श्रीविष्ण्वष्टकम्
॥ श्रीगणेशाय नमः ॥
जगन्नाथं विश्ववन्द्यं शङ्ख पद्म गदा धरम् ।
तथा चक्रधरं देवं तं विष्णुं प्रणमाम्यहम् ॥ १॥
तुलसी वनमाला च पद्ममाला धरं प्रभुम् ।
चतुर्भुजं नीलवर्णं तं विष्णुं प्रणमाम्यहम् ॥ २॥
किरीटं कुण्डलं रम्यं पीतवस्त्रधरं विभुम् ।
श्रीवत्सचिह्नसंयुक्तं तं विष्णुं प्रणमाम्यहम् ॥ ३॥
आजानुबाहुकं शान्तं लक्ष्मीकान्तं मनोहरम् ।
मुकुटं रत्नसं युक्तं तं विष्णुं प्रणमाम्यहम् ॥ ४॥
मुखसुन्दरपद्माक्षं कर्णकुण्डलसुन्दरम् ।
पद्मनाभस्वरूपं च तं विष्णुं प्रणमाम्यहम् ॥ ५॥
क्षीरसागरमध्यस्थं नागासनकरं प्रभुम्।
नारायण इति ख्यातं तं विष्णुं प्रणमाम्यहम् ॥ ६॥
ब्रह्मशङ्कर विष्णवादि स्तुतिं कुर्वन्ति सर्वदा ।
सच्चिदानन्दरूपाख्यं तं विष्णुं प्रणमाम्यहम् ॥ ७॥
सत्यज्ञानमनन्तं च परब्रह्मस्वरूपकम् ।
ममात्मव्यापकं ह्येकं तं विष्णुं प्रणमाम्यहम् ॥ ८॥
विष्ण्वष्टकमिदं स्तोत्रं श्रद्धया निर्मिता मया ।
समर्पयाम्यहं विष्णो प्रसन्नो भव सर्वदा ॥ ९॥
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीविषेवष्टकं सम्पूर्णम् ॥
Proofread by Vani V