योगवासिष्ठः
वैराग्यप्रकरणं प्रथमम् ।
प्रथमः सर्गः
। श्रीमहागणपतिचरणारविन्दाभ्यां नमः ।
॥ श्रीः ॥
यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥ १॥
ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः ।
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने नमः ॥ २॥
स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ ।
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३॥
सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः ।
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४॥
सुतीक्ष्ण उवाच ।
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५॥
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६॥
अगस्ति उवाच ।
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७॥
केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते ।
किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८॥
अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते ।
कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९॥
अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः ।
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १०॥
तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा ।
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥ ११॥
प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च ।
अग्निवेश्य उवाच ।
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२॥
अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद ।
कर्मणोऽस्मान्निवृतेः किं कारणं तन्निवेद्यताम् ॥ १३॥
कारुण्य उवाच ।
यावज्जिवमग्निहोत्रं नित्यं सन्ध्यामुपासयेत् ।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥ १४॥
न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा ।
त्यागमात्रेण किन्त्वेते यतयोऽश्नन्ति चामृतम् ॥ १५॥
इति श्रुत्यार्द्वयोर्मध्ये किं कर्तव्यं मया गुरो ।
इति सन्धिग्धतां गत्वा तूष्णीं भूतोऽस्मि कर्मणि ॥ १६॥
अगस्ति उवाच ।
इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७॥
अग्निवेश्य उवाच ।
शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८॥
सुरुचिर्नाम काचित्स्त्री अप्सरोगणौत्तमा ।
उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९॥
रमन्ते कामसन्तप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ २०॥
दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा ।
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१॥
सुरुचिरुवाच ।
देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२॥
देवदूत उवाच ।
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥ २३॥
वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् ।
तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४॥
कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना ।
गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥ २५॥
अप्सरा उवाच ।
वृत्तान्तः कोअऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥ २६॥
देवदूत उवाच ।
शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७॥
इत्यहं देवराजेन सुभ्रुराज्ञापितस्तदा ।
दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८॥
अप्सरोगणसंयुक्तं नानावादित्रशोभितम् ।
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥ २९॥
तालवेणुमृदङ्गादि पर्वते गन्धमादने ।
नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥ ३०॥
अरिष्टनेमिं राजानं दूतारोप्य विमानके ।
आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१॥
दूत उवाच ।
इत्याज्ञां प्राप्य शक्रस्य गृहित्वा तद्विमानकम् ।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२॥
आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया ।
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३॥
इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे ।
राजोवाच ।
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥ ३४॥
गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः ।
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥ ३५॥
दूत उवाच ।
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् ।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥ ३६॥
मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा ।
कनिष्ठेन तो पुण्येन स्वर्गो भवति तादृशः ॥ ३७॥
परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः ।
कनिष्ठेषु च सन्तोषो यावत्पुण्यक्षयो भवेत् ॥ ३८॥
क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः ।
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९॥
इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।
राजोवाच ।
नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४०॥
अतः परं महोग्रं च तपः कृत्वा कलेवरम् ।
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१॥
देवदूत विमानेदं गृहीत्वा त्वं यथागतः ।
तथा गच्छ महेन्द्रस्य सन्निधौ त्वं नमोऽस्तु ते ॥ ४२॥
देव्दूत उवाच ।
इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम् ।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३॥
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ।
इन्द्र उवाच ।
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् । । ४४॥
वाल्मीकेर्ज्ञाततत्त्वस्य स्वभोधार्थं विरागिणम् ।
सन्देशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५॥
महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे ।
नस्वर्गमिच्छते तत्त्वं प्रबोधाय महामुने ॥ ४६॥
तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् ।
इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥ ४७॥
मयागत्य पुनस्तत्र राजा वल्मीकजन्मने ।
निवेदिता महेन्द्रस्य राज्ञा मोक्ष्यस्य साधनम् ॥ ४८॥
ततो वल्मीकजन्मासौ राजानं समपृच्छत ।
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९॥
राजोवाच ।
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवदृष्ट्या तदेव कुशलं मम ॥ ५०॥
भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद ।
संसारबन्धदुःखार्ते कथं मुञ्चामि तद्वद ॥ ५१॥
वाल्मीकिरुवाच ।
शृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥ ५२॥
वसिष्टरामसंवादं मोक्षोपायकथां शुभाम् ।
ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३॥
राजोवच ।
को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४॥
वाल्मीकिरुवाच ।
शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसम्पन्नः किञ्चिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५॥
राजोवच ।
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे ।
शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६॥
वाल्मीकिरुवाच ।
सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७॥
ब्रह्मणा पूजितस्त्र सत्यलोकनिवासिभिः ।
विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ॥ ५८॥
सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया ।
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९॥
तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् ।
किञ्चित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ ६०॥
भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः ।
विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१॥
वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् ।
अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२॥
भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता ।
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३॥
तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः ।
तवपि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४॥
भृगुणैवं कुमारेण शापितो देवशर्मणा ।
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५॥
एतत्ते कथितं सर्वं शापव्याजस्य कारणम् ।
इदानीं वच्मि तत्सर्वं सावधानमतिः शृणु ॥ ६६॥
इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते
मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे
सूत्रपातनको नाम प्रथमः सर्गः ॥ १॥
द्वितीयः सर्गः
दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः ।
यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥ १॥
वाल्मीकिरुवाच ।
अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः ।
नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान् ॥ २॥
कथोपायान्विचार्यादौ मोक्षोपायानिमानथ ।
यो विचारयति प्रज्ञो न स भूयोऽभिजायते ॥ ३॥
अस्मिन्रामायणे रामकथोपायान्महाबलान् ।
एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ४॥
शिष्यासास्मि विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥ ५॥
तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ६॥
अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः ।
वरं पुत्र गृहाणेति तमुवाच महाशयः ॥ ७॥
भरद्वाज उवाच ।
भगवन्भूतभव्येश वरोअयं मे/ऽद्य रोचते ।
येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥ ८॥
श्रीब्रह्मोवाच ।
गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः ।
तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ९॥
तस्मिञ्छुते नरो मोहात्समग्रात्सन्तरिष्यति ।
सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥ १०॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् ।
अभ्यासगच्छत्समं तेन भरद्वाजेन भूतकृत् ॥ ११॥
तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया ।
अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ १२॥
रामस्वभावकथनादस्माद्वरमुने त्वया ।
नोद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥ १३॥
ग्रन्थेनानेन लोकोऽयमस्मात्संसारसङ्कटात् ।
समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥ १४॥
वक्तुं तदेवमेवार्थमहमागतवानयम् ।
कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ १५॥
मम पुण्याश्रमात्तस्मात्क्षणादन्तर्द्धिमागतः ।
मुहूर्ताभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥ १६॥
तस्मिन्प्रयाते भवत्यहं विस्मयमागतः ।
पुनस्तत्र भरद्वाजंअपृच्छं स्वस्थया धिया ॥ १७॥
किमतेद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे ।
इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥ १८॥
भरद्वाज उवाच ।
एतदुक्तं भगवता यथा रामायणं कुरु ।
सर्वलोकहितार्थाय संसारार्णवतारकम् ॥ १९॥
मह्यं च भगवन्ब्रूहि कथं संसारसङ्कटे ।
रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥ २०॥
शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी ।
रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ २१॥
निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फुटम् ।
तथैवाहं भविष्यामि ततो जनतया सह ॥ २२॥
भरद्वाजेन राजेन्द्र वदेत्युक्तोऽस्मि सादरम् ।
तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ २३॥
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥ २४॥
तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ २५॥
लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस्तधा ॥ २६॥
कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः ।
वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७॥
धृष्टिर्जयन्तो भासश्च सत्यो विजय एव हि ।
विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ २८॥
एतेऽष्टौ मन्त्रिण प्रोक्ताः समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ २९॥
एतैर्यथा हुतं दत्तं गृहीतमुषितं स्मृतम् ।
तथा चेद्वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥ ३०॥
अपारसंसारसमुद्रपाती
लब्ध्वा परां युक्तिमुदारसत्त्वः ।
नशोकमायाति न दैन्यमेति
गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ३१॥
इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे सूत्रपातनको नाम द्वितीयः सर्गः ॥ २॥
तृतीयः सर्गः
भरद्वाज उवाच ।
जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः ।
क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ १॥
श्रीवाल्मीकिरुवाच ।
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ २॥
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।
कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥ ३॥
स चेह सम्भवत्येव तदर्थमिदमाततम् ।
शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥ ४॥
जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते ।
वर्णो व्योम्न इवाखेदाद्विचारणामुनाऽनघ ॥ ५॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
सम्पन्नं देत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ६॥
अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह ।
भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥ ७॥
अशेषेण परित्यागो वासनानां य उत्तमः ।
मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥ ८॥
क्षीणायां वासनायां तु चेतो गलति सत्वरम् ।
क्षीणायां शीतसन्तत्यां ब्रह्मन्हिमकणो यथा ॥ ९॥
अयं वासनया देहो ध्रियते भूतपञ्जरः ।
तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥ १०॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥ ११॥
अज्ञानसुघनाकारा घनाहङ्कारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ १२॥
पुनर्जन्माङ्कुरं त्यक्त्वास्थिता सम्भृष्टबीजवत् ।
देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥ १३॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र एव भ्रमः ॥ १४॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ १५॥
जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः ।
तत्तेऽहं शृणु वक्ष्यामि जरामरणशान्तये ॥ १६॥
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥ १७॥
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्यनयद्रेहे लीलाभिरकुतोभयः ॥ १८॥
अथ गच्छति काले तु पालयत्यवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ १९॥
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः ।
रामस्याभूद्भृशं तत्र कदाचित्गुणशालिनः ॥ २०॥
राघवचिन्तयित्वैवमुपेत्य चरणौ पितुः ।
हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥ २१॥
श्रीराम उवाच ।
तीर्थानि देवसद्मानि वनान्यायतनानि च ।
द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥ २२॥
तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि ।
न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥ २३॥
इति सं प्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ २४॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ २५॥
वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः ।
स्निग्धै कतिपयैरेव राजपुत्रवरैः सह ॥ २६॥
अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः ।
निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥ २७॥
निर्गतः स्वपुरात्पौरेस्तूर्यघोषेण वादितः ।
पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥ २८॥
ग्रामीणललनालोलहस्तपद्मापनोदितैः ।
लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ २९॥
आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः ।
आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥ ३०॥
अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ३१॥
नदीतीराणि पुण्यानि वनान्यायतनानि च
जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥ ३२॥
मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रूं च चन्द्राभागामिरावतीम् ॥ ३३॥
वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ३४॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ३५॥
मानसं च क्रमसरस्तथैवोत्तरमानसम् ।
वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥ ३६॥
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा ।
सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥ ३७॥
स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा ।
स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥ ३८॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्ध्यमन्दरकुञ्जांश्च कुलशैलास्थलानि च ॥ ३९॥
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च ।
देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान् ॥ ४०॥
भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ४१॥
अमरकिन्नरमानवमानितः
समवलोक्य महीमखिलामिमाम् ।
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक् शिवलोकमिवेश्वरः ॥ ४२॥
इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे तीर्थयात्राप्रकरणं नाम तृतीयः सर्गः ॥ ३॥
चतुर्थः सर्गः
श्रीवाल्मीकिरुवाच ।
रामः पुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः ।
प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ १॥
प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् ।
ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः ॥ २॥
सुहृद्भिर्भ्रातृभिश्चैव पित्रा द्विजगणेन च ।
मुहुरालिङ्गिताचारो राघवो न ममौ मुदा ॥ ३॥
तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः ।
जुघुर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ४॥
बभूवाथ दिनान्यष्टौ रामागमन उत्सवः ।
सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः ॥ ५॥
उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन्विविधाकारान्देशाचारानितस्ततः ॥ ६॥
प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा ॥ ७॥
कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ८॥
जगाम पित्रानुज्ञातो महत्या सेनया वृतः ।
वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥ ९॥
तत आगत्य सदने कृत्वा स्नानादिकं क्रमम् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ १०॥
एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघव ।
आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ११॥
नृपतिसंव्यवहारमनोज्ञया
सुजनचेतसि चन्द्रिकयानया ।
परिनिनाय दिनानि स चेष्टया
स्तुतसुधारसपेशलयाऽनघ ॥ १२॥
इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे दिवसव्यवहारनिरूपणं नाम चतुर्थः सर्गः ॥ ४॥
पन्ञ्चम सर्गः
श्रीवाल्मीकिरुवाच ।
अथोनुषोडशे वर्षे वर्तमाने रघूद्वहे ।
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ १॥
भरते संस्थिते नित्यं मातामहगृहे सुखम् ।
पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ २॥
जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः ।
कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ३॥
कृतायां तीर्थयात्रायां रामो निजगृहे स्थितम् ।
जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ४॥
कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे ।
पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ५॥
कपोलतलसंलीनपाणिः पद्मासनस्थितः ।
चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥ ६॥
कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः ।
नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥ ७॥
खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।
चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ८॥
एव्ङ्गुणविशिष्टं तं रामं गुणगणाकरम् ।
आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥ ९॥
तथा तेषु तनुजेषुखेदवत्सु कृशेषु च ।
सपत्निको महीपालश्चिन्ताविवशतां ययौ ॥ १०॥
का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः ।
अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥ ११॥
न किञ्चित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः ।
रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ १२॥
ततो दशरथो राजा रामः किं खेदवानिति ।
अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ १३॥
इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः ।
अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥ १४॥
कोपं विषादकलनां विततं च हर्षं
नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहृतिजवेन विना जगत्यां
भूतानि भूप न महान्ति विकारवन्ति ॥ १५॥
इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे कार्श्यनिवेदनं नाम पञ्चमः सर्गः ॥ ५
षष्ठः सर्गः
श्रीवाल्मीकिरुवाच ।
इत्युक्ते मुनिनाथेन सन्देहवति पार्थिवे ।
खेदवत्यास्थिते मौनं किञ्चित्कालप्रतीक्षणे ॥ १॥
परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।
स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ २॥
एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः ।
महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥ ३॥
तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल ।
मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥ ४॥
रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् ।
नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥ ५॥
ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः ।
विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥ ६॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ७॥
तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः ।
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ८॥
ते गत्वा राजसदनं विश्वामित्रमृषिं ततः ।
प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥ ९॥
अथास्थानगतं भूपं राजमण्डलमालिनम् ।
समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ १०॥
देव द्वारि महातेजा बालभास्करभासुरः ।
ज्वालारुणजटाजूटः पुमाञ्छ्रीमानवस्थितः ॥ ११॥
सभासुरापताकान्तं साश्वेभपुरुषायुधम् ।
कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ १२॥
वीक्ष्यमाणे तु याष्टिके निवेदयति राजनि ।
विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ १३॥
इति याष्टीकवचनमाकर्ण्य नृपसत्तमः ।
स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥ १४॥
पदातिरेव सहसा राज्ञां वृन्देन मालितः ।
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ १५॥
जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।
ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥ १६॥
केनापि कारणेनोर्वीतलमर्कमुपागतम् ।
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ १७॥
जराजरठया नित्यं तपःप्रसररूक्षया ।
जटावल्या वृतस्कन्धं ससन्ध्याभ्रमिवाचलम् ॥ १८॥
उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ १९॥
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।
गम्भीरेणातिपुर्णेन तेजसा रञ्जितप्रभम् ॥ २०॥
अनन्तजीवितदशासखीमेकामनिन्दिताम् ।
धारयन्तं करे श्लक्ष्णां कुण्डीमम्लानमानसम् ॥ २१॥
करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः ।
वीक्षणैरमृतेनेव संसिऽचन्तमिमाः प्रजाः ॥ २२॥
युक्तोयज्ञोपवीताङ्गं धवलप्रोन्नतभ्रुवम् ।
अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥ २३॥
मुनिमालोक्य भूपालो दूरादेवानताकृतिः ।
प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥ २४॥
मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् ।
तत्राभिवादयाञ्चक्रे मधुरोदारया गिरा ॥ २५॥
ततो वसिष्ठप्रमुखाः सर एव द्विजातयः ।
स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ २६॥
दशरथ उवाच ।
अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।
साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ २७॥
यदनादि यदक्षुण्णं यदपायविवर्जितम् ।
तदानन्दसुखं प्राप्तं मया त्वद्दर्शमान्मुने ॥ २८॥
अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः ।
भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥ २९॥
एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।
आसनेषु सभास्थानमासाद्य समुपाविशन् ॥ ३०॥
स दृष्ट्वा मालितं लक्ष्म्याभीतस्तमृषिसत्तमम् ।
प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ३१॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ३२॥
स राजा पूजितस्तेन प्रहृष्टवदनस्तदा ।
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ३३॥
वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः ।
यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ३४॥
क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च ।
ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ३५॥
यतोचितासनगता मिथः संवृद्धतेजसः ।
परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥ ३६॥
उपविष्टाय तस्मै स विश्वामित्राय धीमते ।
पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥ ३७॥
अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत ।
प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमाना नृपः ॥ ३८॥
यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमवर्षके ।
यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९॥
यथेष्टदारसम्पर्कात्पुत्रजन्माऽप्रजावतः ।
स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४०॥
यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१॥
यथा हर्षो नभोगत्या मृतस्य पुनरागमात् ।
थथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥ ४२॥
ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् ।
मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३॥
कश्च ते परमः कामः किं च ते करवाण्यहम् ।
पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः पूजोऽसि भगवन्मया ॥ ४५॥
गङ्गाजलभिषेकेण यथा प्रीतिर्भवेन्मम ।
तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६॥
विगतेच्छाभयक्रोधो वीतरागो निरामयः ।
इदमत्यद्भुतं ब्रह्मन्यद्वान्मामुपागतः । । ४७॥
शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् ।
चन्द्रमिम्ब इवोन्मग्नं वेदवेद्य विदांवर ॥ ४८॥
साक्षादिव ब्रह्मणो मे तवाभागमनं मतम् ।
पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनां मुने ॥ ४९॥
त्वदागमनपुण्येन साधो यदनुरञ्जितम् ।
अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ५०॥
त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।
आत्मन्येव नमाम्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥ ५१॥
यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव ।
कृतमित्येव तद्विद्धि मानोऽसीति सदा मम ॥ ५२॥
स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक ।
भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥ ५३॥
कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः ।
कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ५४॥
इदमतिमधुरं निशम्य वाक्यं
श्रुतिसुखमात्मविदा विनीतमुक्तम् ।
प्रथितगुणयशा गुणैअर्विशिष्टं
मुनिवृषभः परमं जगाम हर्षम् ॥ ५५॥
इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्ठः सर्गः ॥ ६
स्प्तमः सर्गः
श्रीवाल्मीकिरुवाच ।
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टमानो महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥
सदृशं राजशार्दूल तवैवैतन्महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।
कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३॥
अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४॥
यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान् ।
तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५॥
बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।
अकिरस्ते महीं यागे मांसेन रुधिरेण च ॥ ६॥
अवधूते तथाभूते तस्मिन्यागकदम्बके ।
कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥ ७॥
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।
तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८॥
ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।
त्वत्प्रसादादविघ्नेनप्रापयेयं महाफलम् ॥ ९॥
त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।
अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १०॥
तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११॥
तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२॥
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तजसा ।
राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३॥
श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् ।
त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४॥
न च ते राममासाद्य स्थातुं शक्ता निशाचराः ।
क्रुद्धं केसरिणं दृष्ट्वा वनरेण इवैणकाः ॥ १५॥
तेषां न चान्यः काकुस्थाद्योद्धुमुत्सहते पुमान् ।
ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६॥
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
खर्दूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७॥
