विठ्ठलेशस्तवः
न मन्त्रे न तन्त्रे न च ज्ञानसिद्धी-
न वैकुण्ठबुद्धिस्तु वैकुण्ठलोके ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ १॥
पदाम्भोरुहाम्भोविभिन्नार्तितापे
कृपादृक् स्वकैतादृशोदारशीले ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ २॥
न नाके वराके न राकेशयाने
पिनाकेशलोके न वा केलिरम्ये ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ३॥
यदालोकतस्तोकतोऽपि क्षणेन
प्रमुक्तो भवेल्लोकतः शोकतोऽयम् ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ४॥
स्मृतिर्वा मतिर्वा कदा वा यदा वा
यथा वा तथा स्यात्पदार्थाः कियन्तः ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ५॥
महामोहदग्धोऽपि कालाग्निदग्धो
विदग्धा भवेत्स्नेहदृष्ट्याऽपि यस्य ।
गतिर्विठ्ठलेशे रतिर्विदुलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ६॥
यदङ्गीकृतं जीवमङ्गीकरोति
त्रिभङ्गी स्वयं वेणुरङ्गी प्रभुर्यत् ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ७॥
शरण्योऽतिधन्यो धरण्यां वरेण्यो
वरीवर्ति गण्यो यदन्यो न कोऽपि ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ८॥
सदानन्दरूपः सदानन्दरूपा-
त्मनाऽऽनन्दलीलारसं यो ददाति ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ९॥
न भक्तिर्न मुक्तिर्न वै सर्वशक्ति-
र्विरक्तिर्न युक्तिस्ततो भक्तिरुक्ता ।
गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे
मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ १०॥
इति श्रीरघुनाथजीकृतो विठ्ठलेशस्तवः समाप्तः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com