अध्यात्मतीर्थाटनम्
धर्मक्षेत्रमुपागतोऽद्य भगवान् श्रीसत्यसायीश्वरः
किञ्चात्रैव दिनद्वयं निवसति प्राज्यानुकम्पार्द्रधीः ।
कल्याणेऽवतरन्निमामशृणवं वार्ता प्रहर्षाद्भुतो-
त्कण्ठासङ्कुलमानसः पुनरगां वासाय पुत्रालयम् ॥ १॥
सायाह्णे दुहितुर्गृहं गतवता छेदानगर्यो मुदा,
श्वोभाव्युत्कटपुण्यलभ्यभगवत्सन्दर्शनाकाङ्क्षिणा ।
स्मारं स्मारमुदारसायिचरितं भक्तार्तिविध्वंसनं
हर्षोन्मादमुपेयुषा च गमिता रात्रिः कथाञ्चिन्मया ॥ २॥
प्रत्यूषे गुरुवायुमन्दिरपतिं छेदानगर्यो नवे
क्षेत्रे भान्तममन्ददिव्यकरुणानिष्यन्दमन्दस्मितम् ।
शास्तारं शरणं समस्तजगतां दुर्गाञ्च विघ्नेश्वरं
स्कन्दं चाप्युपनम्य सम्यगभवं शान्तप्रसन्नान्तरः ॥ ३॥
``अन्धेरी'' मगमं प्रशान्तसुभगे तस्मिंश्च सायन्तने
जामात्रा सुतया तथा दयितया साकं सदौहित्रकः ।
अद्राक्षं सुचिराद्दिदृक्षितमहं श्री सायिकृष्णस्य त-
``द्धर्मक्षेत्र''मनल्पशिल्पसुभगं विस्तीर्णपद्माकृतिः ॥ ४॥
तत्रारक्तमनोज्ञकान्तिविकसन्मार्तण्डबिम्बाननां
शान्तां शोणमनोहराम्बरधरां मुग्धप्रकाशस्मिताम् ।
पुण्यक्षेत्रमिदं स्वकीयमहसा विद्योतयन्तीं शिवां
सन्ध्यां पर्तिमहेशमूर्तिमपरां सानन्ददृष्ट्याऽपिबम् ॥ ५॥
धर्मक्षेत्रमहाङ्कणं जनसहस्राकीर्णमेकान्तव-
न्निश्शब्दं स्फुटभक्तिभावविमलं संप्राविशं सादरम् ।
श्रीसायीशपदाम्बुजप्रणिहितस्वान्तः प्रशान्ताखिल-
क्लेशः सम्यगुपाविशञ्च कुहचित् हर्षोन्मिषच्चेतनः ॥ ६॥
दृष्टं तत्र च मण्डपे विनिहितं सायिशासिंहासनं
श्रद्धाभक्तिसमेतशिष्यनिवहैः सज्जीकृतं पावनम् ।
यत्तावत् भगवत्समागममहानन्दप्रतीक्षामृता-
स्वादे मग्नमिव स्थितं सुविमलं भक्तान्तरङ्गं यथा ॥ ७॥
याताः कालकलाः कथञ्चन समुत्कण्ठाकुलाश्चायता-
स्तावत् भक्तसहस्रनेत्रनलिनैराराधिते मण्डपे ।
ज्येतिः किञ्चन सान्ध्यकान्तिसुभगं प्रादुर्बभूव क्रमा-
त्तन्मध्ये स्फुटमाबभौ च भगवद्रूपं जगन्मङ्गलम् ॥ ८॥
भावग्राहि विशुद्धमुग्धकरुणानिष्यन्दि नेत्राञ्चलं
प्रेमार्द्राद्भुतभव्यशान्तिमधुरस्मेरं तदास्याम्बुजम् ।
तद्दिव्याभयहस्तमद्भुतमहाभूतिप्रदं तादृशं
रूपं सायिहरेः मदीयहृदये भक्त्या दृढं मुद्रितम् ॥ ९॥
अद्धा मण्डपतोऽवरुह्र भगवान् भक्तावलीमध्यगः
सुस्मेराक्षिकलावलोकनमहानन्दं प्रसादं दिशन् ।
मन्दं तत्र चचार पुण्यनिमिषान् कांश्चित् प्रतीक्षाकुलं
चक्षुश्चाक्ष मापपात भगवन्मूर्तै समेषां नृणाम् ॥ १०॥
मन्दं मन्दमुपाससाद भघवांस्तस्थाविवाल्पं ममा-
दूरे; मय्यकिरत् प्रशान्तमधुरस्मेरार्द्रदृष्ट्यामृतम् ।
भक्त्या मीलितलोचनः नतशिरस्याबद्धमुग्धाञ्जलिः
प्रापं चास्तसमस्तदुःखनिवहां दिव्यानुभूतिं नवाम् ॥ ११॥
अस्मार्वं च पुराप्रशान्तिनिलये पत्न्यासमेतस्य मे
लब्धं सायिमिथोऽवलोकनमिदं सम्भाषणञ्चावयोः ।
किं ते वाञ्छित मिष्यते भगवति प्रेमैव, भक्तोऽसि, त
न्माभैषीर्विपद, स्त्वया सह सदा वर्ते हि भक्तप्रियः ॥ १२॥
चेतो क्षणमाततान निपुणं सिंहावलोकं स्वयं
सङ्कीर्णे मम जीविताध्वनि ददर्शान्वर्यतां तद्गिरः ।
श्रीसायिश्वरकृष्णपादनलिनद्वन्द्वेननामाखिलं
भक्त्या चार्पयदात्मनिर्वृतिभवापानन्यलभ्यां पराम् ॥ १३॥
किञ्चैतत् स्मृतिमण्डले स्फुटतरं निर्भातमासीन्मम
प्रेयस्यै समदात्तदाद्भुवमहासिदिन्ध विभूतिं स्वयम् ।
भस्मालिप्तकराङ्गुलीमृदुतमस्पर्शेन चक्रे नवं
पुण्ड्रं मे तनयस्य चापि निटिले श्रीसायिनाथो हरिः ॥ १४॥
धर्मक्षेत्र इदं गुरो! भगवता दत्तं पुनद्र्दर्शनं
त्वन्माहात्मपदृढावबोधकमहं मन्येऽनुगीतासमम् ।
अद्यापास्तसमस्तशङ्कमवगच्छामि प्रभो, जीविते
लक्ष्यं मार्गमपि त्वया निगदितं सत्यं शिवं सुन्दरम् ॥ १५॥
किन्तु श्रीभगवन् बिभेमि चपलान्मच्चेतसस्त्वत्कृपा-
बद्धं निश्चलमस्त्विदं च विमले त्वत्पादपाथोरुहे ।
संसारार्णवतारणे मम गुरुस्त्वं कर्णधारः स्वयं
निर्भीकं कुरु मां दयस्व भगवद्दासानुदासे मयि ॥ १६॥
धर्मक्षेत्रविशुद्धधाम्नि यदहो! लब्धं परं दुर्लभं
सायीशस्य जगद्गुरोर्भगवतो यादृच्छिकं दर्शनम् ।
तन्मन्ये मम दूरदेशगमनं कार्यान्तरार्थं स्वयं
सम्पन्नं भगवत्कृपालवबलादध्यात्मतीर्थाटनम् ॥ १७॥
इति श्रीवासुदेवन् एलयथेन विरचितं अध्यात्मतीर्थाटनं सम्पूर्णम् ।