भजामि शैलसुतारमणम्
हे हर! शङ्कर! जीवनभारमुपाहर श्रीचरणं
भजामि शैलासुतारमणम् ॥ १॥
वसति नगेशः शैलशिलायाम्, प्रवहति गङ्गा शिरसि जटायां
द्वितीयाचन्द्रकलापरिचुम्बितभस्मयुतं वदनम् ॥ भजामि ॥ २॥
गजपतिचर्मविनिर्मितवसनम्, अहिपतिमालसमर्चितवदनम् ।
त्रिपुरकथामास्मारयतीदं ते त्रितयं नियनम् ॥ भजामि ॥ ३॥
वृषभविलासी योगी शङ्कर हर परितापं त्रितयं शङ्कर!
वेदपुराणकथापरिचुम्बति सततं ते चरणम् ॥ भजामि ॥ ४॥