श्रीभक्तिसंवर्धनशतकम्

श्रीभक्तिसंवर्धनशतकम्

पूर्वभागः

जातं जातं खलु जगदहो चित्रमेतत् समस्तं क्षीणं क्षीणं मुहुरपि परादृश्यते यत्प्रभावात् । (मृश्यते) तस्मै साक्षात् स्वरसपरमानन्दवीचीमयाय ब्रह्माख्याय त्रिभुवनपते देव तुभ्यं नमोऽस्तु ॥ १॥ (ब्रह्मण्याय) जीवात्मा यद्भ्रमति बहुशोऽप्यत्र संसारचक्रे तत्त्वन्मायाविलसितमतः प्राञ्जलिः प्रार्थयेऽहम् । मामानाहं जगति भगवन् जन्म सम्पद्यते चेत् (मायाद्यीनं जगति) कर्माभ्यर्हं भवतु भवनाधीश मानुष्यमेव ॥ २॥ चातुर्वर्ण्यप्रभृतिविभिदामुद्रिते मानुषं चेत् । ब्रह्मण्याय स्पृहयति जगन्नाथ नित्यं जनोऽयम् । तत्राकुर्वन्नमृतमशुभं कर्म कुर्वन्नकामं भक्तो भूयाद्भवतु भगवन् मार्गयन् मुक्तिमार्गम् ॥ ३॥ बन्धः कर्मण्यथ बहुविधे स्त्रीगुहायां प्रविष्टः पुंसो रेतःकणशबलिते शोणिते वर्तमानः । विट्पङ्कोत्थैः कृमिभिरभितः ताडितः पीडितात्मा यावत् सीदाम्यवशमरविन्दाक्ष तावत् प्रसीद ॥ ४॥ क्षारैरुष्णैरपि च कटुभिर्मातुराहारजातैः उद्यद्बाधो जठरकुहरे सङ्कुचत्सङ्कुलाङ्गः । श्वासोच्छासेष्वहमतितरां क्लेशशाली यदा स्यां गोविन्द त्वं प्रशमय तदा भक्तिभाजो ममार्तिम् ॥ ५॥ प्राचीनानामनुशयवतो जन्मनां कर्मणां च- स्मारं स्मारं मनसि सहसा लब्धबोधोदयस्य । गर्भागारे रुधिरकृमिविण्मूत्रपूर्णे स्थितस्य प्रादुर्भूयान्मधुविमथन त्वत्स्वरूपस्मृतिर्मे ॥ ६॥ मध्येगर्भाशयमत इतो भ्रान्तिमान् वर्तमानो मासि प्राप्ते तदनु दशमे पूर्यमाणाखिलाङ्गः । व्यासेधेन व्यथितहृदयो रक्तजम्बालसिक्तो वैकुण्ठ त्वां जननसमयप्राप्तखेदः स्मराणि ॥ ७॥ भूयो भूयः प्रसृमरकठोरामनस्यार्दिताया- माक्रन्द्रन्त्यां प्रसवसमये स्रस्तगात्र्यां जनन्याम् । यन्त्रच्छिद्रात् सपदि विवृताद्दुःखतः सूतिवातै- र्नीतिं जातं भुवि निपतितं पाहि मामार्तबन्धो ॥ ८॥ अद्भिः प्रक्षालितवपुरपि स्वच्छतां नोपगच्छन्- मातुः स्तन्यं गलितमुपजातार्तिरास्वाद्य सद्यः । अस्वातन्त्र्यादधिकविमनाश्चेष्टितेष्वप्रवीणः प्राप्तो मोहं मुहुरहमहो रक्षणीयोऽस्मि विष्णो ॥ ९॥ शीतोष्णाभ्यां प्रबलमरुता क्षुत्तृडार्तिप्रसक्त्या- यूकादंशप्रभृतिभिरपि प्रत्यहं बाध्यमानः । आत्मोत्सृष्टैरविषहशकृन्मूत्रपङ्कैश्च लिप्तः साक्रन्दोऽहं तव मुररिपो बालकः पालनीयः ॥ १०॥ दन्तोत्पत्तेः प्रथमममृदु प्रायमाहारजातं भोक्तुं वाच्छन्ननिपुणतया दूयमानो निकामम् । यावत् क्रन्दाम्यहमतितरां दीनदीनः क्षुधार्तः तावद्देव प्रसरतु मयि क्षिप्रमेकः कटाक्षः ॥ ११॥ उत्तिष्ठासुः कथमपि समुत्थापितो बालवर्गैः मन्दं मन्दं किमपि चरणन्यासमाकाङ्क्षमाणः । नालम्भूष्णुर्झटिति पतितं निष्ठुरे भूमिपृष्ठे यावन्मुह्याम्यजित भवता रक्षणीयोऽस्मि तावत् ॥ १२॥ क्रीडालौल्याद्गुरुभिरसकृत् प्रेरितः क्रूरवाग्भिः । विद्याभ्यासे प्रचकितमना हन्त शोचामि यावत् । यावद्दूये दशनपतनैः कर्णवेधेन चाहं तावत् पीताम्बर तव कृपालोक एवावलम्बः ॥ १३॥ सस्नेहाभ्यां परवशतया पुष्यमाणः पितृभ्यां क्रीडालौल्यप्रथितबहुचापल्यमुल्लङ्घय बाल्यम् । द्वैतीयीकं पुनरथ वयः प्राप्नुवन् दृप्तचित्तो लक्ष्मीजाने तव पदयुगं विस्मरन् मास्म भूवम् ॥ १४॥ धर्माचारं दिनमनुपरित्यज्य विध्वस्तलज्जः पापान्यापादयितुमुदितौद्धत्यमुद्योगशाली । अर्थापत्यप्रियसुतकलत्रादिसक्ताशयोऽहं गर्हाभ्यर्तः सदसि विदुषां मा भवेयं मुरारे ॥ १५॥ आशापाशैर्निगलितमहन्ताग्रहग्राहकृत्त स्वस्थावस्थापरिचयमनुष्ठाननिष्ठाविहीनम् । दृप्तं चित्तं मम कुरु तमोधाम कामभितप्तं मा मा मग्नं नरकमथन स्त्रीविषाब्धौ दयाब्धे ॥ १६॥ त्यक्त्वा धैर्यं व्यपगतपरीपाकमुच्चैर्विपाकं मुक्त्वा हित्वा सपदि च कृपां वाक्पटुत्वं च कृत्वा । क्रोधोद्वृत्तं भवति यदि मे ध्वस्ततत्त्वप्रबोधं चित्तं चक्रायुध तव पदस्थास्नु कर्तव्यमेव ॥ १७॥ देहे मांसक्षत जभरिते रूपवत्ताभिमानात् कञ्चित् कालं वपुषि मिलितो यौवनस्योदयाच्च । ऐश्वर्यादप्यहह सहसा नश्वरराद्विश्वमूर्ते चित्तं मत्तं प्रचलति यदि त्वामृते का गतिर्मे ॥ १८॥ विद्यावत्त्वं द्रविणगुरुता पुत्रमित्रादिसौख्यं कस्यापि स्याद्यदि सवयसः प्रायशो जायमानः । अन्तः सन्तापकृदविरतं मत्सरो दुःसहात्मा मा मा नाथ प्रसभमभवं प्रश्र यस्यापनेता ॥ १९॥ यस्मिन् कस्मिन्नपि लघुतरे कार्यवस्तुन्यवस्थां कालं देशं पुनरगणयन् द्रव्यजातं त्यजामि । यस्मात्क्षोभात् समुचितमपास्यामि धर्मं च तस्मात् चेतो डम्भाद्विरमतु ममेत्यद्य याचे हरे त्वाम् ॥ २०॥ कञ्चिद् द्दष्ट्वा सपदि विपदे भर्त्सये तत्समक्षं वेगाद्धावामि च पथि जले निष्पताम्युत्पतामि । किञ्चाहेतोर्मुहुरपि हसाम्युच्चकैर्यत्प्रभावात् दर्पः सोऽयं न भवतु मम त्वत्प्रसादान्मुकुन्द ॥ २१॥ मातुर्वाक्यं पितुरपि निराकृत्य नित्यं गुरूणा- माज्ञामुल्लङ्घय च गुरुतरान्नातिबिभ्यन्महद्भयः । अभ्यस्यन्नप्यविनयमहो स्त्रैण एव प्रवृत्तो नाम त्वामप्यपरिगणयन् मा दिनान्येष नैषम् ॥ २२॥ बद्धोत्साहः प्रतिमुहुरसत्कर्मणे धर्मदारान् दूरात्त्यक्त्वा रहसि परदारैः समं रन्तुकामः । निन्द्याकारोऽप्यतिजडमतिः सुन्दरम्मन्य एव स्वेच्छाकारी मदनविवशो मा भवं देवदेव ॥ २३॥ वामां वामां कुटिलहृदयां काममात्मन्यकामा- मागृह्णानः प्रणयचपलः कामतप्तान्तरात्मा । तत्ताद्दग्भिः कपटचरितैर्वञ्च्यमानस्तयाहं योषित्क्रीडाकपिरिति विभो मापहास्येय सद्भिः ॥ २४॥ स्त्रीभ्यो दत्त्वा सकलमचिरात् स्वापतेयं स्वकीयं दारिद्रैकः स्वयमनुदिनं जाड्यवान् पीड्यमानः । अन्यायेन द्रुतमथ परद्रव्यमप्याजिहीर्षु- र्मैव श्रीवल्लभ दुरितमित्यार्जितं प्राज्यकीर्ते ॥ २५॥ मोहेनोपप्लुतमतिरतिक्रम्य तारुण्यमुद्रां पापं कुर्वन् विषमविषयाकृष्टचित्तः प्रमत्तः । आधिव्याधिप्रभृतिभिरपि प्रत्यहं बाध्यमानः कर्णाभ्यार्णाकलितवलितः त्वां विभो भावयानि ॥ २६॥ क्षुत्प्रक्षीणं निजमवाधीर्बिभ्रदेकः कुसुम्बं नैष्णिञ्चन्यात्तमनभिलषन् मित्रवर्गादविन्दन् । (नैष्किञ्चन्यात्) कर्माधीने वपुषि जरसा जर्जरे लज्जमानः सत्संर्गे भवति भगवन् भक्तचित्तो भवानि ॥ २७॥ अस्वातन्त्र्यात् परमनिपुणः क्लेशलेशासहिष्णुः पुत्रैर्दारैः सततरुदितैः सेर्ष्यमाभाष्यमाणः । शय्यापर्याकुलमधिशयारोहमुद्वृत्तलक्ष्मा यावद्दूये मुरमथन ते नाम तावत् स्मराणि ॥ २८॥ कासश्वासप्रसरविधुरेऽजीर्णतापूर्णगात्रे नेत्रश्रोत्रप्रभृतिकरणग्रामशक्त्या वियुक्ते । अस्पष्टाभिर्वदति विकृतं वाग्भिरुद्भूतपश्चा- त्तापे जाते मयि सकरुणं वीक्ष्यतां तार्क्ष्यकेतो ॥ २९॥ अन्येनोत्थापितमकृपया शायितं जीर्णतल्पे ललाजालं वदनकुहराद्भ्रष्टदन्ताद्वमन्तम् । कष्टं दष्टं वपुषि मशकैर्मत्कुणैर्मक्षिकाभि- र्मुह्यन्तं मामजित कृपया पाहि पाहीति पाहि ॥ ३०॥ क्षुत्क्षामत्वाद्भृशतरमहो दुर्बलैः पुत्रदारैः कष्टावस्थामहमुपगतोऽनास्थया रक्ष्यमाणः । शून्यागारेऽप्यपगतसुहृद्भुमिमावेष्टमानो दुःखायिष्ये यदि बत जरन्माधव त्वं प्रसीद ॥ ३१॥ दुष्कर्माणि प्रबलतमसा जन्मनोपार्जितानि स्मारं स्मारं निरयपतनं शश्वदुत्प्रेक्षमाणः । मृत्योर्बिभ्यन्नपि जरठतां निःसहो मर्तुमिच्छुः त्वन्नामोच्चारणमगणयन्नेव मानाथभूवम् ॥ ३२॥ शय्याप्रान्ते सततमविदन्नेव मोमूत्र्यमाणो मुक्त्वा भुक्त्वा बहुमलमनिर्वृत्तशौचः शयानः । श्वासायासव्यसनपरिपूर्णार्तिरासन्नमृत्युः त्रातव्योऽहं तव विपवदस्थां गतः शार्ङ्घपाणे ॥ ३३॥ अत्यासन्ना बहुमृतिरमुष्येति श‍ृण्वन् जनानां वाचं घो रैर्घुरुघुरुरवैः क्लिष्टकण्ठः कफेन । क्षुभ्यत्प्राणः श्वसितरभसोद्धूतमर्मास्थिबन्धः सोऽहं विष्णो जय जय मुकुन्देति वाणीं ब्रवाणि ॥ ३४॥ जञ्झावाते चलति तिमिरे वर्धमाने कठोरे मेघेऽप्युच्चैः स्तनति सहसा कान्दिशीके जनौधे । द्यावाभूम्योर्विततवपुषः प्रेतराजस्य दूतान् पश्यन्तं मां परमकृपण रक्ष पङ्केरुहाक्ष ॥ ३५॥ वृत्ताकारप्रचलनयनो ध्वान्तरौद्रानलानि व्यादीर्णानि भ्रुकुटिविकटान्युग्रदंष्ट्रोद्भटानि । दृष्ट्वा दृष्ट्वा यमभटमुखान्याशु सन्त्रस्यतो मे नाथ त्राता भव मृतिदशासङ्कटे पङ्कजाक्ष ॥ ३६॥ चक्रश्वासभ्रमितवपुषं मूत्रमप्युत्सृजन्तं नेत्रोन्मेषं विदधतमकाण्डे च फेनायमानम् । आलोक्यालोक्य च यमभटानन्तरा वेपमानं प्राणापायव्यसनसमये रक्ष मां चक्रपाणे ॥ ३७॥ क्षुद्रे सद्यस्तमकसहिते ब्रह्मवृत्तावसाने श्वासोच्छिन्ने महति च चलत्यूर्ध्वमूर्धाभिधाने । देहाद् देहि मम विघटते यावदासाद्य तावत् साक्षाद्भूयास्त्वमिति भगवन् प्रार्थये तीर्थपाद ॥ ३८॥ मर्मस्थानां प्रकृतिकठिने लोठतामस्थिकूटे स्वस्थानेभ्यः कृतदृढतराघातमुद्घाटितानाम् । मत्प्राणानां विदधति यदा यातनादेहयोगं मृत्योर्दूताः शिव शिव तदा पाहि मां पद्मनाभ ॥ ३९॥ हुङ्कुर्वद्भिः श्रवणपरुषं मुद्गरैस्ताड्यमानः पाशैः पश्चात्कृतभुजयुगं गाढमाबद्धगात्रः । तुष्टैः कृष्टः पितृपतिभटैः कण्टकैनीर्यमानः त्रातव्योऽस्मि प्रचुरकरुणावास ते वासुदेव ॥ ४०॥ छायाहीने विषमितपथे वीततोयप्रसङ्गे सन्तप्ताभिर्भृशमत इतो वालुकाभिश्च पूर्णे । यावन्नीये विगतकरुणैः श्राद्धदेवस्य दूतैः तावद्भक्ताभयद भगवन्नुत्तमश्लोक पाहि ॥ ४१॥ दुर्मार्गाया मरुमयभुवो योजनानां सहस्रं वेगान्नीतः प्रहरणवरैः किङ्करैरङ्कुशेन । आज्ञां श्रोतुं तदनु पुरतो दर्शितो दण्डपाणेः सन्त्रस्तोऽहं मनसि दयनीयोऽस्मि लक्ष्मीपते ते ॥ ४२॥ आहूयाग्रे स्वयमथ यमो लेखकं चित्रगुप्तं पापान्याकर्ण्य च मम तदा हन्त तेनोदितानि । यावत्पापी चिरतरमयं दण्ड्यतामित्यकाण्डे रोषादाज्ञापयति च जगन्नाथ रक्ष्योऽस्मि तावत् ॥ ४३॥ तामिस्राख्ये महति नरके रौरवेऽप्यन्धकूपे पूयस्रोतस्यसकृदसिपत्राटवीनामधेये । लालाभक्ष्येऽप्यथ बहुविधे कष्टमन्यत्र यावत् पात्ये तावत् परमपुरुष त्वं प्रसीद प्रसीद ॥ ४४॥ इष्टापूर्तिप्रभृतिसुकृतापादनात् स्वर्गसौख्यं कञ्चित्कालं पुनरनुभविष्यामि यद्यप्युदारम् । न श्रद्धेयं न च खलु तथाप्येतदस्यावसाने यज्जन्म स्यात् पुनरिति विभो मुक्तिकामों भवानि ॥ ४५॥ गन्धर्वा ये तुरगवदना ये च विद्याधरा ये- सिद्धाः साध्या अपि बहुविधा ये च ये वा रणाश्च । (चारणाश्च) ये केऽप्यन्ये दिशि दिशि नभोवर्त्मना सञ्चरन्ते तेषां स्थाने न हि मम रतिर्नाथ नित्येतरत्वात् ॥ ४६॥ इन्द्रो वह्निः पितृपतिरथो यातुधानः प्रधान- स्तोयानां च प्रभुरथ मरुत् किन्नरेशो महेशः । इत्यष्टौ ये दिवमधिवसन्त्येकशो लोकपाला- स्तेभ्यो मे न स्पृहयति हृषीकेश मोक्षेच्छुरात्मा ॥ ४७॥ पूर्णैः पुण्यैरथ च दुरितैर्भूरिभिः सौख्यदुःखा- न्येकैकस्मादनुभवति यज्जीवनामायमात्मा । तस्मादिच्छाम्युपशमविधानेन नैष्कर्म्यसिद्धिः यस्मात् सिध्येत् परमममृतं देव कैवल्यनाथ ॥ ४८॥ अष्टाङ्गस्य स्वयमिह समारभ्य योगस्य योग्या- सत्यस्याथ प्रकटितफलान्याशु कर्माण्यमूनि । (न्यभ्यस्याथ) मोक्षप्राप्त्यै स्पृहयति मनो विस्मृताशेषसङ्ग- स्त्वत्पादब्जस्मृतिमनुभवाम्येव लक्ष्मीनिवास ॥ ४९॥ त्वत्कं ध्यायन् मनसि सकलं निष्कलं च स्वरूपं सर्वात्मत्वं त्वयि च कलयन् पूर्णभक्तिप्रपञ्चः । नामान्युच्चार्य च बहुविधान्यस्य चिन्ताविहीनः- कैवल्यार्थी तव परमहं देव दासो भवामि ॥ ५०॥ ॥ इति भक्तिसंवर्धनशतके पूर्वभागः सम्पूर्णः ॥

