विठ्ठलस्तवराजः
ओं अस्य श्रीविठ्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषिः
अतिजगती छन्दः श्रीविठ्ठलः परमात्मा देवता ।
त्रिमूर्त्यात्मक इति बीजम् । सृष्टिसंरक्षणार्थ इति शक्तिः ।
वरदाभयहस्त इति कीलकम् ।
मम सर्वाभीष्टफलसिद्धयर्थे जपे विनियोगः ।
अथ न्यासः-
ओं नमो भगवते विठ्ठलाय अङ्गुष्ठाभ्यां नमः ।
ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः ।
ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः ।
ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः ।
ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः ।
ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् -
श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् ।
त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १॥
नासाग्रेऽवस्थितं देवमाब्रह्मस्तम्बसंयुतम् ।
ऊर्णातन्तुनिभाकारं सूत्रज्ञं विठ्ठलं स्वयम् ॥ २॥
गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गमन्दरम् ।
ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ ३॥
रुक्मिणीशक्तिहस्तेन क्रीडन्तं चललोचनम् ।
आज्ञाब्रह्मबिलान्तःस्थज्योतिर्मयस्वरूपकम् ॥ ४॥
सहस्रदलपद्मस्थं सर्वाभरणभूषितम् ।
सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ ५॥
समपर्वत ऊर्ध्वस्थं श्रोणित्रयसहस्रकम् ।
स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ ६॥
पीतवस्त्रपरीधानं तुलसीवनमालिनम् ।
शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ ७॥
ऊर्ध्वपुण्ड्रमयं देवं चित्राभरणभूषितम् ।
रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ ८॥
रत्नकिङ्किणिकेयूरं रत्नमण्डपशोभितम् ।
पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ ९॥
देवारिदैत्यदर्पघ्नं सर्वलोकैकनायकम् ।
ओं नमश्शान्तरूपाय सर्वलोकैकसिद्धये ॥ १०॥
सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे ।
सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ ११॥
परमन्त्रप्रणाशाय परयन्त्रनिवारिणे ।
परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ १२॥
परात्परस्वरूपाय परमात्मस्वरूपिणे ।
परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ १३॥
विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे ।
विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ १४॥
परहंसस्वरूपाय सोऽहं हंसस्वरूपिणे ।
हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ १५॥
अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे ।
आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ १६॥
क्षराक्षरस्वरूपाय अक्षराय स्वरूपिणे ।
ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ १७॥
बिन्दुनादकलातीतभिन्नदेहसमप्रभ ।
अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ १८॥
भीमातीरनिवासाय पण्डरीपुरवासिने ।
पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ १९॥
सर्वयोगार्थतत्त्वज्ञ सर्वभूतहिते रत ।
सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ २०॥
य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् ।
सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ २१॥
सर्वे ज्वरा विनश्यन्ति मुच्यते सर्वबन्धनात् ।
आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥ २२॥
य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् ।
स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ २३॥
सर्वभूतप्रशमनं सर्वदुःखनिवारणम् ।
सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ २४॥
त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ २५॥
सङ्ग्रामे सङ्कटे चैव विवादे शत्रुमध्यगे ।
शृङ्खलाबन्धने चैव मुच्यते सर्वकिल्वषात् ॥ २६॥
राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च ।
साधकस्तम्भने चैव सर्वत्र विजयी भवेत् ॥ २७॥
इति श्रीरुद्रपुराणे वामकेश्वरतन्त्रे विठ्ठलस्तवराजः सम्पूर्णः ।
Proofread by PSA Easwaran