विष्णुतोषिणी
आत्मानात्मविवेकजन्यपरमं ब्रह्म प्रियं शाश्वतं
मायायुक्तमलक्ष्यतत्त्वममलं नाद्वैतभिन्नं जगत् ।
इत्थं गन्धकुतर्कमन्दसकलं ध्वंसीकृतं साधवं
संभ्रान्तं सुरपार्थसारथिवरं श्रीदारु संप्रार्थये ॥ १॥
मायावादिमतं समस्तकुहकं सत्यं जगद्वैष्णव
नित्यं त्वं पिब कृष्णनाम सरसं सेवस्व पादद्वयम् ।
हंहो तत्त्वमसीति वाक्यमलिकं सारं शिरोवेदनं
किञ्चान्यत्सुखमक्षयं भुवि सखे नीलाद्रिनाथं भज ॥ २॥
सिद्धे शारीरकेस्स्मिन्प्रचुरतरसुखं भास्करे पारिजाते
पूर्णप्रज्ञे प्रदीप्तस्तवगुणमहिमा श्रीकरे शैव-शाक्ते ।
श्रीभाष्ये वल्लभस्य त्वणुमयपरमे सर्ववेदान्तसारे
गोविन्दे पूज्यपादे विलसति नितरां प्रेमभक्तिर्हरेर्नः ॥ ३॥
सिद्धान्तो न हि मान-तर्कविषयो नो निर्णयस्तादृशैः
नो वादो न च जल्पगल्परहितः किं वा वितण्डारवैः ।
दृष्टान्तास्वयवैः सजातिकलितो नो निग्रहो दुश्च्छ्लैः
हेत्वाभासमहाप्रयोजनमहो मेये हरौ संशयः ॥ ४॥
सिद्धान्तं शृणु पाञ्चरात्रवचनं ज्ञानञ्च सङ्कर्षणः
प्रद्युम्नश्च बलं क्रिया सुरुचिरा सृष्टिश्च सौदर्शनी ।
शक्तिः स्यादनिरुद्ध-विष्णु-भगवान् वेदार्थसंस्थापकः
चातुर्व्यूहसमाश्रयो हरिरभूत् श्रीवासुदेवप्रभुः ॥ ५॥
मोहाबद्धनिपीडिता हतधियो नैयायिकास्तार्किकाः
नित्यं सप्तपदार्थतत्त्वविषयाः केचित्तु वै षोडश ।
पक्ष-व्याप्ति-सहेतु-मानसहिताः निःश्रेयसाकाङ्क्षिणः
वाचालाः खलु शुष्कतर्कमुखराः किं वा परैर्दुर्जनैः ॥ ६॥
आजीवे यदि दुर्गतिः प्रविधिना याजिश्च नीलाचले
व्याजी मा भव वासुदेव मतिमन् वाजीव कार्यं चर ।
राजीभूतसमस्तदर्शनचये चाव्जी चिरं सुन्दरे
सज्जीभूतसमस्ततत्त्वपुरुषे राजीवनेत्रे मनः ॥ ७॥
स्नानं वेद्यां रथगतिसुखं शायनं चायने द्वे
प्रावारश्च प्रतिदिनमहो चन्दनश्चापकेलिः ।
पार्श्वत्यागो दमनकसहोत्थानपुष्याभिषेका
भव्या यात्रा विपुलललिता द्वादशैव प्रसिद्धाः ॥ ८॥
सत्यासत्यकथां प्रदीप्त-मतिमन् कर्णौ कुरु स्वादरं
प्रस्थानीकृतसर्वदर्शनमतं वक्ष्यामि सारं परम् ।
आनन्दामृतयोगसाङ्ख्यसहितं वेदान्तवेदान्वितं
दृश्यादृश्यपदार्थतत्त्वसरसं भक्तिप्रियं माधवम् ॥ ९॥
दिव्यं कोटिशरत्कलाकररुचं शङ्खाकृतिर्स्तैजसं
नीलाद्रिप्रणवाद्यतत्त्वगहनं प्राचीरबिभ्रत्त्रयम् ।
चातुष्कोणितनादविन्दुरहितं दीप्तं चतुर्द्वारकं
त्रैमात्रं हरिधामशाश्वतसुखं वैकुण्ठनामोज्ज्वलम् ॥ १०॥
द्वादश्यां प्रियकार्तिके मलतिथौ षट्के जगन्नाथ हे
व्याघ्रत्वक्परिधानकुण्डमुकुटो नागार्जुनो दुर्लभः ।
दिव्यास्लौकिकषोडशायुधयुतः कैरातवेशोज्ज्वलो
रामानन्दपुरीश्वर त्वयि सखे दुष्प्राप्यबोधस्थितिः ॥ ११॥
लीलां कोलकृते कलाकरवृते शार्दूलविक्रीडिते
वाञ्छाकल्पवटावृते तटधृते दारुप्रभाभास्वते ।