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
अनारतगता धारा जलदस्येव पांसवः ॥ १८॥
न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।
न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९॥
हन्त नूनं विजानामि हतांस्तान्विद्धि राक्षसान् ।
नह्यस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ २०॥
अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१॥
यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।
तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२॥
दशरात्रश्च मे यज्ञो यस्मिन्रामेण राक्षसाः ।
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३॥
अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।
वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ २४॥
नात्येति कालः कालज्ञ यथायं मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५॥
कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।
महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६॥
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनिश्वरः ॥ २७॥
श्रुत्वा वचो मुनिवरस्य महानुभाव-
स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं
धीमानपूरितमनोऽभिमतश्च लोकः ॥ २८॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्गः ॥ ७
अष्टमः सर्गः
वाल्मीकिरुवाच
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमासीन्निश्चेष्टः सदेन्य चेतमब्रवीत् ॥ १॥
ऊनषोडशवर्षोऽयं रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २॥
इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो ।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥ ३॥
इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः ।
अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि ॥ ४॥
एभिः सहैव वीराणां महेन्द्रमहतामपि ।
ददामि युद्धं मत्तानां करिणामिव केसरी ॥ ५॥
बालो रामस्त्वनीकेषु न जानाति बलाबलम् ।
अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ॥ ६॥
न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः ।
नवास्त्रैः शूतकोटिनां तज्ज्ञः समरभूमिषु ॥ ७॥
केवलं पुष्पखण्डेषु नगरोपवनेषु च ।
उद्यानवनकुञ्जेषु सदैव परिशीलनम् ॥ ८॥
विवर्तुमेष जानाति सह राजकुमारकैः ।
कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ॥ ९॥
अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् ।
हिमेनेव हि पद्माभः सम्पन्नो हरिणः कृशः ॥ १०॥
नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् ।
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥ ११॥
सदारः सहभृत्योऽहं तत्कृते मुनिनायक ।
शरदीव पयोवाहो नूनं निःसारतां गतः ॥ १२॥
ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः ।
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥ १३॥
अपि बालाङ्गनासङ्गादपि साधो सुधारसात् ।
राज्यादपि सुखायैव पुत्रस्नेहो महामते ॥ १४॥
ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः ।
पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम् ॥ १५॥
असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् ।
न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥ १६॥
राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ॥ १७॥
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।
जीवितुं जीविताकाङ्क्षी न रामं नेतुर्मर्हसि ॥ १८॥
नववर्षसहस्राणि मम जातस्य कौशिक ।
दुःखेनोत्पादितास्त्येते चत्वारः पुत्रका मया ॥ १९॥
प्रधानभूतस्तेष्वेव रामः कमललोचनः ।
तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम् ॥ २०॥
स एव रामो भवता नीयते राक्षसान्प्रति ।
यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥ २१॥
चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा ।
ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥ २२॥
निशाचरबलं हन्तुं मुने यदि तवेप्सितम् ।
चतुरङ्गसमायुक्तं मया सह बलं नय ॥ २३॥
किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते ।
कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ॥ २४॥
कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् ।
मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥ २५॥
सर्वं मे शंस भगवन्यथा तेषां महारणे ।
स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः ॥ २६॥
श्रूयते हि महावीर्यो रावणो नाम राक्षसः ।
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ २७॥
स चेत्तव मखे विघ्नं करोति किल दुर्मतिः ।
तत्सङ्ग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ॥ २८॥
काले काले पृथब्रह्मन्भूरिवीर्यविभूतयः ।
भूतेष्वभ्युदयं यान्ति प्रलीयते च कालतः ॥ २९॥
अद्यास्मिंस्तु वयं काल रावणादिषु शत्रुषु ।
न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ॥ ३०॥
तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।
मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ॥ ३१॥
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
नशक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥ ३२॥
महावीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ॥ ३३॥
अयमन्यतमः कालः पेलवीकृतसज्जनः ।
राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः ॥ ३४॥
अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् ।
कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ॥ ३५॥
सुन्दोपसुन्दयोश्चैव पुत्रै वैवस्वतोपमौ ।
यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ॥ ३६॥
अथ नेष्यसि चेत्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते ।
अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥ ३७॥
इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ
कल्लोले मुनिमतसंशये निमग्नः ।
नाज्ञासीत्क्षणमपि निश्चयं महात्मा
प्रोद्वीचाविव जलधौ स मुह्यमानः ॥ ३८॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे दशरथवाक्यं नाम अष्टमः सर्गः ॥ ८॥
नवमः सर्गः
वाल्मीकिरुवाच
तच्छुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १॥
करिष्यामिति संश्रुत्य प्रतिज्ञां हातुमर्हसि ।
स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि ॥ २॥
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ।
न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ॥ ३॥
यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् ।
हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः ॥ ४॥
वाल्मीकिरुवाच
तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि ।
चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत् ॥ ५॥
क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् ।
धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ॥ ६॥
वसिष्ठ उवाच ।
इक्ष्कवाकूणां कुले जातः साक्षाद्धर्म इवापरः ।
भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः ॥ ७॥
धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हसि ।
त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ॥ ८॥
स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि ।
मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ९॥
करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः ।
इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय ॥ १०॥
इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् ।
न पालयसि देद्वाक्यं कोऽपरः पालयिष्यति ॥ ११॥
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।
मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि ॥ १२॥
गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा ।
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ॥ १३॥
एष विग्रहवान्धर्म एष वीर्यवतां वरः ।
एष बुद्ध्याऽधिको लोके तपसां च परायणम् ॥ १४॥
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।
नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन ॥ १५॥
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः ।
न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः ॥ १६॥
अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् ।
कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् ॥ १७॥
ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः ।
एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः ॥ १८॥
जया च सुप्रभ चैव दाक्षायण्यौ सुमध्यमे ।
तथोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥ १९॥
पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा ।
वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः ॥ २०॥
सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् ।
सङ्घर्षान्नाम दुर्धर्वान्दुराकारान्बलीयसः ॥ २१॥
एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः ।
न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ॥ २२॥
अस्मिन्महासत्त्वतमे मुनीन्द्रे
स्थिते समीपे पुरुषस्य साधो ।
प्राप्तेऽपि मृत्यावमरत्वमेति
मा दीनतां गच्छ यथा विमूढः ॥ २३॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः ॥ ९॥
दशमः सर्गः
वाल्मीकिरुवाच
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।
सम्प्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥ १॥
दशरथ उवाच ।
प्रतिहार महाबाहुं रामं सत्यपराक्रमम् ।
सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥ २॥
इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् ।
मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ ३॥
देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।
विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ ४॥
आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः ।
न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥ ५॥
इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् ।
सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥ ६॥
कथं कीदृग्विधो राम इति पृष्टो महीभृता ।
रामभृत्यजनः खिन्नो वाक्यमाह पहीपतिम् ॥ ७॥
देहयष्टिमिमां देव धारयन्त इमे वयम् ।
खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥ ८॥
रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।
सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥ ९॥
यत्नप्रार्थनयामास्कं निजव्यापारमाह्निकम् ।
सोऽयमाम्लानवदनः करोति न करोति वा ॥ १०॥
स्नानदेवार्चनादानभोजनादिषु दुर्मनाः ।
प्रार्थितोऽपि हि नातृप्तेरश्रात्यशनमीश्वरः ॥ ११॥
लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे ।
नच क्रीडति लीलाभिर्धाराभिरिव चातकः ॥ १२॥
माणिक्यमुकुलप्रोता केयूरकटकावलिः ।
नानन्दयतिउ तं राजन्द्यौः पातविषयं यथा ॥ १३॥
क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु ।
लतावलयगेहेषु भवत्यति विषादवान् ॥ १४॥
यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च ।
बाष्पपूर्णेक्षण एव तेनैव परिखिद्यते ॥ १५॥
किमिमा दुःखदायिन्यं प्रस्फुरन्तीः पुराङ्गनाः ।
इति नृत्तविलासेषु कामिनीः परिनिन्दति । १६॥
भोजनं शयनं यानं विलासं स्नानमासनम् ।
उन्मात्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥ १७॥
किं सम्पदा किं विपदा किं गेहेन किमिङ्गितैः ।
सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ॥ १८॥
नोदेति परिहासेषु न भोगेषु निमज्जति ।
न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥ १९॥
विलोलालकवल्लर्यो हेलावलितलोचनाः ।
नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥ २०॥
एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।
रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥ २१॥
वस्त्रपानाशनादानपराङ्मुखतया तया ।
परिव्राड्धर्मिणं भूप सोऽनुयाति तपस्विनम् ॥ २२॥
एक एव वसन्देशे जनशून्ये जनेश्वर ।
न हसत्येकया बुद्ध्या न गायति न रोदिति ॥ २३॥
बद्धपद्मासनः शून्यमना वामकरस्थले ।
कपोलतलमाधाय केवलं परितिष्ठति ॥ २४॥
नाभिमानमुपादत्ते नच वाञ्छति राजताम् ।
नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥ २५॥
न विद्मः किमसौ याति किं करोति किमीहते ।
किं ध्यायति किमायाति कथं किमनुधावति ॥ २६॥
प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम् ।
विरागं प्रत्यहं याति शरदन्त एव द्रुमः ॥ २७॥
अनुयातौ तथैवैतौ राजच्छत्रुघ्नलक्ष्मणौ ।
तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥ २८॥
भृत्यै राजभिरम्बाभिः सम्पृष्टोऽपि पुनः पुनः ।
उक्त्वा न किञ्चिदेवेति तूष्णीमास्ते निरीहितः ॥ २९॥
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।
इति पार्श्वगतं भव्यामनुशास्ति सुहृज्जनम् ॥ ३०॥
नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च ।
पुरस्थितमिवास्नेहो नाशमेवानुपश्यति ॥ ३१॥
नीतमायुरनायासपदप्राप्तिविवर्जितैः ।
चेष्टितैरिति काकल्या भूयोभूयः प्रगायति ॥ ३२॥
सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् ।
प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥ ३३॥
न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् ।
करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥ ३४॥
अप्याकाशसरोजिन्या अप्याकाशमहावने ।
इत्थमेतन्मन इति विस्मयोऽस्य न जायते ॥ ३५॥
कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः ।
न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥ ३६॥
आपदामेकमावासमभिवाञ्छसि किं धनम् ।
अनुशिष्येति सर्वस्वमर्थिने सम्प्रयच्छति ॥ ३७॥
इयामापदियं सम्पदित्येवं कल्पनामयः ।
मनसोऽभुदितो मोह इति श्लोकान्प्रगायति ॥ ३८॥
हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् ।
न् जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥ ३९॥
रघुकाननशालेन रामेण रिपुघातिना ।
भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥ ४०॥
न विद्मः किं महाबाहो तस्य तादृशचेतसः ।
कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥ ४१॥
राजानमथवा विप्रमुपदेष्टारमग्रतः ।
हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो ॥ ४२॥
यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् ।
नैतद्वस्तु नचैवाहमिति निर्णीय संस्थितः ॥ ४३॥
नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।
न सम्पदा न विपदा तस्यास्था न विभो बहिः ॥ ४४॥
निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः ।
न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् ॥ ४५॥
किं धनेन किमम्बाभिः किं राज्येन किमीहया ।
इति निश्चयवानन्तः प्राणत्यागपरः स्थितः । ॥ ४६॥
भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि ।
परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥ ४७॥
इति तोके समायातां शाखाप्रसरशालिनीम् ।
आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥ ४८॥
तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।
संसारजालमाभोगि प्रभो प्रतिविषायते ॥ ४९॥
ईदृशः स्यान्महासत्त्वः क इवस्मिन्महीतले ।
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥ ५०॥
मनसि मोहमपास्य महामनाः
सकलमार्तितमः किल साधुताम् ।
सफलतां नयतीह तमो हरन्
दिनकरो भुवि भास्करतामिव ॥ ५१॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ॥ १०॥
एकादशः सर्गः
विश्वामित्र उवाच ।
एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् ।
इहानयन्तु त्वरिता हरिणं हरिणा इव ॥ १॥
एष मोहो रघुपतेर्नापद्भ्यो न च रागतः ।
विवेकवैराग्यवतो बोध एव महोदयः ॥ २॥
इहयातु क्षणाद्राम इह चैव वयं क्षणात् ।
मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा ॥ ३॥
एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः ।
विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ॥ ४॥
सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् ।
पीनतां वरवर्णत्व पीतामृत इवैष्यति ॥ ५॥
निजां च प्रकृतामेव व्यवहारपरम्पराम् ।
परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् ॥ ६॥
भविष्यति महासत्त्वो ज्ञातलोकपरावरः ।
सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ॥ ७॥
इत्युक्ते मुनिनाथेन राजा सम्पूर्णमानसः ।
प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ॥ ८॥
एतावताथ कालेन रामो निजगृहासनात् ।
पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ॥ ९॥
वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह ।
तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव ॥ १०॥
दूरादेव ददर्शासौ रामो दशरथं तदा ।
वृतं राजसमूहेन देवौघेनेव वासवम् ॥ ११॥
वसिष्ठविश्वमित्राभ्यां सेवितं पार्श्वयोर्द्वयोः ।
सवशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् ॥ १२॥
चारुचामरहस्ताभिः कान्ताभिः समुपासितम् ।
ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥ १३॥
वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः ।
ददृशू राघवं दुरादुपायान्तं गुहोपमम् ॥ १४॥
सत्त्वावष्टब्धगर्भेण शैत्येनेव हिमाचलम् ।
श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च । ॥ १५॥
सौम्यं समं शुभाकारं विनयोदारमानसम् ।
कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥ १६॥
समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् ।
अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् ॥ १७॥
विचारितजगद्यात्रं पवित्रगुणगोचरम् ।
महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥ १८॥
उदारमार्यमापूर्णमन्तः करणकोटरम् ।
अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥ १९॥
एवङ्गुणगणाकीर्णो दूरादेव रघूद्वहः ।
परिमेयस्मिताच्छाच्छस्वहाराम्बरपल्लवः ॥ २०॥
प्रणनाम चलच्चारुचूडामणिमरीचिना ।
शिरसा वसुधाकम्पलोलदेवाचलश्रिया ॥ २१॥
एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम् ।
कर्तुमभुआजगामाथ रामः कमललोचनः ॥ २२॥
प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ ।
ततो विप्रांस्ततो बन्धुंस्ततो गुरुगणान्सुहृत् ॥ २३॥
जग्राह च ततो दृष्ट्या मनाङ्मूर्ध्ना तथा गिरा ।
राजलोकेन विहितां तां प्रणामपरम्पराम् ॥ २४॥
विहिताशीर्मुनिभ्यां तु रामः सुसममानसः ।
आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥ २५॥
पादाभिवन्दनपरं तमथासौ महीपतिः ।
शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥ २६॥
शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा ।
आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा ॥ २७॥
उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ ।
भूमौ परिजनास्तीर्णे सोंऽशुकेऽथ न्यविक्षत ॥ २८॥
राजोवाच ।
पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् ।
जडवज्जिर्णया बुद्ध्या खेदायात्मा न दीयताम् ॥ २९॥
वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता ।
पदमासाद्यते पुण्यं न मोहमनुधावता ॥ ३०॥
तावदेवाऽऽपदो दूरे तिष्ठन्ति परिपेलवाः ।
यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥ ३१॥
श्रीवसिष्ठ उवाच ।
राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया ।
दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥ ३२॥
किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे ।
विनिमज्जसि कल्लोलबहुले जाड्यशालिनि ॥ ३३॥
विश्वामित्र उवाच ।
चलन्नीलोत्पलाव्यूहसमलोचनलोलताम् ।
ब्रूहि चेतःकृतां त्यक्वा हेतुना केन मुह्यसि ॥ ३४॥
किंनिष्ठाः के च ते केन कियन्तः कारणेन ते ।
आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः ॥ ३५॥
मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् ।
आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः ॥ ३६॥
यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ ।
सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः ॥ ३७॥
इत्युक्तमस्य सुमते रघुवंशकेतु-
राकण्यं वाक्यमुचितार्थविलासगर्भम् ।
तत्याज खेदमभिगर्जति वारिवाहे
बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः ॥ ३८॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः॥
११॥
द्वादशः सर्गः
वाल्मीकिरुवाच ।
इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः ।
उवाच वचनं चारु परिपूर्णार्थमन्थरम् ॥ १॥
श्रीराम उवाच ।
भगवन्भवता पृष्टो यथावदधुनाऽखिलम् ।
कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥ २॥
अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि ।
क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥ ३॥
ततः सदाचारपरो भूत्वाहं मुनिनायक ।
विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥ ४॥
एतावताथ कालेन संसारास्थामिमां हरन् ।
समुद्भूतो मनसि मे विचारः सोऽयमीदृशः ॥ ५॥
विवेकेन परीतात्मा तेनाहं तदनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवादिनम् ॥ ६॥
किंनामेदं बत सुखं येयं संसारसन्ततिः ।
जायते मृतये लोको म्रियते जननाय च । ॥ ७॥
अस्थिराः सर्व एवेमे सचराचरचेष्टिताः ।
आपदां पतयः पापा भावा विभवभूमयः ॥ ८॥
अयःशलाकासदृशाः परस्परमसङ्गिनः ।
श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥ ९॥
मनःसमायत्तमिदं जगदाभोगि दृश्यते ।
मनश्चासदिवाभाति केन स्म परिमोहिताः ॥ १०॥
असतैव वयं कष्टं विकृष्टा मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ ११॥
न केनचिच्च विक्रीता विक्रीता एव संस्थिताः ।
बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ॥ १२॥
किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥ १३॥
आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने ।
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥ १४॥
किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् ।
यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥ १५॥
एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम ।
भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥ १६॥
तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति ।
किमिदं जायते भूयः किमिदं परिवर्धते ॥ १७॥
जरामरणमापच्च जननं सम्पदस्तथा ।
आविर्भावतिरोभावैर्विवर्धन्ते पुनः पुनः ॥ १८॥
भोगैस्तैरेव तैरेव तुच्छाइर्वयममी किल ।
पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥ १९॥
अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ २०॥
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ २१॥
संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् ।
निजलोकभयादेव गलद्बाष्पं न रोदिमि ॥ २२॥
शून्या मन्मुखवृत्तीस्तां शुष्करोदननीरसाः ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ २३॥
भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ॥ २४॥
मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् ।
दुःखजाल प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ २५॥
चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।
सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ २६॥
विविधदोषदशापरिचिन्तनै-
र्विततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिमेति मनो मुने
निगडितस्य यथा वनदन्तिनः ॥ २७॥
खलाः कालेकाले निशि निशितमोहैकमिहिका -
गतालोके लोके विषयशतचौराः सुचतुराः ।
प्रवृताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे
रणे शक्तास्तेषां क इव विदुषः प्रोज्झ्यसुभटाः ॥ २८॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः ॥ १२॥
त्रयोदशः सर्गः
श्रीराम उवाच ।
इयमस्मिन्स्थितोदारा संसारे परिकल्पिता ।
श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥ १॥
उल्लासबहुलानन्तकल्लोलानलमाकुलान् ।
जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥ २॥
चिन्तादुहितरो बह्व्यो भूरिदुर्ललितैधिताः ।
चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥ ३॥
एषा हि पदमेकत्र न निबध्नाति दुर्भगा ।
दग्धेवानियताचारमितश्चेतश्च धावति ॥ ४॥
जनयन्ती परं दाहं परामृष्टाङ्गिका सती ।
विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥ ५॥
गुणागुणविचारेण विनैव किल पार्श्वगम् ।
राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥ ६॥
कर्मणा तेनतेनैषा विस्तारमनुगच्छति ।
दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥ ७॥
तावच्छीतमृदुस्पर्शाः परे स्वे च जने जनाः ।
वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः ॥ ८॥
प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये ।
पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ ९॥
न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते ।
गुप्ता विम्=नाशनं धत्ते मृतिं विषलता यथा ॥ १०॥
श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।
समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ ११॥
एषा हि विषमा दुःखभोगिनां गहना गुहा ।
घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी ॥ १२॥
सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।
सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥ १३॥
सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी ।
केदारिका विकल्पानां खेदायभयभोगिनी ॥ १४॥
हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।
राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥ १५॥
इन्द्रायुधवदालोलनानारागमनोहरा ।
लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया ॥ १६॥
चापलावजितारण्यनकुली नकुलीनजा ।
विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका ॥ १७॥
लहरीवैकरूपेण पदं क्षणमकुर्वती ।
चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा ॥ १८॥
सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी ।
खड्गधारेव शिशिरा तीक्ष्णतीक्ष्णाशयाश्रया ॥ १९॥
नानयापहृतार्थिन्या दुराधिपरिलीनया ।
पश्याम्यभव्यया लक्ष्म्या किञ्चिद्दुःखादृते सुखम् ॥ २०॥
दूरेणोत्सारिताऽलक्ष्म्या पुनरेव तमादरात् ।
अहो बताश्लिष्यतीव निर्लज्ज दुर्जना सदा ॥ २१॥
मनोरमा कर्षति चित्तवृत्तिं
कदर्थसाध्या क्षणभङ्गुरा च ।
व्यालावलीगात्रविवृत्तदेहा
श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥ २२॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः
श्रीराम उवाच ।
आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥ १॥
विषयाशीविषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानामायुरायासकारणम् ॥ २॥
ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।
भावाभावसमाश्वासमायुस्तेषां सुखायते ॥ ३॥
वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।
संसारभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥ ४॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ५॥
पेलवं शरदीवाभ्रमस्नेह इव दीपकः ।
तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥ ६॥
तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् ।
ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥ ७॥
अविश्रान्तमनाः शून्यमायुराततमीहते ।
दुःखायैव विमूढाऽन्तर्गर्भमश्वतरी यथा ॥ ८॥
संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे ।
कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥ ९॥
प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १०॥
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेन न जीवति ॥ ११॥
जातास्त एव जगति जन्तवः साधुजीविताः ।
ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १२॥
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १३॥
रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् ।
भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥ १४॥
अविश्रान्तमनापुर्णमापदां परमास्पदम् ।
नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥ १५॥
प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् ।
आख्रुनेव जरच्छ्वभ्रं कालेन विनिहन्यते ॥ १६॥
शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः ।
रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥ १७॥
प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवाशिभिः ।
दुःखैरावृश्च्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥ १८॥
नूनं निगरणायाशु घनगर्धमनारतम् ।
आख्रुर्मार्जारकेणेव मरणेनावलोक्यते ॥ १९॥
गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया ।
अन्नं महाशनेनेव जरया परिजीर्यते ॥ २०॥
दिनैः कतिपयैरेव परिज्ञाय गतादरम् ।
दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥ २१॥
विनाशसुहृदा नित्यं जरामरणबन्धुना ।
रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥ २२॥
स्थिरतया सुखभासितया तया
सततमुज्झितमुत्तमफल्गु च ।
जगति नास्ति तथा गुणवर्जितं
मरणभाजनमायुरिदं यथा ॥ २३॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः ॥ १४॥
पञ्चदशः सर्गः
श्रीराम उवाच ।
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते ।
मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥ १॥
अहङ्कारवशादेव दोषकोशकदर्थताम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥ २॥
