अन्तर्यामी मम भगवान्
कवि डाॅक्टर श्रीधर भास्कर वर्णेकरः, नागपुरम्
तुङ्गहिमाचलकिरीटशाली । गङ्गायमुनारेवामाली ।
रविशशिमण्डलदिव्यकुण्डली । अगणितऋषिमुनिविभूतिमान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ १॥
शान्तो दान्तो नित्यसंयमी । यागी योगी द्दढयमनियमी ।
महामनस्वी स्वात्मविक्रमी । जगद्गुरुर्यो विद्यावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ २॥
स्वसिति सनातनवैदिकमन्त्रम् । गायति रामायणं पवित्रम् ।
भागवतं भारतं विचित्रम् । महामनीषी प्रतिभावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ३॥
देशे देशे निपीडितानाम् । विवासितानां विपट्गतानाम् ।
असहायानां दीनजनानाम् । आश्रयदाता करुणावान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ४॥
भवतु शरीरं चित्तं वित्तम् । सदैव भारतसेवायत्तम् ।
सर्वस्वं भारताय दत्तम् । स एव परमेश्वरो महान् ॥
भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ५॥
॥ इति अन्तर्यामि मम भगवान् ॥
Encoded and proofread by Srinivas Kommireddy
srinivas.kommireddy at googlemail.com