देवकीकृतम् विष्णुस्तोत्रम् १
जगतामीश्वरेशेश ज्ञानज्ञेयभवाव्यय ।
समस्तदेवतादेव वासुदेव नमोऽस्तु ते ॥ ४॥
प्रधानपुंसोरजयोर्यः कारणमकारणम् ।
अविशेष्यमजं रूपं तव तस्मै नमोऽस्तु ते ॥ ५॥
त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः ।
सदसच्चाखिलं देव केनोक्तेन तव स्तवः ॥ ६॥
प्रसीद देव देवानामरिशातन वामन ।
लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ॥ ७॥
इति विष्णुधर्मेषु नवतितमोऽध्यायान्तर्गतं देवकीकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran