विठ्ठलस्तोत्रम् २

विठ्ठलस्तोत्रम् २

जीवनजीगोस्वामिकृतं श्रीविठ्ठलं नतोऽस्मि श्रीवल्लभवल्लभं सुमार्तण्डम् । श्रीपुण्डरीकसुखदं रुक्मिण्या वल्लभं परमरुचिरम् ॥ १॥ श्रीविठ्ठलेत्यभिख्यां पूर्णां युक्तां विधातुमिह निकटे । कृत्वेमां वैदर्भीं कमलां कमलेक्षण स्थितोऽस्मि विभो ॥ २॥ पतितानुद्धृत्य त्वं सङ्ख्यातीतान्विदाविहीनतरान् । श्रान्तो भृशं ततः किल कटिदेशे धृतकरोऽसि करुणाब्धे ॥ ३॥ धृतमनुजाकृतिरस्म्यहमथापि लोकेऽस्ति कोऽपि मत्सदृशः । इति परिचिचीषया त्वं परिरम्भण उत्सुकोऽसि लोकानाम् ॥ ४॥ संसारोष्णकरोद्भवतापनिवृत्यै रसस्वरूप हरे । सान्द्रघनाभं धृत्वा विग्रहमन्यादृशं स्थितोऽसि किल ॥ ५॥ दरवरमथ ते करगं दृष्ट्वा संसारदरदरं दरताम् । अदरामभजन्नरवर शशधरकरभरमिवान्धकारभरः ॥ ६॥ स्वीयजनाभयदाने दक्षिणहस्तोऽस्ति युक्तसंज्ञो मे । इति तथ्यं सूचयितुं नालीकं सम्बिभर्षि तस्मिंस्त्वम् ॥ ७॥ त्वयि पुण्डरीकसुखदे गोगणसंवेष्टिते त्रयीनिलये । पापान्धनाशकत्वं युक्तं संज्ञासुखप्रदेऽक्षिचरे ॥ ८॥ दाक्षिण्यं स्वीकर्तुं देशेऽस्मिंस्त्वं स्थितोऽसि यदपि विभो । वामत्वं त्वय्याप्तं स्वीयव्रजमा त्यजत्यहो विमलम् ॥ ९॥ ध्यायं ध्यायं नित्यं शैलं गोवर्धनं प्रियं दासम् । तद्विप्रयोगयोगात् शैलसुरूपं भजस्यथो मौनम् ॥ १०॥ स्वर्गं वाणीं पृथ्वीं धेनुं करणानि पास्यजस्रमये । तत्सूचनाय विभुरपि गोपाकृतिकः स्थितोऽसि देशेऽस्मिन् ॥ ११॥ सेष्टकमयपादयुगं मम तस्मादिष्टसिद्धये भजत । सौख्याप्त्यै सूचयितुं पादयुगे सेष्टकोऽसि तत्सुखद ॥ १२॥ स्वचरणनलिनोद्भूतां तटिनीमुग्रोत्तमाङ्गसम्पर्कात् । दोषाकरनैकट्याद्भीमाभिख्यायुतामिमां मत्वा ॥ १३॥ युक्तार्था त्वं मा भव मद्भक्तेष्वथ भवाघसेनायाम् । इति शिक्षयितुं नित्यं तटदेशे वासतत्परोऽस्यस्याः ॥ १४॥ सुद्विजगणसेव्यस्त्वं सुमनोयुक्तः सुपर्णकः फलदः । समघननीलः कल्पद्रुमकल्पोऽनल्पपञ्चशाखोऽसि ॥ १५॥ सन्मानसवर्ती श्रीस्थानं त्वं सन्निलिम्पगणसेव्यः । हंसकरैः पूज्यः किल रक्तोऽन्तमोददः प्रसन्नश्च ॥ १६॥ प्रियपुण्डरीकभक्तासक्तेः प्राप्तस्तदीयसाजात्यम् । किं वा त्वत्सारूप्याल्लोके ख्यातः स पुण्डरीक इति ॥ १७॥ श्रितपुण्डरीकतटिनीतीरे लक्ष्म्यागतिर्हि युक्ततमा । तव किल निलिम्पभर्तुद्रुमसुमशोभेऽस्ति कृष्ण रसिकवर ॥ १८॥ सालोक्यं सामीप्यं लोकेऽस्मिन् पापकारिणां नियतम् । दुर्लभमपि दत्तं तन्मत्सदृशायाथ विठ्ठलोऽसि ततः ॥ १९॥ नखरोडुपैः परीतं चरणतरण्योर्युगं पुरा रचितम् । यद्यपि मग्नं मत्वा तथाविधं निश्चितं हि मामस्मिन् ॥ २०॥ स्मरणाभिधसूर्यस्तव संसाराब्धिं ह्यशूशुषच्छ्रेष्ठः । नामामृतबहुवृष्ट्या पङ्कं निःशेषतामगात्पश्चात् ॥ २१॥ तेन स्वच्छतरोऽहं सोत्कण्ठः स्वच्छवर्त्मना क्षिप्रम् । उपकण्ठं ते भूमन् सम्प्राप्तः किल दयामृताब्धवर ॥ २२॥ पतितोद्धरणजविरुदं लोकप्रख्यातमादितस्तस्मात् । एतच्छ्रमनिरतोऽभूर्नो चेद्धेत्वन्तरं न हि प्रकृते ॥ २३॥ श्रीवल्लभकल्पद्रुमफलरूपत्वं निजेच्छया यत्नात् । स्वीकृतमिह लोके ननु लोकोद्धाराय तत्प्रियाय भृशम् ॥ २४॥ षड्धर्मैर्निजरूपं पुत्रत्वे सप्तधाऽधुना कृत्वा । धरणीतलं सनाथं कृतवानसि शौरिसद्मनीव मुदा ॥ २५॥ राजन्यासुरवृन्दं प्राक्काले संहृतं त्वया नियतम् । पाखण्ड्यसुरविनाशः कृतोऽधुना विप्रविग्रहेण मुहुः ॥ २६॥ किञ्च स्वीयां भक्तिं शुद्धाद्वैतानुसारिणीं विपुलाम् । कर्तुं वेदोद्धारं वारं वारं कृतश्रमोऽसि भृशम् ॥ २७॥ साम्प्रतमिह याम्यायां सरणावतिपापकारिणां कृपया । वससि त्वं तान्नेतुं स्वं लोकं विठ्ठल प्रभो युक्तम् ॥ २८॥ सामोदस्नेहार्पणयोगात्स्नेहान्विताश्च सामोदाः । हृदये भवन्ति तस्मात्तेषां तस्मिन् हि कृष्णवर्त्माऽऽस्ते ॥ २९॥ पञ्चामृतैर्मितैरपि पूजां कुर्वन्ति ये जनास्तेभ्यः । पञ्चामृतमत्यन्तं ददासि दास्यं दयोदधे प्रार्थ्यम् ॥ ३०॥ पञ्चामृतलिप्तस्त्वं ह्यघटितघटनापटो विभास्येवम् । चन्द्रशतैः संवलितः सान्द्रपयोदः किमागतः पृथ्व्याम् ॥ ३१॥ तोयदकान्त नितान्तं तोयासारेण यः पुमान् भक्त्या । स्नपयति शीघ्रं तस्मै ददासि तोयदसमं वपुर्नियतम् ॥ ३२॥ घुसृणागुरुपङ्कैर्ननु कृत्वा त्वां पङ्किलं प्रयत्नेन । निष्पङ्काः सामोदा भवन्ति रागान्विता विनायासम् ॥ ३३॥ परिमितमथ वासः किल जनाद्गृहीत्वाऽल्पकैर्गुणै रचितम् । स्थूलैर्दिव्यगुणैर्युक्त्वानन्तवासोऽयि दीयते सततम् ॥ ३४॥ ये त्वां सालङ्कारं मणिभिः स्वर्णेन परिमितैर्मनुजाः । ननु तानलङ्करोषि द्युमणिसदृशान् सुवर्णकान् भक्त्या ॥ ३५॥ कृत्वा सुमनःपूजां क्षणिकामप्याप्नुवन्ति तेऽजस्रम् । सुमनोऽधिप मर्त्यास्ते सुमनस्त्वं द्विप्रकारकं चित्रम् ॥ ३६॥ भक्त्या तव पाददले दत्वा वृन्दादलं विबलमनुजः । दलयति दुरितदलान्यथ पद्मदलायतविलोचनाऽयि किल ॥ ३७॥ कृष्णत्वान्ननु कृष्णं चूर्णं भक्त्या समर्पयन्ति मुहुः । अत्रत्या मनुजास्ते चूर्णयितुं स्वीयकृष्णकर्माणि ॥ ३८॥ अमृतान्धोऽधिप जग्ध्वा परिमितमन्नं निजं हि मर्त्यं द्राक् । अमृताब्धौ स्थापयसे चित्रं सघृणोऽसि यत्नतः किं नु ॥ ३९॥ नीराजनैश्च दीपैः स्वयं प्रकाशं प्रकाशयन्त्येते । अज्ञांस्तानपि मलिनान् स्वयं प्रकाशान् करोषि तच्चित्रम् ॥ ४०॥ संसृतिचित्रमयूखोत्थितधूमैर्धूम्रवीक्षणान् मनुजान् । तेभ्यः स्वीकृतधूपो विमलदृशस्तान् करोषि करुणाब्धे ॥ ४१॥ प्राकृतभाषारचितैः स्तवैः स्तुतः स्तोतृमानुषायापि । अप्राकृताकृतिं त्विह दत्से क्षिप्रं क्षमं क्षमाजलधे ॥ ४२॥ एतावत्सम्प्रार्थ्यं दुरितोच्चयरूपिणा मया बहुधा । पतितसमुद्धृतिविरुदं नो विस्मार्यं क्षणान्तरेऽप्यार्य ॥ ४३॥ श्रीगोकुलोत्सवात्मजजीवनजीशर्मणा मुदा स्तोत्रम् । श्रीविठ्ठलस्य रचितं तुष्टस्तेनाऽस्तु स प्रभुः सततम् ॥ ४४॥ गोवर्धनगुरुचरणप्रसादतः प्राप्तविठ्ठलेशपुरः । कृतकृत्योऽहं भृत्यो भूवं तस्यैव लोकवन्द्यस्य ॥ ४५॥ रसशशधरनन्दक्षितिमितवर्षे विक्रमस्य सितपक्षे । पौषे सौम्यचतुर्थ्यां पूर्णमभूत्पुण्डरीकपुर एतत् ॥ ४६॥ इति जीवनजीगोस्वामिकृतं विठ्ठलस्तोत्रं २ सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : viThThalastotram 2
% File name             : viThThalastotram2.itx
% itxtitle              : viThThalastotram 2 (shrIviThThalaM nato.asmi)
% engtitle              : viThThalastotram 2
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : September 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org