प्रमाण लक्षण (माधव)

प्रमाण लक्षण (माधव)

॥ श्री गुरुभ्यो नमः हरिः ॐ ॥ अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥ ॥ यथार्थं प्रमाणम् । । तद्द्विविधम् । केवलमनुप्रमाणं च । । यथार्थज्ञानं केवलम् । । तत्साधनमनुप्रमाणम् । । केवलं चतुर्विधम् । ईशलक्ष्मीयोग्योगिभेदेन । । पूर्वद्वयमनादिनित्यम् । । स्वातंत्रपारतंत्राभ्यां तद्विशेषः । पूर्वं स्वपरगताखिलविशेष विषयम् । द्वितीयं ईशेऽन्येभ्योऽधिकम् । । असार्वत्रिकम् । अन्यत्र सर्वविषयम् । स्पष्टत्वे भेदः । । योगिज्ञानं ऋजूनामनादिनित्यम् । ईशे जीवेभ्योऽधिकम् । अन्यत्रालोचने सर्वविशयम् । क्रमेण वर्धमानम् । आमुक्तेः । ततोऽव्ययम् । । ततोऽर्वाक्क्रमेण ह्रसितम् । सादि च तात्त्विकेभ्योऽन्यत्र । । अयोगिज्ञानं उत्पत्तिविनाशवत् । अल्पम् । । अनुप्रमाणं त्रिविधम् । प्रतक्षमनुमानमागमं इति । । निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् । निर्दोषोपपत्तिरनुमानम् । निर्दोषः शब्दः आगमः । । अर्थापत्त्युपमे अनुमा विशेषः । । अभावोऽनुमाप्रत्यक्षं च । । परामर्शापरामर्शविशेषात् । । संभवपरिशेषानुमा । । आत्मान्योन्याश्रय चक्रकानवस्थाकल्पनागौरव श्रुतदृष्टहानादयोदूषणानुमा । । उपक्रमोपसंहार तदैकरूपाभ्यासापूर्वताफलार्थवादाश्च । । उपपत्तिविशेषाः । । त एव सोपपत्तयो लिङ्गानि । । समाख्या वाक्यप्रकरणस्थानानि च । लिङ्गविशेषाः । । व्याप्तिरुपपपत्तिमूलम् । । सा प्रतिज्ञाहेतुदृष्टांतरूपा । । हेतुगर्भा प्रतिज्ञा केवलाऽपि । । सिद्धौ प्रतिज्ञायां हेतुमात्रं च । । दृष्टांतः स प्रतिज्ञो हेतुगर्भः । । उपपत्तिदोषौ विरोधासङ्गति । । न्यूनाधिके वाचनिके । । संवादानुक्तियुतास्तु एव निग्रहाः । । प्रत्यक्षं सप्तविधम् । साक्षि षडिन्द्रियभेदेन । । मानस प्रत्यक्षजा स्मृतिः । । स्मृत्यनुवादयोर्नाप्रामाण्यम् । । यथार्थत्वानुभवात् । । अहानेश्च । । विरोधो मानस्ववाक्याभ्याम् । । स्ववाक्यविरोधोऽपसिद्धांतजातिरूपेण । । जातिर्न मेये मानापेक्षेत्यादिका । । मेये मानापेक्षास्तीति च तेनैव न्यायेन सिद्धत्वात् । । मानविरोधश्च । । छलमसङ्गति । । अन्यच्च । । अन्यच्च । । गृष्टिविवक्षया गामानयेत्युक्ते पृथिवी विवक्षया गवानयनमशक्यमितिवत् । । त्रिविधो विरोधः । प्रतिज्ञाहेतुदृष्टांतभेदेन । । प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोधः । । हेतुस्वरूपासिद्धिरव्याप्तिश्चेति हेतुविरोधः । । साध्यस्य साधनस्य वाऽननुगमो दृष्टांत विरोधः । । प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः । । स एवोपाधि दोषोऽपि । । सर्व एते दृश्यत्वानुमाने दृष्टव्याः । । प्रत्यक्षागमादिभिर्जगतः सत्यत्वात् । । तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात् । । अनिर्वचनीयस्य प्रतिवादिनोऽसिद्धत्वात् । । अनिर्वचनीयस्येति । । आत्मनोऽपि दृश्यत्वात् । । शुक्तिरजतादेरनिर्वचनीयत्वाभावात् । । अनिर्वचनीय दृश्यत्वाभावात् । । मानसिद्धत्वादिति सप्रतिसाधनत्वात् । । जगत्सत्यत्वग्राहि प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे अनुमानागमप्रामाण्य ग्राहिणोऽपि प्रत्यक्षत्वाविशेषादुत्तरक्षणे प्रामाण्यं न सेत्स्यतीति भेदादिवाक्यानामेव प्रामाण्यं स्यात् । । तस्य साक्षिसिद्धत्वं चेज्जगत्सत्यत्वमपि साक्षिसिद्धम् । । व्यभिचारिश्चेदागमार्थानुमानिर्दोषत्वाध्यवसाये च समः । । अत उत्तरदिवसेऽभेदवाक्यस्य भेदोऽर्थः