ज्येष्ठं श्रेष्ठयते शुभं विजयते गीताकथां भाषते
भक्तिं प्रार्थयते महाप्रभु-जगन्नाथाय तस्मै नमः ॥ १२॥
श्रद्धारेणुमहासुखं विरहितः श्रीगुण्डिचाविह्वलः
रज्ज्वाकर्षणहीनदुर्बलतरो नन्दाभिधानोस्धमः ।
आशा वैतरणी प्रभातकिरणे श्रीमन्दिरे दर्शनं
चित्ते तीव्रवती करोति कवितां हा भाग्यहीनः कविः ॥ १३॥
बुद्धिं वर्धयते गुणं गणयते कृष्णञ्च रामायते
चित्तं चोरयते स्वभक्तमहते कारुण्यमातन्वते ।
शिष्टान्पालयते खलान्दलयते कष्टं पराकुर्वते
भक्तिं प्रार्थयते महाप्रभु-जगन्नाथाय तस्मै नमः ॥ १४॥
कण्ठे हारविशाललम्बितपदः नानासुखैः पुष्पितः
भाले दिव्यशिखण्डदीप्तमकुटः प्रत्यक्षदीप्तद्युतिः ।
नासालम्बितपुष्पहारतिलकं शीर्षे मनोरञ्जनं
दृश्यो विश्वगुरुः पुरीशपरमो भक्तिप्रियो दारवः ॥ १५॥
तप्तस्वर्णसवर्णमङ्गनिचयं रक्तो रजश्चाधरः
आस्यं कृष्णकलाप्रमुग्धसरलं हास्यं जगन्मोहनम् ।
नेत्रे वीक्षणमुग्धदुग्धमधुरं भूगोलकोलाग्रतं
फुल्लं घ्राणविहारचित्रकुसुमं को वा तिरस्कुर्वते ॥ १६॥
श्रीमद् गोविन्दचन्द्रो निखिलसहृदयो नीलजीमूतकान्तः
श्रीमद्राजाधिराजो रघुकुलतिलको नीलदूर्वादलाभः ।
श्रीसत्सङ्गाधिरूढो विपुलपुलकितो ब्रह्मदारुप्रदीप्तः
श्रीसत्कारेषु भान्तः प्रविलसतु तरां प्रार्थना-कामधेनुः ॥ १७॥
एषा विष्णुपुरी महाजनचरी सिद्धान्तशिरोमणिः
नित्या नीलमणिप्रकाशसहजा तद्दारुकोलाग्रती ।
भेदाभेदविशेषतत्त्वगहनप्रत्यक्षदृश्यास्ध्वरी
स्वाहाकारकरी प्रभातसमये सर्वार्थसिद्धिप्रदा ॥ १८॥
राधाकृष्णपदारविन्दयुगला सर्वत्र सञ्जीवनी
तृष्णातापविघातिनी निगदिता सद्दर्शने शाश्वती ।
तर्कातीतसमस्तमार्गसरला चैतन्यसंयोजिनी
सा मा पातु विमुक्तिभक्तिललिता माता मनोरञ्जिनी ॥ १९॥
प्रेमालिङ्गितशुद्धबुद्धनिखिलाम्नायप्रभामण्डलो
लीलादैनिककौतुकी रुचिकरी लक्ष्मीपराकर्षिणी ।
वेशो भूषणसुन्दरं निरुपमं भोगश्च नानाविधै-
रर्चारूपमिदं हरेः प्रियतमं श्रीमन्दिरे नन्दति ॥ २०॥
व्यूहातीतसमस्तदृश्यपटलं तद्दारुदेहाश्रितः
सूक्ष्मस्थूलचतुष्टयैर्विलसितो वेदान्तसारोत्तमः ।
नित्यं तत्त्वमसि प्रधानपुरुषो मायामयो निर्जर
आस्ते मिष्टमहाप्रसादजनकः कैवल्यदाता हरिः ॥ २१॥
प्रत्यक्षं सुखमैहिकं भजत रे आमुष्णिकं नैव सत्
सम्भोगे पुरुषार्थसिद्धिरखिला संसारभूमौ सदा ।
स्वर्गो नास्ति न वेदमन्त्रसफलो मृत्युश्च मोक्षस्थितिः
चार्वाको बहुभाषते खलवरो मूर्खश्च वाचालधीः ॥ २२॥
दुःखं जन्म तथा प्रवृत्तिरखिला दोषश्च मिथ्यामितिः
पौर्वापौर्वविचारकाः श्रमकृताः सम्भावयन्ति प्रथाम् ।
स्वच्छन्दं न हि नापवर्गरमृतं किं वैपरीत्ये मतिः
त्यक्त्वा धूर्तमतं रमस्व सततं भक्तिप्रिय प्रेमिक ॥ २३॥
तद्द्रव्यं गुणकर्मभेदनिचयं सामान्यज्ञानं तथा
