श्रीविठ्ठलकवचम्

श्रीविठ्ठलकवचम्

सूत उवाच । शिरो मे विठ्ठलः पातु कपोलं मुद्गरप्रियः । नेत्रयोर्विष्णुरूपी च वैकुण्ठो घ्राणमेव च ॥ १॥ मुनिसेव्यो मुखं पातु दन्तपङ्क्तिं सुरेश्वरः । विद्याधीशस्तु मे जिह्वां कण्ठं विश्वेशवन्दितः ॥ २॥ व्यापको हृदयं पातु स्कन्धौ पातु सुखप्रदः । भुजौ मे नृहरिः पातु करौ च सुरनायकः ॥ ३॥ मध्यं पातु सुराधीशो नाभिं पातु सुरालयः । सुरवन्द्यः कटी पातु जानुनी कमलासनः ॥ ४॥ जङ्घे पातु हृषीकेशः पादौ पातु त्रिविक्रमः । निखिलं च शरीरं मे पातां गोविन्दमाधवौ ॥ ५॥ अकारो व्यापको विष्णुरक्षरात्मक एव च । पावकः सर्वपापानामकाराय नमो नमः ॥ ६॥ तारकः सर्वभूतानां धर्मशास्त्रेषु गीयते । पुनातु विश्वभुवनं तोङ्काराय नमो नमः ॥ ७॥ मूलप्रकृतिरूपा या महामाया च वैष्णवी । तस्या बीजेन संयुक्तयकारायनमो नमः ॥ ८॥ वैकुण्ठाधिपतिः साक्षाद्वैकुण्ठपददायकः । वैजयन्तीसमायुक्तो विकाराय नमो नमः ॥ ९॥ स्नातः सर्वेषु तीर्थेषु पूतो यज्ञादिकर्मसु । पावनो द्विजपङ्क्तीनां ठकाराय नमो नमः ॥ १०॥ वाहनं गरुडो यस्य भुजङ्गः शयनं तथा । वामभागे च लक्ष्मीश्च लकाराय नमो नमः ॥ ११॥ नारदादिसमायुक्तं वैष्णवं परमं पदम् । लभते मानवो नित्यं वैष्णवं धर्ममाश्रितः ॥ १२॥ व्याधयो विलयं यान्ति पूर्वकर्मसमुद्भवाः । भूतानि च पलायन्ते मन्त्रोपासकदर्शनात् ॥ १३॥ इदं षडक्षरस्तोत्रं यो जपेच्छ्रद्धयान्वितः । विष्णोस्सायुज्यमाप्नोति सत्यं सत्यं न संशयः ॥ १४॥ इति श्रीपद्मपुराणे विठ्ठलकवचं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Viththala Kavacham
% File name             : viThThalakavacham.itx
% itxtitle              : viThThalakavacham (padmapurANAntargatam)
% engtitle              : viThThalakavacham
% Category              : vishhnu, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org