भगवत्प्रातःस्मरणम्
श्री गणेशाय नमः ।
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम् ।
वेदैः सहागमगणैरूपगीयमानं
कान्तारकेतनवतां परमं निधानम् ॥ १॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारम् ।
संदृप्तदानवकदम्बमदापहारं
सौन्दर्यराशिजलराशिसुताविहारम् ॥ २॥
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४॥
इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं
श्रीभगवत्प्रातःस्मरणं सम्पूर्णम् ॥
Encoded and proofread NA