सप्तशेष्ठ-विशेषशब्दविषयाभावाः पदार्थास्त्वमी ।
साधर्म्याः समवाययोगरुचिरा वैधर्म्यतत्त्वाश्रिताः
रुग्णाः मांसरसं पिबन्ति रुधिरं तर्कान्धकारेस्ध्वनि ॥ २४॥
श्रीनीलाचलमौलिमण्डनमणिं संविन्मयं शाश्वतं
मित्याज्ञानविताडनं प्रियतमं तत्कृष्णवर्णद्वयम् ।
जिज्ञासातिबला पुरीप्रियकथा श्रीमन्दिरप्रेमिकं
तत्त्वातीतमिदं हरेः खिलसुखं कर्णामृतं भावये ॥ २५॥
नित्या सौख्यकरी विमुक्तिसहिता वेदान्तवेद्या रति-
र्युक्तिर्दारुमयी सदैवललिता स्वात्मानुसन्धायिनी ।
विद्या द्वैतमहारसा मधुमयी सन्मार्गसद्भाविनी
श्लाघ्या श्रीपरमेश्वरप्रियतमा भक्तिर्महा सात्त्विकी ॥ २६॥
मूर्तिर्भक्तिजनी विशल्यकरणी नाद्वैतवैयासकी
नो तर्क-प्रबला न साङ्ख्य-सरला नो योग-विद्वेषिणी ।
आराध्या तुलसीदलायितपदा श्रीब्रह्मदारुप्रिया
संसारामयनाशिनी निगमजा मन्मानसी वैखरी ॥ २७॥
कृष्णं कीर्तय सुन्दरं शृणु कथां गोविन्दनाम स्मर
दारुब्रह्म समर्चय प्रियतमं सेवस्व पादौ चिरम् ।
सख्यं श्रीपुरुषोत्तमे प्रतिदिनं श्रीरामदासो भव
सर्वस्वात्मनिवेदनं कुरु हरौ तद्वन्दने नन्दय ॥ २८॥
श्रीमद्भागवतं पुराणमशनं गीतामृतं पानकं
नित्यं दारुमुखं निरीक्षणमहत्सौख्यं पुरीसेवनम् ।
तन्नामश्रवणं सहर्षयजनं सङ्कीर्तनं जीवनं
साक्षाच्छ्रीहरिभक्तिसाधकवरं सुस्वागतं कुर्महे ॥ २९॥
श्रीक्षेत्रं पुरुषोत्तमस्य सदनं ब्रह्ममहावैष्णवो
लीलाद्वैतकलाकरो हरिवरो ब्रह्माण्डपिण्डाधिपः ।
नित्यं सेवक-सेव्यभावलसितो भोगालये संस्थित-
स्तद्दिव्यं हरिकीर्तनं वितनुते प्रदीप्तनन्दास्धमः ॥ ३०॥
दासीभूतां हरेस्तां त्रिगुणपरिहितां विष्णुमायां सुशक्तिं
विद्यास्विद्यास्वरूपां प्रकृतिपदगतां मोक्षभोगप्रदात्रीम् ।
मूलां सूक्ष्मां सबीजां प्रचरति बहुलां सृष्टिकाले परेशीं
मान्यां गण्यां भजेम्बां पुरुषसुखकरीं प्रार्थये सर्वदाहम् ॥ ३१॥
त्वं बुद्धिर्मानसी वै त्वमसि च सकलं ज्ञानविज्ञानरूपं
त्वञ्चाहाङ्काररूपो विकृतिकलुषितश्चेन्द्रियाणां समूहः ।
तन्मात्राणि त्वमेव त्रिभुवनभवने पञ्चभूतानि यानि
सर्वाणि त्वञ्च तानि प्रवर यदुपते नास्ति कश्चित्परो वा ॥ ३२॥
जीवाजीवपदार्थयुग्मकथितः स्याद्वादयुक्त्याश्रितो
बन्धः सम्बरनिर्जराश्रवयुताः मोक्षश्च तत्त्वानि वै ।
सम्यग्दर्शनमाद्यरत्नममलं ज्ञानं चरित्रं त्रयं
सर्वज्ञो बहु वक्ति नास्ति चरमं तत्त्वान्तरं भावये ॥ ३३॥
भ्राजत्सत्यचतुष्टयेन करुणो हिंसाविहीनो मुनिः
श्रीविष्णोः नवमावतारनिगमप्रक्षिप्तविध्वंसकः ।
सिद्धः शाक्यकुलावतीर्णभगवान् बुद्धो महावैष्णवः
निर्वाणामृतधारकः स्मितमुखः पायाद्दयासागरः ॥ ३४॥
इति प्रदीप्तनन्दशर्मविरचिता विष्णुतोषिणी समाप्ता ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com