अहङ्कारवशादापदहङ्काराद्दुराधयः ।
अहङ्कारवशादीहा त्वहङ्कारो ममामयः ॥ ३॥
तमहङ्कारमाश्रित्य परमं चिरवैरिणम् ।
न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने ॥ ४॥
संसाररजनी दीर्घा माया मनसि मोहिनी ।
ततोऽहङ्कारदोषेण किरातेनेव वागुरा ॥ ५॥
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥ ६॥
शमेन्दुसैंहिकेयास्यं गुणपद्महिमाशनिम् ।
साम्यमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥ ७॥
नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा ॥ ८॥
अहङ्कारवशाद्यद्यन्मया भुक्तं हुतं कृतम् ।
सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥ ९॥
अहमित्यस्ति देद्ब्रह्मन्नहमापदि दुःखितः ।
नास्ति देत्सुखितस्तस्मादनहङ्कारिता वरम् ॥ १०॥
अहङ्कारपरित्यज्य मुने शान्तमनस्तया ।
अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः ॥ ११॥
ब्रह्मन्यावदहङ्कारवारिदः परिजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥ १२॥
अहङ्कारघने शान्ते तृष्णा नवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम् ॥ १३॥
अहङ्कारमहाविन्ध्ये मनोमत्तमहागजः ।
विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥ १४॥
इह देहमहारण्ये घनाहङ्कारकेसरी ।
योऽयमुल्लसति स्फारस्तेनेदं जगदाततम् ॥ १५॥
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहङ्कारोग्रखिङ्गेन कण्ठे मुक्तावली कृता ॥ १६॥
पुत्रमित्रकलत्रादितन्त्रमन्त्रविवर्जितम् ।
प्रसारितमनेनेह मुनेऽहङ्कारवैरिणा ॥ १७॥
प्रमार्जितेऽहमित्यस्मिन्पदे स्वयमपि द्रुतम् ।
प्रमार्जिता भवन्त्येते सर्व एव दुराधयः ॥ १८॥
अहमित्यम्बुदे शान्ते शनैश्च शमशातिनी ।
मनोगगनसंमोहमिहिका क्वापि गच्छति ॥ १९॥
निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः ।
यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥ २०॥
सर्वापदां निलयमध्रुवमन्तरस्थ-
मुन्मुक्तमुत्तमगुणेन न संश्रयामि ।
यत्नादङ्कृतिपदं परितोऽतिदुःखं
शेषेण मां समनुशाधि महानुभाव ॥ २१॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे अहङ्कारजुगुप्सा नाम पञ्चदशः सर्गः ॥ १५॥
षोडशः सर्गः
श्रीराम उवाच ।
दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् ।
वातान्तःपिच्छलववच्चेतश्चलति चञ्चलम् ॥ १॥
इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति
दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥ २॥
न प्राप्नोति क्वचित्किञ्चितप्रप्तैरपि महाधनैः ।
नान्तः सम्पूर्णतामेति करण्डक इवाम्बुभिः ॥ ३॥
नित्यमेव मुने शून्यं कदाशावागुरावृतम् ।
न मनो निर्वृतिं याति मृगो यूथादिव च्युतः ॥ ४॥
तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् ।
परित्यज्य क्षणामपि हृदये याति न स्थितिम् ॥ ५॥
मनो श्चननविक्षुब्धं दिशो दश विधावति ।
मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ॥ ६॥
कल्लोलकलितावर्तं मायामकरमालितम् ।
न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् ॥ ७॥
भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् ।
मनोहरिणको ब्रह्मन्दूरं विपरिधावति ॥ ८॥
न कदाचन मे चेतः स्वामालूनविशिर्णताम् ।
त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥ ९॥
चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।
धृतिं बध्नाति नैकत्र पञ्जरे केसरी यथा ॥ १०॥
मनो मोहरथारूढं शरीरात्समतासुखम् ।
हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ॥ ११॥
अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः ।
मुनीन्द्र न प्रबुध्यन्ते तेन तप्येऽहमाकुलः ॥ १२॥
क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना ।
विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा ॥ १३॥
सन्ततामर्षधूमेन चिन्ताज्वालाकुलेन च ।
वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥ १४॥
क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना ।
शवं कौलेयकेनेव ब्रह्मन्भुक्तोऽस्मि चेतसा ॥ १५॥
तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।
तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥ १६॥
अवान्तरनिपाताय शून्ये वा भ्रमणाय च ।
तृणं दण्डनिलेनेव दूरे नीतोऽस्मि चेतसा ॥ १७॥
संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः ।
सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ १८॥
पातालाद्गच्छतां पृथ्वीं पृथ्व्याः पातालगामिना ।
कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ ९॥
मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा ।
बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ॥ २०॥
वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः ।
वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ॥ २१॥
चेतः पतति कार्येषु विहगः स्वामिषेष्विव ।
क्षणेन विरतिं याति बालः क्रीडनकादिव ॥ २२॥
जडप्रकृतिरालोलो विततावर्तवृत्तिमान् ।
मनोऽब्धिरहितव्यालो दूरं नयति तात माम् ॥ २३॥
अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
अपि वह्न्यशनात्साधो विषमश्च्चित्तनिग्रहः ॥ २४॥
चित्तं मारणमर्थानां तस्मिन्सति जगत्त्रयम् ।
तस्मिन्क्षीणे जगन्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २५॥
चितादिमानि सुखदुःखशतानि नून-
मभ्यागतान्यगवरादिव काननानि ।
तस्मिन्विवेकवशस्तनुतां प्रयाते
मन्ये मुने निपुणमेव गलन्ति तानि ॥ २६॥
सकलगुणजयाशा यत्र बद्धा महद्भि-
स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् ।
विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं
जडमलिनविलासां मेघलेखामिवेन्दुः ॥ २७॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे वैराग्यचित्तदौरात्म्यं नाम षोडशः सर्गः ॥ १६॥
सप्तदशः सर्गः
श्रीराम उवाच ।
हार्दान्धकारशर्वर्या तृष्णयेह दुरन्त्यया ।
स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥ १॥
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।
पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ २॥
मम चित्तमहारण्ये व्यामोहतिमिराकुले ।
शून्ये ताण्डविनी जाता भृशमाशापिशाचिका ॥ ३॥
वचोरचितनीहारा कञ्चनोपवनोज्ज्वला ।
नूनं विकासमायाति चिन्ताकणकमञ्जरी ॥ ४॥
अलमन्तर्भ्रमायैव तृष्णातरलिताशया ।
आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ॥ ५॥
उद्दामकल्लोलरवा देहार्द्रौ वहतीह मे ।
तरङ्गतरलाकारा तरतृष्णातरङ्गिणी ॥ ६॥
वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् ।
नीतः कलुषया क्वापि तृष्णया चित्तचातकः ॥ ७॥
यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ८॥
पयसीव जरत्पर्णं वायाविव जरत्तृणं।
नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ९॥
गन्तुमास्पदमात्मीयमसमर्थधियो वयम् ।
चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ १०॥
तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा ।
यथा दाहोपशमनमाशङ्के नामृतैरपि ॥ ११॥
दूरं दूरमितो गत्वा समेत्य च पुनः पुनः ।
भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्त तुरङ्गमी ॥ १२॥
जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।
क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥ १३॥
अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया ।
रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ १४॥
पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया ।
खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥ १५॥
भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् ।
खेदयत्यपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥ १६॥
कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।
दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥ १७॥
भिन्दती हृदयं पुंसां मायामयविधायिनी ।
दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ १८॥
तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् ।
नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ॥ १९॥
नित्यमेवातिमलिना कटुकोन्माददायिनी ।
दीर्घतन्त्री घनस्नेहा तृष्णागह्वरवल्लरी ॥ २०॥
अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता ।
अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ २१॥
अनावर्जितचित्तापि सर्वमेवानुधावति ।
न चाप्नोति फलं किञ्चित्तृष्णा जीर्णेव कामिनी ॥ २२॥
संसारवृन्दे महति नानारससमाकुले ।
भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी ॥ २३॥
जराकुसुमितारूढा पातोत्पातफलावलिः ।
संसारजङ्गले दीर्घे तृष्णा विषलता तता ॥ २४॥
यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् ।
नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ २५॥
भृशं स्फुरति नीहारे शाम्यत्यालोक आगते ।
दुर्लङ्घ्येषु पदं धत्ते चिन्ता चपलबर्हिणी ॥ २६॥
जडकल्लोलबहुला चिरं शून्यान्तरान्तरा ।
क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥ २७॥
नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् ।
पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ २८॥
पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते ।
चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी॥
इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् ।
अनारतं च यतते तृष्णा चेष्टेव चैविकी ॥ ३०॥
क्षणमायाति पातालं क्षणं याति नभस्थलम् ।
क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ ३१॥
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे ॥ ३२॥
प्रयच्छति परं जाड्यं परमालोकरोधिनी ।
मोहनीहारगहना तृष्णा जलदमालिका ॥ ३३॥
सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् ।
परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥ ३४॥
विचित्रवर्णा विगुणा दीर्घा मलिनसऽन्स्थितिः ।
शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ॥ ३५॥
अशनिर्गुणसस्यानां फलिता शरदापदाम् ।
हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥ ३६॥
संसारनाटकनटी कार्यालयविहङ्गमी ।
मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ ३७॥
व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला ।
सर्गन्यग्रोधसुलभा दुःखकैरवचन्द्रिका ॥ ३८॥
जरामरणदुःखानामेका रत्नसमुद्रिका ।
आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ॥ ३९॥
क्षणमालोकविमला सान्धकारलवा क्षणम् ।
व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ॥ ४०॥
गच्छत्युपशमं तृष्णा कायव्यायामशान्तये ।
तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ ४१॥
तावन्मुह्यत्ययं मूको लोको विलुलिताशयः ।
यावदेवानुसन्धत्ते तृष्णा विषविषूचिका ॥ ४२॥
लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति ।
तृष्णाविषूचिकामन्त्रचिन्तात्यागो हि कथ्यते ॥ ४३॥
तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया ।
आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा ॥ ४४॥
रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् ।
उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम् ॥ ४५॥
अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः ।
मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ॥ ४६॥
अहो बत महच्चित्रं तृष्णामपि महाधियः ।
दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥ ४७॥
नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः ।
तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥ ४८॥
उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा ।
प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ॥ ४९॥
अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् ।
तृणीकरोति तृष्नैका निमेषेण नरोत्तमम् ॥ ५०॥
संस्तीर्णगहना भीमा घनजालरजोमयी ।
सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ॥ ५१॥
एकैक सर्वभुवनान्तरलब्धलक्ष्या
दुर्लक्ष्यतामुपगतैव वपुःस्थितैव ।
तृष्णा स्थिता जगति चञ्चलवीचिमले
क्षीरोदकाम्बुतरले मधुरेव शक्तिः ॥ ५२॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे तृष्णाभङ्गो नाम सप्तदशः सर्गः ॥ १७॥
अष्टादशः सर्गः
श्रीराम उवाच ।
आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् ।
देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ १॥
अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।
युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः ॥ २॥
जडाजडदृशोर्मध्ये दोलायितदुराशयः ।
अविवेकी विमूढात्मा मोहमेव प्रयच्छति ॥ ३॥
स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् ।
नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ ४॥
आगमापायिना नित्यं दन्तकेसरशालिना ।
विकासस्मितपुष्पेण प्रतिक्षणमलङ्कृतः ॥ ५॥
भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः ।
लोचनालिबिलाक्रान्तः शिरःपीठबृहत्फलः ॥ ६॥
श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः ।
गुल्मवान्कार्यसङ्घातो विहङ्गमकृतास्पदः ॥ ७॥
सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः ।
कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥ ८॥
तात सन्तरणार्थेन गृहीतायां पुनः पुनः ।
नावि देहलतायां च कस्य स्यादात्मभावना ॥ ९॥
देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।
तनूरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ १०॥
मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे ।
मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥ ११॥
संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।
चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥ १२॥
तृष्णाभुजङ्गमीगेहं कोपकाककृतालयः ।
स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥ १३॥
सुस्कन्धौघलताजालो हस्तस्तबकसुन्दरः ।
पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ १४॥
सर्वेन्द्रियखगधारः सुजानुस्तम्भ उन्नतः ।
सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ १५॥
मूर्धसञ्जनिताऽऽदीर्घशिरोरुहतृणावलिः ।
अहङ्कारगृध्रकृतकुलायः सुषिरोदरः ॥ १६॥
विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः ।
व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥ १७॥
कलेवरमहङ्कारगृहस्थस्य महागृहम् ।
लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥ १८॥
पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् ।
रागरञ्जितसर्वाङ्गं नेष्ठं देहगृहं मम ॥ १९॥
पृष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् ।
आन्त्ररज्जुभिराबद्धं नेष्ठं देहगृहं मम ॥ २०॥
प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।
जरामङ्कोलधवलं नेष्ठं देहगृहं मम ॥ २१॥
चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति ।
मिथामोहमहास्थूणं नेष्ठं देहगृहं मम ॥ २२॥
दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् ।
दुरीहादग्धदासीकं नेष्ठं देहगृहं मम ॥ २३॥
मलाढ्यविषयव्यूहभाण्डोपस्करसङ्कटम् ।
अज्ञानक्षारवलितं नेष्ठं देहगृहं मम ॥ २४॥
गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् ।
दीर्घदोर्दारुसुदृढं नेष्ठं देहगृहं मम ॥ २५॥
प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।
चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ २६॥
मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।
आदीर्घाङ्गुलिनिर्व्यूहं नेष्ठं देहगृहं मम ॥ २७॥
सर्वाङ्गकुड्यसङ्घातघनरोमयवाङ्कुरम् ।
संशून्यपेटविवरं नेष्ठं देहगृहं मम ॥ २८॥
नखोर्णनाभिनिलयं सरमारणितान्तरम् ।
भाङ्कारकारिपवनं नेष्ठं देहगृहं मम ॥ २९॥
प्रवेशनिर्गमव्यग्रवातवेगमनारतम् ।
वितताक्षगवाक्षं तन्नेष्ठं देहगृहं मम ॥ ३०॥
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्ठं देहगृहं मम ॥ ३१॥
त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् ।
मनः सदारवुनोत्खातं नेष्ठं देहगृहं मम ॥ ३२॥
स्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् ।
क्षणं व्याप्तं तमःपूरैर्नेष्ठं देहगृहं मम ॥ ३३॥
समस्तरोगायतनं वलीपलितपत्तनम् ।
सर्वाधिसारगहनं नेष्ठं देहगृहं मम ॥ ३४॥
अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।
तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥ ३५॥
देहालयं धारयितुं न शक्नोमि मुनीश्वरः ।
पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥ ३६॥
किं श्रिया किं च राज्येन किं कायेन किमीहितैः ।
दिनैः कपितयैरेव कालः सर्व निकृन्तति ॥ ३७॥
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३८॥
मरणावसरे काया जीवं नानुसरन्ति ये ।
तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥ ३९॥
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।
न सन्त्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥ ४०॥
पवनस्पन्दतरलं पेलवः कायपल्लवः ।
जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥ ४१॥
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् ।
तनुतामेत्य यत्नेन विनाशमनुधावति ॥ ४२॥
तान्येव सुखदुःखानि भावाभावमयान्यसौ ।
भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥ ४३॥
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।
नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥ ४४॥
जराकाले जरामेति मृत्युकाले तथा मृतिम् ।
सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥ ४५॥
संसारम्भोधिजठरे तृष्णाकुहरकान्तरे ।
सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ ४६॥
दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।
संसाराब्धाविहोह्यन्ते कञ्चित्तेषु नरं विदुः ॥ ४७॥
दीर्घदौरात्म्यवलया निपातफलपातया ।
न देहलतया कार्यं किञ्चिदस्ति विवेकिनः ॥ ४८॥
मज्जन्कर्दमकोशेषु झटित्येव जरां गतः ।
न ज्ञायतेयात्यचिरात्कः कथं देहदर्दुरः ॥ ४९॥
निःसारसकलारम्भाः कायाश्चपलवायवः ।
रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ ५०॥
वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः ।
आगच्छतश्च भगवञ्छरीरस्य कदाचन ॥ ५१॥
बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ ।
तान्मोहमदिरोन्मत्तान्धिग्धिगस्तु पुनः पुनः ॥ ५२॥
नाहं देहस्य नो देहो मम नायमहं तथा ।
इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ५३॥
मानावमानबहुला बहुलाभमनोरमाः ।
शरीरमात्रबद्धास्थं ग्नन्ति दोषदृशो नरम् ॥ ५४॥
शरीरश्वभ्रशायिन्या पिशाच्या पशलाङ्गया ।
अहङ्कारचमत्कृत्या छलेन छलिता वयम् ॥ ५५॥
प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया ।
मिथ्याद्यानकुराक्षस्या छलिता कष्टमेकिका ॥ ५६॥
न किञ्चिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना ।
चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ५७॥
दिनैः कतिपयैरेव निर्झराम्बुकणो यथा ।
पतत्ययमयत्नेन जरठः कायपल्लवः ॥ ५८॥
कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।
व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ ५९॥
मिथाज्ञानविकारेऽस्मिन्स्वप्नसम्भ्रमपत्तने ।
काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ६०॥
तडित्षु शरदभ्रेषु गन्धर्वनगरेषु च
स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ६१॥
सततभङ्गुरकार्यपरम्परा
विजयिजातजयं हठवृत्तिषु ।
प्रबलदोषमिदं तु कलेवरम्
तृणमिवाहमपोह्य सुखं स्थितः ॥ ६२॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे कायजुगुप्सा नामाष्टादशः सर्गः ॥ १८॥