अरविन्ददर्शनम् चैत्यपुरुषः

अरविन्ददर्शनम् चैत्यपुरुषः

लेखकः - नन्दप्रदीप्तकुमारः अस्माकं भारतवर्षे ये ये महात्मानो धरातलं पवित्रीकृतवन्तस्तेषु महात्मन अरविन्दस्य नाम सर्वोत्कर्षेण श्रूयते । तत्र द्विसप्तत्यधिकेऽष्टादशशतके अगष्टमासस्य पञदशदिनांकेऽयं (१८/०८/१८७२) महात्मा कलिकता महानगर्यामेकस्मिन् कुलिने वंगीय-ब्राह्मण-परिवारे जनिमलभत । अस्य पितुर्नाम कृष्णधन घोषो मातुश्च नाम स्वर्णलता आसीत् । मृणालिनी देवी अस्य धर्मपत्नी आसीत् । उच्चशिक्षितोऽयं महात्मा एकाधारेण प्रख्यात-स्वाधीनता संग्रामी, दार्शनिकः, कविः, आध्यात्मिकगुरुः, योगी च आसीत् । भारतीयदर्शनक्षेत्रे तत्प्रोक्तं अरविन्ददर्शनं स्वकीयं महत्वपूर्णं स्थानं भजते । दर्शनशास्त्राणां पुंखानुपुंखचिन्तनं समीक्षणं विशेषतो वेदान्तदर्शनस्य योगदर्शनस्य च सूक्ष्मविवेचनं वरीवर्ति अरविन्ददर्शने । तेन कतिपयानि स्वतन्त्र मतानि च प्रदर्शितानि । तेषु चैत्यपुरुषतत्त्वमन्यतमम् । संप्रति दिङ्मात्रं विवक्ष्यतेऽत्र । अरविन्दनये अन्तरात्मा चैत्यपुरुषसंज्ञको जीवस्य प्रतिनिधिस्वरूपः, आत्मनो भिन्नः । समष्टिरूप आत्मा विश्वातीतो विश्वमय अपरिणामी ध्रुवश्च । मनुष्यशरीराधिष्ठाता चैत्यपुरुषः व्यष्टिरूपो देह-प्राण-मनसां भर्ता, नेता अविनश्वरः । अयं हृदयप्रदेशे भावावेगस्य केन्द्रप्रदेशे स्थित्वा देहयन्त्रं नियन्त्रयति । भगवन्तं प्राप्तुं प्रच्छन्नेन प्रकाश्येन जीवं प्रचोदयति । आत्मानं शिशुः भगवतः सन्तानरूपो भक्तरूपो वा स्वीकरणं चैत्यपुरुषस्य मुख्यस्वभावः । यद्यपि चैत्यपुरुषस्य भगवता सह भेदो नास्ति तथापि अभिव्यक्तौ कोऽपि भेदः स्वीक्रियते । जीवात्मा विश्वमय-विश्वातीतभगवति एकत्रितो भवितुमर्हति किन्तु चैत्यपुरुषः व्यष्टिभूत्वापि जीवस्य प्रतिनिधिरूपेण कार्यं कर्तुं शक्नोति । पुरुषापरपर्यायो जीवात्मा कारणकोषान्तर्गतो विश्वातीतो ब्राह्मीशक्तियुक्तः । कारणकोषस्य द्वौ पुरुषरूपौ प्रसिद्धौ । ऊर्ध्वरूपो जीवात्मा अस्मदादिसंज्ञायुक्तः । अधोरूप अन्तरात्मा चैत्यपुरुषः परिणामी, जीवस्य सचेतनकर्ता । जीवात्मा परंब्रह्मण अंशविशेषः अपरिणामी । अस्माकं प्रकृतसत्ता जन्ममृत्युरहितो नित्यः शुद्धबुद्धमुक्तस्वरूपः । स्वभावत अस्य विवर्तनं नास्ति, सच्चिदानन्दस्य एकत्वेऽस्य समावेशो भवति । शरीरे जीवस्य प्रतिनिधिः अन्नमयपुरुषः । प्राणेषु च प्राणमयपुरुषः मनसि च मनोमयपुरुषनाम्नाऽभिहितो वर्तते । हृदयान्तर्वर्ति-परिणामशीलसत्तारूपेण चैत्यपुरुषो वर्तते, यः खलु अमृतस्य प्रतिनिधिरुप उक्तः । मनुष्यशरीरे चैत्यपुरुषस्य क्रमपरिणामः सम्भवति । मूलतः स अपूर्णः । जीवस्य सारूप-सायुज्येन च तस्य परिपूर्णता जायते । बीजरूपस्य चैत्यपुरुषस्य प्रकृत्याः कामनायाः सकाशात् अंकुरोद्गमो भवति । जन्मजन्मान्तरिणकर्मणा हि तस्मिन् शाखा-प्रशाखाः जायन्ते । पल्लव-पुष्प-फलानि शोभन्ते । यथा वृक्षस्य वृद्ध्यर्थं जल-वायु-आलोकादीनां प्रयोजनं भवति तथैव चैत्यबीजस्य । सः पार्थिवजन्मन अभिज्ञतां स्मरति । यदा चैत्यपुरुषे कर्तृत्व-नियन्तृत्वादि संकल्पा जायन्ते, देह-मनः-प्राणाः तस्मिन् सहयुक्ताः भवन्ति, तदा प्राकृतजीवनस्य अयमारम्भो भवति । चैत्यपुरुषज्ञाता न जीवात्मपरमात्मनो वास्तवतां ज्ञातुं शक्नोति । विवर्तनदृशा चैत्यपुरुषो यद्यपि मूलसत्ता तथापि स भगवतः सनातनांशः । जीवात्मा विवर्तनवादेन न परिणमते । चैत्यपुरुषस्य चेतना यदा पूर्णतामाप्नोति तस्मिन्नेव समये चैत्यपुरुष-जीवयोः संयोगः कथयितुं शक्यते नान्यथा । अस्माकं देहो यदा पञ्चभूते विलीनो भवति तदा कुत्र चैत्यपुरुषश्चेदुच्यते । प्राणतत्त्वं प्राणभूमौ कियत्कालं तिष्ठति, अन्ते प्राणमयकोषे विलीनो भवति । मनस्तत्त्वं मनोमयभूमिमतिक्रम्य मनोमयकोषे एवं चान्ते चैत्यपुरुषः चैत्यलोकं प्रविश्य तत्र विश्राम्यति । परवर्तिकाले चैत्यधाम परित्यज्य मनोभूमिं प्रत्यावर्त्य मनोपादानं संगृह्य प्राणमयं गत्वा प्राणोपादानं गृहीत्वा अन्नमयभूमिं पुनरागच्छति । अन्नमयदेहधारणकर्तुं जनकं-जननीं च स्वीकरोति । इत्थं चैत्यपुरुषस्य जन्म-मरणचक्रं जायते । यदा जडाधारदेहः पूर्णतया चिन्मयभूतो भागवतीतनुं विधास्यति तदा न तत्र पुनरागमनं चिन्त्यते । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Aravindadarshanam ChaityapurushaH
% File name             : aravindadarshanam.itx
% itxtitle              : aravindadarshanam chaityapuruShaH (lekhaH)
% engtitle              : aravindadarshanam
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org