविद्याप्रभवो मूलाविद्याविनाशकः । सर्वार्हणो जगज्जाढ्यनाशको मधुसूदनः ॥ ६३॥ अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपावकः । आदिविद्वान् वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ६४॥ ब्रह्मार्थवेदाभरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानराजो ज्ञानसिन्धुरखण्डधीः ॥ ६५॥ मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रधृक् । लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ६६॥ आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भवः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ६७॥ आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः । हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६८॥ समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुग्भव्यो गुणभव्यैकदायकः ॥ ६९॥ लोमान्तलीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञघ्नध्वंसनो याज्ञिकाश्रयः ॥ ७०॥ नरसिंहो दिव्यसिंहः सर्वारिष्टार्तिदुःखहा । एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनम् ॥ ७१॥ ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः । कोटिवज्राधिकनखो गजदुष्प्रेक्षमूर्तिधृक् ॥ ७२॥ मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिन्त्योऽमोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ७३॥ हिरण्यकशिपुच्छेदी कालः सङ्कर्षणः पतिः । कृतान्तवाहनः सद्यः समस्तभयनाशनः ॥ ७४॥ सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ७५॥ भैरवेशो हरार्तिघ्न कालकल्पो दुरासदः । दैत्यगर्भस्राविनामा स्फुरद्ब्रह्माण्डवर्जितः ॥ ७६॥ स्मृतिमात्राखिलत्राता भूतरूपो महाहरिः । ब्रह्मचर्मशिरःपट्टा दिक्पालोऽर्धाङ्गभूषणः ॥ ७७॥ द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरिजारतो भैरवतर्जकः ॥ ७८॥ वीरचक्रेश्वरोऽत्युग्रो यमारिः कालसंवरः । क्रोधेश्वरो रुद्रचण्डीपरिवादी सुदुष्टभाक् ॥ ७९॥ सर्वाक्षः सर्वमृत्युश्च मृत्युर्मृत्युनिर्वतकः । असाध्यः सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ८०॥ गणेशकोटिदर्पघ्नो दुःसहोऽशेषगोत्रहा । देवदानवदुर्धषो जगद्भक्ष्यप्रदः पिता ॥ ८१॥ समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रेशोऽसुरमार्जारः कालमूषकभक्षकः ॥ ८२॥ अनन्तायुधदोर्द्दण्डो नृसिंहो वीरभद्रजित् । योगिनीचक्रगुह्येशः शक्रारिः पशुमांसभुक् ॥ ८३॥ रुद्रो नारायणो मेषरूपशङ्करवाहनः । मेषरूपी शिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ८४॥ तुलसीवल्लभो वीरोऽचिन्त्यमायोऽखिलेष्टदः । महाशिवः शिवारुद्रो भैरवैककपालभूत् ॥ ८५॥ भिल्लश्चक्रेश्वरः शक्रो दिव्यमोहनरूपधृक् । गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ८६॥ ब्रह्मतेजोमयो ब्रह्म श्रीमयश्च त्रयीमयः । सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ८७॥ उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः । बलिस्वाराज्यदः सर्वदेवविप्रात्मदोऽच्युतः ॥ ८८॥ उरुक्रमस्तीर्थपादस्त्रिदशश्च त्रिविक्रमः । व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८९॥ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतकर्माद्रिधारणः । अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ९०॥ बहुमूर्धा पराङ्छिद्रभृगुपत्नीशिरोहरः । पापस्तेयः सदापुण्यो दैत्येशो नित्यखण्डकः ॥ ९१॥ पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् । अमरो नित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ९२॥ वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः । विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ९३॥ पराशक्तिसमायुक्तो योगानन्दमदोन्मदः । समस्तेन्द्रारितेजोहृत् परमानन्दपादपः ॥ ९४॥ अनसूयागर्भरत्नो भोगमोक्षसुखप्रदः । जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिहृत् ॥ ९५॥ मातृहत्यघनिर्लेपः स्कन्दजिद्विप्रराज्यदः । सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ९६॥ योगी योगावतारश्च योगीशो योगवत्परः । परमानन्ददाता च शिवाचार्ययशःप्रदः ॥ ९७॥ भीमः परशुरामश्च शिवाचार्यैकविश्वभूः । शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ॥ ९८॥ द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तकृत् । अद्वितीयतमोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ॥ ९९॥ मनुश्रेष्ठः सतां सेतुर्महीयान् वृषभो विराट् । आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥ १००॥ पृथुजन्माद्येकदक्षो ह्रीः श्रीः कीर्तिः स्वयंधृतिः । जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठो दुरस्त्रधृक् ॥ १०१॥ सनकादिमुनिप्राप्तभगवद्भक्तिवर्धनः । वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ॥ १०२॥ सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः । काकुत्स्थवीरताधर्मो राजधर्मधुरन्धरः ॥ १०३॥ नित्यसुस्थाशयः सर्वभद्रग्राही शुभैकदृक् । नवरत्नं रत्ननिधिः सर्वाध्यक्षो महानिधिः ॥ १०४॥ सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् । जगद्वशी दाशरथिः सर्वरत्नाश्रयो नृपः ॥ १०५॥ धर्मः समस्तधर्मस्थो धर्मद्रष्टाखिलार्तिहृत् । अतीन्द्रो ज्ञानविज्ञानपारदृश्वा क्षमाम्बुधिः ॥ १०६॥ सर्वप्रकृष्टः शिष्टेष्टो हर्षशोकाधनाकुलः । पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ॥ १०७॥ गुहादेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः । चित्रकूटाप्तरत्नाद्रिजगदीशो रणेचरः ॥ १०८॥ यथेष्टामोघशस्त्रास्त्रो देवेन्द्रतनयाक्षिहा । ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ॥ १०९॥ ब्रह्मशापहताशेषदण्डकारण्यपावनः । चतुर्दशसहस्राग्र्यरक्षोघ्नैकशरैकभृत् ॥ ११०॥ खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः । जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः ॥ १११॥ लीलाधुनःकोट्यापास्तदुन्दुभ्यस्थिमहाचयः । सप्ततालव्यथाकृष्टध्वजपातालदानवः ॥ ११२॥ सुग्रीवे राज्यदो धीमान् मनसैवाभयप्रदः । हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ॥ ११३॥ अग्निदैवत्यबाणैकव्याकुलीकृतसागरः । सम्लिच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ॥ ११४॥ सनागदैत्यधामैकव्याकुलीकृतसागरः । समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ ११५॥ असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । वरदृप्तजनस्थानपौलस्त्यकलकृन्तनः ॥ ११६॥ रावणघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा । रावणैकमुखच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ ११७॥ स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः । रक्षोदेवत्वहृद्धर्मा धर्महर्म्यः पुरुष्टुतः ॥ ११८॥ नातिमात्रदशास्यारिर्दत्तराज्यविभीषणः । सुधासृष्टिभृताशेषस्वसैन्यजीवनैककृत् ॥ ११९॥ देवब्राह्मणनामैकधाता सर्वामरार्चितः । ब्रह्मसूर्येन्द्ररुद्रादिवन्द्योऽर्चितसतां प्रियः ॥ १२०॥ अयोध्याखिलराजाग्र्य सर्वभूतमनोहरः । स्वाम्यतुल्यकृपादत्तो हीनोष्कृष्टैकसत्प्रियः ॥ १२१॥ स्वपक्षादिन्यायदर्शी हीनार्थोऽधिकसाधकः । बाधव्याजानुचितकृत्तावकोऽखिलतुष्टिकृत् ॥ १२२॥ पार्वत्यधिकयुक्तात्मा प्रियात्यक्तः सुरारिजित् । साक्षात्कुशलवत्सद्मेन्द्राग्निनातोऽपराजितः ॥ १२३॥ कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः । यशोदानन्दनो नन्दी धरणीमण्डलोदयः ॥ १२४॥ ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थपः ॥ १२५॥ स्वर्णीतगर्दभश्वादिचिरायोध्याबलैककृत् । रामाद्वितीयः सौमित्रिलक्ष्मणप्रहतेन्द्रजित् ॥ १२६॥ विष्णुभक्ताशिवांहःछित्पादुकाराज्यनिर्वृतः । भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ १२७॥ शत्रुघ्नो वैद्यराडायुर्वेदगर्भौषधीपतिः । नित्यानित्यकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ १२८॥ सूर्यविघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः । छिन्नमूर्धोपदेशार्कतनूजकृतमैत्रिकः ॥ १२९॥ शेषाङ्गस्थापितनरः कपिलः कर्दमात्मजः । योगात्मकध्यानभङ्गसगरात्मजभस्मकृत् ॥ १३०॥ धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः । शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥ १३१॥ विश्वात्माशेषरुद्रार्थशिरश्छेदाक्षताकृतिः । वाजपेयादिनामाग्निर्वेदधर्मापरायणः ॥ १३२॥ श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् । विश्वप्रकाशितध्यानयोगो मोहतमिस्रहा ॥ १३३॥ भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः । महाप्रलयविश्वैकोऽद्वितीयोऽखिलदैत्यराट् ॥ १३४॥ शेषदेवः सहस्राक्षः सहस्राङ्घिशिरोभुजः । फणी फणिफणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १३५॥ कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः । नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १३६॥ स्वसन्तोषतृप्तिमात्रः पातितैकदशाननः । बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १३७॥ मुष्टिकघ्नो द्विविदहा कालिन्दीभेदनो बलः । रेवतीरमणः पूर्वभक्तिरेवाच्युताग्रजः ॥ १३८॥ देवकीवसुदेवोत्थोऽदितिकश्यपनन्दनः । वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३९॥ नराकृतिः पूर्णब्रह्म सव्यसाची परन्तपः । ब्रह्मादिकामनानित्यजगत्पर्वेतशैशवः ॥ १४०॥ पूतनाघ्नः शकटभिद्यमलार्जुनभञ्जनः । वत्सामुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १४१॥ दामोदरो गोपदेवो यशोदानन्दकारकः । कालीयमर्द्दनः सर्वगोपगोपीजनप्रियः ॥ १४२॥ लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः । अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १४३॥ सद्यः कुवलयापीडघाती चाणूरमर्दनः । कंसारिरुग्रसेनादिराज्यस्थाय्यरिहाऽमरः ॥ १४४॥ सुधर्मांकितभूलोको जरासन्धबलान्तकः । त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥ १४५॥ सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । रुक्मिणीरमणो रुक्मिशासनो नरकान्तकृत् ॥ १४६॥ समस्तनरकत्राता सर्वभूपतिकोटिजित् । समस्तसुन्दरीकान्तोऽसुरारिर्गरुडध्वजः ॥ १४७॥ एकाकीजितरुद्रार्कमरुदापोऽखिलेश्वरः । देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १४८॥ बाणबाहुसहस्रच्छित्स्कन्दादिगणकोटिजित् । लीलाजितमहादेवो महादेवैकपूजितः ॥ १४९॥ इन्द्रार्थार्जुननिर्मत्सुर्जयदः पाण्डवैकधृक् । काशीराजशिरस्छेत्ता रुद्रशक्त्येकमर्दनः ॥ १५०॥ विश्वेश्वरप्रसादाढ्यः काशीराजसुतार्दनः । शम्भुप्रतिज्ञापाता च स्वयम्भुगणपूजकः ॥ १५१॥ काशीशगणकोटिघ्नो लोकशिक्षाद्विजार्चकः । शिवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १५२॥ गयासुरप्रतिज्ञाधृक् स्वांशशङ्करपूजकः । शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १५३॥ महालक्ष्मीवपुर्गौरीत्राणो देवलवातहा । विनिद्रमुचुकुन्दैकब्रह्मास्त्रयुवनाश्वहृत् ॥ १५४॥ अक्रूरोऽक्रूरमुख्यैकभक्तस्वच्छन्दमुक्तिदः । सबालस्त्रीजलक्रीडाकृतवापीकृतार्णवः ॥ १५५॥ यमुनापतिरानीतपरिणीतद्विजात्मकः । श्रीदामशङ्कुभक्तार्थभूम्यानीतेन्द्रभैरवः ॥ १५६॥ दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । आचाण्डालादिकं प्राप्य द्वारकानिधिकोटिकृत् ॥ १५७॥ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् । परिणीतद्विजसुतानेताऽर्जुनमदापहः ॥ १५८॥ गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः । पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहभृत् ॥ १५९॥ ब्रह्मशापच्छलध्वस्तयादवो विभवावहः । अनङ्गे जितगौरीशो रतिकान्तः सदेप्सितः ॥ १६०॥ पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः । उषापतिर्विश्वहेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १६१॥ चतुरात्मा चतुर्वर्णश्चतुर्वेदविधायकः । चतुर्विश्वैकविश्वात्मा सर्वोत्कृष्टासु कोटिषु ॥ १६२॥ आश्रयात्मा पुराणर्षिर्व्यासः शास्त्रसहस्रकृत् । महाभारतनिर्माता कवीन्द्रो वादरायणः ॥ १६३॥ कृष्णद्वैपायनः सर्वपुरुषार्थकबोधकः । वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १६४॥ बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः । निरायुधो जगज्जैत्रः श्रीधनो दुष्टमोहनः ॥ १६५॥ दैत्यवेदबहिष्कर्त्ता वेदार्थश्रुतिगोपकः । शुद्धोदनिर्नष्टदिष्टः सुखदः सदसत्पतिः ॥ १६६॥ यथायोग्याखिलकुपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १६७॥ पाषण्डश्रुतिमार्गेण पाषण्डश्रुतिगोपकः । कल्की विष्णुयशः पूतः कलिकालविलोपकः ॥ १६८॥ समस्तम्लेच्छहस्तघ्नः सर्वशिष्टद्विजातिकृत् । सत्यप्रवर्त्तको देवद्विजदीर्घक्षुधापहः ॥ १६९॥ अवगवादिवेदेन पृथ्वीदुर्गतिनाशनः । सद्यः क्ष्मानन्तलक्ष्मीकृत् नष्टनिः शेष धर्मकृत् ॥ १७०॥ अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः । असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १७१॥ आत्मतत्त्वाधिपः कृर्तृश्रेष्ठो विधिरुमापतिः । भर्तुः श्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥ १७२॥ कश्यपो देवरादिन्द्रः प्रह्लादो दैत्यराट् शशी । नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ॥ १७३॥ महर्षिराट् भृगुर्विष्णुरादित्येशो बलिः स्वराट् । वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराट् गुरुः ॥ १७४॥ विद्वत्तमश्चित्ररथो गन्धर्वाग्र्यो वसूत्तमः । वर्णादिरग्र्या स्त्री गौरी शक्त्यग्र्या श्रीश्च नारदः ॥ १७५॥ देवर्षिराट् पाण्डवाग्र्योऽर्जुनो नारदवादराट् । पवनः पवनेशानो वरुणो यादसाम्पतिः ॥ १७६॥ गङ्गातीर्थोत्तमोद्भूतं छत्रकाग्र्यवरौषधम् । अन्नं सुदर्शनास्त्राग्र्यो वज्रप्रहरणोत्तमम् ॥ १७७॥ उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः । अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७८॥ अध्यात्मविद्याविद्यात्मा प्रणवश्छन्दसां वरः । मेरुर्गिरिपतिर्भार्गो मासाग्र्यः कालसत्तमः ॥ १७९॥ दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् । तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १८०॥ दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुरोत्तमः । चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १८१॥ सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्भूधरो नृपः । वणशो ब्राह्मणश्चान्तः करणाग्र्यं नमो नमः ॥ १८२॥ इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १८३॥ अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् । विष्णुलोकैकसोपानं सर्वदु:खविनाशनम् ॥ १८४॥ समस्तसुखदं सत्यं परं निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १८५॥ शान्तिदं पावनं नृणां महापाताकिनामपि । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १८६॥ सर्वविघ्नप्रशमनं सर्वारिष्टविनाशनम् । घोरदुःस्वप्नशमनं तीव्रदारिद्र्यनाशनम् ॥ १८७॥ तापत्रयापहं गुह्यं धनधान्ययशस्करम् । सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वकामदम् ॥ १८८॥ तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् । अप्रज्ञजाड्यशमनं सर्वविद्याप्रवर्त्तकम् ॥ १८९॥ राज्यदं राज्यकामानां रोगिणां सर्वरोगनुत् । वन्ध्यानां सुतदं चाशु सर्वश्रेष्ठफलप्रदम् ॥ १९०॥ अस्त्रग्रामविषध्वंसी ग्रहपीडाविनाशनम् । माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ १९१॥ सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः । पुराणशास्त्रं स्मृतयः पठिताः पठितास्तथा ॥ १९२॥ जप्त्वास्य श्लोकं श्लोकार्धं पादं वा पठतः प्रिये । नित्यं सिध्यति सर्वेषामचिरात्किमुतोऽखिलम् ॥ १९३॥ प्राणेन सदृशं सद्यः प्रत्यहं सर्वकर्मसु । इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥ १९४॥ नावैष्णवाय दातव्यं विकल्पोपहृतात्मने । भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥ १९५॥ देयं पुत्राय शिष्याय शुद्धाय हितकाम्यया । मत्प्रसादादृते नेदं ग्रहिष्यन्त्यल्पमेधसः ॥ १९६॥ कलौ सद्यः फलं कल्पग्राममेष्यति नारदः । लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥ १९७॥ क्षेत्रेषु वैष्णवेष्वेतदार्यावर्त्ते भविष्यति । नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परम्पदम् ॥ १९८॥ नास्ति विष्णो परं ज्ञानं नास्ति मोक्षो ह्यवैष्णवः । नास्ति विष्णोः परो मन्त्रो नास्ति विष्णोः परं तपः ॥ १९९॥ नास्ति विष्णो परं ध्यानं नास्ति मन्त्रो ह्यवैष्णवः । किं नास्य बहुभिर्मन्त्रैः किं जपैर्बहुविस्तरैः ॥ २००॥ वाजपेयसहस्रैः किं भक्तिर्यस्य जनार्दने । सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभु ॥ २०१॥ सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् । आब्रह्मसारसर्वस्य सर्वमेतन्मयोदितम् ॥ २०२॥ श्रीपार्वत्युवाच- धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते । यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥ २०३॥ अहो बत महत्कष्टं समस्त सुखदे हरौ । विद्यमानेऽपि सर्वेशे मूढाः क्लिश्यन्ति संसृतौ ॥ २०४॥ यमुद्दिश्यसदा नाथो महेशोऽपि दिगम्बरः । जटिलो भस्मलिप्ताङ्गस्तपस्वी वीक्षितो जनैः ॥ २०५॥ अतोऽधिको न देवोऽस्ति लक्ष्मीकान्तान्मधुद्विषः । यतत्वं चिन्त्यते नित्यं त्वया योगीश्वरेण हि ॥ २०६॥ अतःपरं किमधिकं पदं श्रीपुरुषोत्तमात् । तमविज्ञाय तान् मूढा यजन्ते ज्ञानमानिनः ॥ २०७॥ मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः । प्रकाशितो न मे यस्य दत्ताद्या दिव्यशक्तयः ॥ २०८॥ अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः । भवदादिगुरुर्मूढैः सामान्य इव लक्ष्यते ॥ २०९॥ महीयसां हि माहात्म्यं भजमानान् भजन्ति चेत् । द्विषतोऽपि तथा पापानुपेक्ष्यन्ते क्षमालयाः ॥ २१०॥ मयापि बाल्ये स्वपितुः प्रज्ञा दृष्टा बुभुक्षिताः । दुखादशक्ताः स्वं पोष्टुं श्रिया नाध्यासिताः पुरा ॥ २११॥ त्वया संवर्धिताभिश्च प्रजाभिर्विबुधादयः । विससद्भिः स्वशक्त्याद्याः समुहृन्मित्रबान्धवाः ॥ २१२॥ त्वया विना क्व देवत्वं क्व धैर्यं क्य परिग्रहः । सर्वे भवन्ति जीवन्तो यातनाः शिरसि स्थिताः ॥ २१३॥ नामृते नैव धर्मार्थौ कामो मोक्षोऽपि दुर्लभः । क्षुधितानां दुर्गतानां कुतो योगसमाधयः ॥ २१४॥ सा च संसारसारैका सर्वलोकैकपालिका । वश्या सा कमला यस्य त्यक्त्वा त्वामपि शङ्करः ॥ २१५॥ श्रिया धर्मेण शौर्येण रूपेणार्चवसम्पदा । सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः ॥ २१६॥ कस्तेन तुल्यतामेति देवदेवेन विष्णुना । यस्यांशांशकभागेन विना सर्व विलीयते ॥ २१७॥ जगदेतत्तथा प्राहुर्दोषायैतद्विमोहिताः । नास्य जन्म जरा मृत्युर्नाप्राप्यं वार्थमेव वा ॥ २१८॥ तथापि कुरुते धर्मान् पालनाय सतां कृते । विज्ञापय महादेव प्रणम्यकं महेश्वरम् ॥ २१९॥ अवधार्य तथा साहं कान्त कामद शाश्वत । कामाद्यासक्तचित्तत्वात् किं तु सर्वेश्वर प्रभो ॥ २२०॥ त्वन्मयत्वात्प्रसादाद्वा शक्नोमि पठितुं न चेत् । विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ॥ नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥ २२१॥ श्रीमहादेव उवाच- राम रामेति रामेति रमेरामे मनोरमे । सहस्रनामभिस्तुल्यं रामनाम वरानने ॥ २२२॥ अथ सर्वाणि तीर्थानि जलञ्चैव प्रयागजम् । विष्णोर्नामसहस्रस्य कलां नार्हन्ति षोडशीम् ॥ २२३॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं सम्पूर्णम् ॥ Proofread by DPD, PSA Easwaran
% Text title            : viShNusahasranAmastotram from nAradapancharAtra
% File name             : viShNusahasranAmastotranAradapancharAtra.itx
% itxtitle              : viShNusahasranAmastotram (nAradapancharAtrAntargatam)
% engtitle              : viShNusahasranAmastotram from nAradapancharAtra
% Category              : sahasranAma, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help from Alex
% Proofread by          : DPD, PSA Easwaran
% Description/comments  : From nArada paNcharAtra similar to one in padmapurANa
% Source                : nArada paNcharAtra
% Latest update         : February 15, 2015, December 6, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org