स्यात् । । निर्दोषानुमायाः सदोषत्वम् । । सदोषानुमायाः निर्दोषत्वम् । । इत्यव्यवस्था । । आश्रयसाध्यवधिकरणासिद्धयो न दूषणम् । । अतिप्रसङ्गाभावात् । । अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये । । व्याप्तिरेव हि प्रयोजिका । । असत्यपि व्याप्तिरस्त्येव । । असदाश्रयस्य साधकत्वं नेत्यपि व्याप्तिं विना कथं निवार्यते । । असदाश्रयमित्यादि विशेषणत्वसंभवे कथमव्याप्तिः । । न चात्यंताभावोऽपि सर्वधर्मरहितः । प्रमेयत्वाद्यनुभवात् । । परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च । । विमतं सकर्तृकमित्यत्र सर्वज्ञत्वस्य पक्षधर्मता बलेन सिद्ध्यङ्गीकारात् । । परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः । उपपत्तिमात्रत्वात् । । उपपत्तेश्च व्याप्त्यपेक्षा सर्वथाङ्गीकार्येत्याग्रह मात्रेण भेदः । । उपमानस्यापि व्याप्तिरूपत्वात् । । न हि स्वसदृशेनासदृशं क्वचिद्दृष्टम् । । योग्यानुपलब्धेश्च लिङ्गत्वम् । । अविशेषात् । । अविशेषात् । । अविशेषात् । । अविशेषात् । । उक्तदोषेष्वेवाशेषानुमानदोषाणामंतर्भावः । । साध्याविशिष्टोऽसिद्धिः । । सिद्धसाधकोऽसङ्गतिः । । न प्रमासाधनं प्रमाणम् । । ज्ञानव्यतिरिक्तप्रमायां प्रमाणाभावात् । । न चाज्ञातपरिच्छित्तिरेव प्रमेत्यत्र किञ्चिन्मानम् । । याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात् । । न चानुभूतिरेव प्रमाणम् । स्मृत्यादावव्याप्तेः । । वेदानुमानादि प्रामाण्यप्रसिद्धेश्च । । स्मृतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः ॥ इति श्रुतेश्च । । ऐतिह्यमागमभेदः । । न च सम्यगनुभवसाधनं प्रमाणम् । ईश्वरज्ञानादावव्यप्तेः । । अप्रामाण्ये प्रमाणाभावच्च । । प्रामाण्यज्ञाने च । । तत्राप्यङ्गीकारेऽनवस्थितेः । । स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः । । स्मृतेश्च प्रामाण्यानङ्गीकारेऽनुभूतं मयेत्यत्र प्रमाणाभावात् । । लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम् । । दृष्टहानिश्च । । स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभव विरोधः । । तदनुभवाभाव इत्युक्तेऽनुभवः स्मृतिश्च नास्तीत्युक्ते किमुत्तरम् । । स्वसिद्धैः साधनं परसिद्धैर्दूषणम् । । अतो न दूषणे अपसिद्धांतादि । । इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव । । आनंदतीर्थमुनिना ब्रह्मतर्कोक्तमार्गतः । मानलक्षणमित्युक्तं सङ्क्षेपाद्ब्रह्मसिद्धये ॥ ॥ अशेषमानमेयैक साक्षिणेऽक्षयमूर्तये । अजेश पुरुहूतेड्य नमो नारायणाय ते ॥ ॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचितं प्रमाणलक्षनग्रन्थोत्तमं सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ॥ Encoded and proofread by Shrisha Rao shrao at dvaita.org
% Text title            : pramANa laxaNa (mAdhava)
% File name             : pramANa_laxaNa.itx
% itxtitle              : pramANalakShaNam (madhvAchAryarachitam)
% engtitle              : pramANa lakShaNa (mAdhava)
% Category              : vedanta, yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shrisha Rao shrao at dvaita.org
% Proofread by          : Shrisha Rao shrao at dvaita.org
% Indexextra            : (mAdhava)
% Latest update         : November 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org