विष्णुक्षेत्रोपलेपनकर्मणि विष्णुस्तोत्रम्
विष्णुक्षेत्रोपलेपनकर्मणि करणीयं विष्णुस्तोत्रम् ।
पुलस्त्य उवाच -
रिक्तायास्तु तिथेर्मध्ये कुर्यात्सङ्कल्पमात्मनः ।
उपलेपनकृद्विप्रो विष्णोरायतने भुवि ॥ २२॥
द्वितीयेऽह्नि ततो देवं प्रणम्य यतमानसः ।
धरणीपितरं विष्णुमिदं वाक्यमुदीरयेत् ॥ २३॥
त्वं सर्वभूतप्रभवो जगत्पते त्वय्येतदीशेश जगत्प्रतिष्ठितम् ।
त्वमेव भूतानि यतस्ततोऽहं त्वां पूजयाम्यद्य महीस्वरूपम् ॥ २४॥
त्वं मही जगतां नाथ सर्वनाथ नमोऽस्तु ते ।
शुश्रूषितः प्रसीदेश भुवो लेपनकर्मणा ॥ २५॥
इति विष्णुधर्मेषु एकत्रिंशोऽध्यायान्तर्गतं विष्णुस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran