भारतगौरवम् १
(द्रुतविलम्बितम्)
जयति भारत-राष्ट्र-वसुन्धरा
जयति गौरव-सौख्य-समुज्ज्वला ।
जयति जीवन शक्ति-सुधाऽऽपगा
जयति भूति-विभूषित-विग्रहा ॥
सकल-संसृति संस्कृति-सूत्रधा
निखिल मानव-मान-विवर्धिनी ।
दुरित- दुःख भयौघ निवारिणी
जयति भारतभू सुखदा सदा ॥
नव-सुकीर्ति-समुज्ज्वल-शोभया
घृत-गुणावलि-दीप्ति-प्रदीपिता ।
सकल-लोक विलोचन-रूपिणी
अभयदा वरदा सुख-सारिणी ॥
अमित-दान-वितोषित-मानवाः
दहन-शक्ति विनाशित-दानवाः ।
विबुध गीत-गुणोच्छ्रय-शालिनी
नव-यशस्तति-मौक्तिक-मालिनी ॥
गुणवतामनिशं हित-साधनी
कुकृतिनामनिशं भय-साधनी ।
अनुदिनं प्रगतिं दधती मुदा
हरति कस्य नरस्य न मानसम् ॥
निकष धर्षण-जात-महात्विषो
दधति स्वर्णरुचः जयिनो जनाः ।
श्रम विकास-गुणाजन विश्रुता
जगति नेतृपदं दघते बुधाः ॥
खर-मरीचि-मरीचि-सम प्रभा
तुहिन-दीधिति-दीधिति-शोभना ।
वसुधरा वसुधा हित-काम्यया
जहति वर्ष्म निजं समरे खरे ॥
नव-नवाङ्कुर शाद्बल शोभिनी
कुसुम-संहति सम्भृत-माधुरी ।
हिम समृद्धि समेधित गौरवा
वहति भारतभूर्गरिमोच्चयम् ॥
अरुणिमाऽऽनन-पद्मचये श्रितं
तरुणिमा युग मानस-संस्थितम् ।
मधुरिमा वचने हृदि वर्त्मनि
प्रययतेऽस्य यशो भुवनोऽखिले ॥
युधि बहु कति नैव कलेवरं
वरममस्तु हुतात्मवता न वा ॥
प्रलय-वह्नि-समा प्रलयावहाः
जगति पौरवराः श्रियमाश्रिताः ॥ ॥ ।
श्रुति-निनाद-समुज्ज्वल-मानसा
सुकृत-कर्म-विपाक-विभाभृतः ।
बुधवरा भुवि लब्ध-सुकीर्तयो
रुरुचिरेऽत्र जगद्धित-लालसा ॥
वसुभृतो वसुधामवग्राह्य ये
भव-विभूति-विभूषित-जीवना ।
वसुततिं निज देश-हिताय ये
विपणिनो बिजहुस्त इमेऽर्चिता ॥
श्रमजर्यैविजयं क्व च नार्जितं
श्रमिभिरात्त-गुणोच्चय-शालिभिः ।
गुरुतरं गरिमाणमवाप्य ते
सकल-लोक-ललाम-सृतिं ययुः ॥
असम-शौर्य-प्रधर्षित-शत्रवो
निज-पतिव्रत-धर्म-श्रित-श्रियः ।
हितमवेक्ष्य भुवो धृतहेतयः
कथममूर्ललना न गुणास्पदाः ॥
बटुजनैर्यन्ददर्शि स्वपौरुषं
समरमेत्य तदाऽऽङ्ग्ल-प्रशासकैः ।
जहुरिमे निजजीवनमाहवे
गुणवतामवतां च धुरि स्थिता ॥
निजसुखान्यवमत्य धृतव्रता,
भरत-भू-हित साधन-तत्तरा ।
विबुध-वृन्द-सुगीत-गुणोच्चया,
यतिवरां भुवने श्रितकीर्तयः ॥
सकलमन्ध-तमस्तति-सन्ततं
जगदभूदिदमेव शुचाऽऽकुलम् ।
श्रुति निनाद-प्रणोदित तामसा
ऋषिवरास्त इमे महिला हिताः ॥
स्वयशसा तपसा च समेधिताः
सकल-लोक हिताय कृतश्रमाः ।
निखिल मोह-महासुर-नाशकाः
मुनिवरा प्रथिता भुवनेऽखिले ॥
भरत भू-गुण-गौरव-कीर्तने
मतिरुदेति मुदा प्रमदावहा ।
स्व धरणी गुण-कीर्तन-विश्रुत,
अमरता लभते सुकवि सदा ॥
भरत-भू-हित चिन्तन तत्पराः,
भरत-भू हित त्यक्त कलेवराः ।
भरत-भू-गुण-गौरव-सत्कृताः,
भरत-भू-तनयास्त इमे सुराः ॥
Proofread by Mandar Mali