उत्तरभागः

जातः सत्यव्रतनुनृपतेरञ्जलौ वर्धमानः (नरपते) कल्पाम्भोधौ विततसलिले क्लृप्तकेलीप्रचारः । तस्मै राज्ञे हितमुपदिशन् वेदमप्याददानो मायामत्स्यस्त्वमिह मनसि स्मर्यसे विश्वनाथ ॥ ५१॥ पीयूषार्थं दिविषदसुरैरन्बुधौ मध्यमाने मन्थाद्रौ च क्षुभितसलिलं याति पातालमूलम् । आदायैनं विपुलिमभृता कर्परेणोद्धरन्तं चित्तेन त्वामजितकुहनाकच्छपं चिन्तयामि ॥ ५२॥ पारावारे प्रलयवितते चञ्चदूर्मिप्रपञ्चे मग्नां पृथ्वीमनिभृतभृतौद्धत्यमुद्धर्तुकामः । मङ्क्षुर्मग्नः कुटिलशिखया दंष्ट्रया तां दधानः क्रीडाक्रोडः कमलनयन त्वं मया चिन्त्यसेऽन्तः ॥ ५३॥ प्रह्लादस्य स्वपदयुगलीदत्तचित्तस्य हत्यै सन्नद्धस्य त्रिभुवनरिपोर्दैत्यभर्तुर्निहन्ता । घोराकारः प्रखरनखरो भीषणभ्रूकुटीक- स्त्रैलोक्याधीश्वर मनसि मे वर्तसे त्वं नृसिंह ॥ ५४॥ विश्वाधीशे प्रभवति बलौ माणवीभूय भूयः पृथ्वीमग्नीन्धनविधिकृतये याचमानो जिघृक्षुः । आशु क्रामन् भुवनमखिलं धातृनिर्णिक्तपादः त्वं देवेन्द्रावरज मनसा वामनो भावितोऽसि ॥ ५५॥ जातो मध्येधरणि जमदग्नेः सुतो रेणुकाया- मन्तेवासी त्रिपुरमथितुः कार्तवीर्यस्य जेता । पाणौ बिभ्रत्परशुमधिसङ्ग्राममासन्नविंशान् वारान् क्षेप्ता दुरवनिभुजो देव राम स्मृतोऽसि ॥ ५६॥ जातो वंशे सवितुरृषिणा सङ्गतो जानकीशः स्वैरं गच्छन् वनमथ वियुक्तप्रियो ध्वस्तवाली । उत्तीर्णाब्धिः कपिकुलबलो रावणस्यापि हन्ता सीतायुक्तः पुरमधिवसन् देव राम स्मृतोऽसि ॥ ५७॥ श्वेताकारो हलमुसलवान् नीलवस्त्रन्दधानः कर्षन् मत्तस्तपनतनयामात्तपीताङ्गरागः । नानादैत्यप्रमथनपटुर्नागराजावतारो भूमेर्भारं गुरुमपहरन् देव राम स्मृतोऽसि ॥ ५८॥ जातो वंशे तुहिनमहसो गोकुले क्लृप्तवासः कंसध्वंसी परिणयमथ स्त्रीगणानां वितन्वन् । चैद्यारातिः समरसमये सारथिः पाण्डुसूनोः धात्रीभारक्षपणनिपुणो देव कृण्ण स्मृतोऽसि ॥ ५९॥ अन्तं सङ्गच्छति कलियुगे वर्णसङ्कीर्णभावे- भाविन्यत्युत्कटतरमधर्मे च वर्तिष्यमाणे । अश्वारूढः करतलचलन्मण्डलाग्नः खलौघान् भर्त्स्यन् कल्कित्रिभुवनपते घोररूपः स्मृतोऽसि ॥ ६०॥ शैले कूटत्रयवति पयःसिन्धुना वेष्टयमाने पुष्पोद्यानोदरकमलिनीं गाहमाने गजेन्द्रे । ग्राहग्रस्ते स्तुवति तदनुग्राहकस्त्वं दयालु- स्ताक्ष्यार्रुढः कमलनयन स्मर्यसे चक्रधारी ॥ ६१॥ देवैर्दैत्यैरपि विमथितादुत्थितः क्षीरसिन्धोः श्वेतोष्णीषी वलभिदुपलश्यामलः क्षेमकारः । बिभ्रच्चक्रं दरमथ सुधापूर्णकुम्भं जलूकां दोर्भिर्धन्वन्तरिरिह भिषग्भाव्यसे त्वं मुरारे ॥ ६२॥ श्रीकण्ठाय प्रकटिततरौत्कण्ठ्यमाक्रीडमध्ये प्रक्रीडन्ती धुततनुलतासौष्ठवातिष्ठमाना । सभ्रूभङ्गस्मितसहचरापाङ्गलीलभिरामा दैत्यारे त्वं कपटतरुणी भाव्यसे दिव्यबेषा ॥ ६३॥ नैष्कर्म्याविष्करणनिपुणः कर्दमापत्यभूतः स्वच्छन्दात्मा कपिलरुचिभिः शोभमानो जटाभिः । तत्त्वज्ञानं परमुपदिशन् देवहूत्यै स्वमात्रे गोविन्द त्वं मनसि कपिलो वासुदेवः स्मृतोऽसि ॥ ६४॥ दुष्टाद्वेनान्मुनिजनमहाशापतः प्राप्तनाशात् जातश्चापाटनिविदलितक्ष्माधरायां धरायाम् । मेरौ दोग्धर्यमितधनधान्यादि विस्तारयन्तं ध्यायामि त्वां पृथुमतिपृथुप्राभवं विश्वनाथ ॥ ६५॥ भर्गे भक्तत्रितयमपथे वर्तमानं पुराणां वाचोयुक्त्या परिणतमहद् द्वेषमापादायन्तम् । धर्मस्थित्यै प्रथितचरितं बुद्धसंज्ञं मुनीन्द्रं मायादेवीसुतमयि हरे मायिननं भावये त्वाम् ॥ ६६॥ दाक्षायण्यां प्रथितयशसौ धर्मदेवस्य पुत्रौ सञ्जातौ द्वौ महितनरनारायणाख्यं दधानौ । प्रालेयाद्रेस्तटभुवि बदर्याश्रमे संवसन्तौ रक्षाहेतुं जगति भगवन् भावयामि त्वदंशम् ॥ ६७॥ सौन्दर्यश्रीललितवपुषं क्लृप्तसंन्यासावेषं दिव्यं दिग्वाससमत इतः स्त्रीसहायं चरन्तम् । अध्यात्मज्ञैर्मुनिभिरभितः स्तूयमानं मुनीन्द्रं दत्तात्रेयं मनसि भगवन् भावयामि त्वदंशम् ॥ ६८॥ रेवास्रोतोविहरणपरं प्रस्फुरद्दोःसहस्रं धात्रीरक्षापरमपरिमेयात्मवीर्यानुभावम् । दत्तात्रेयादुपगतवरं कार्तवीर्यार्जुनं त्वां कीर्तिस्तोमाज्जनितभुवनं भावये श्रीनिवासम् ॥ ६९॥ पाराशर्या परिणततनुर्बीजशक्त्या श्रुतीनां व्यासं कुर्वन् बहुविधपुराणेतिहासप्रणेता । वेदान्तार्थप्रकाशस्तुतिमुपनयन् पूर्णशिष्यप्रशिष्यः कृष्णद्वैपायनमुनिवरः स्मर्यसे त्वं मुकुन्द (?) ॥ ७०॥ वेलाघातप्रचलितमहावीचिजालप्रसर्प-। त्फेनावर्तं धवलसलिलोद्भ्रान्तयादःकदम्बम् । नानारत्नद्युतितरलितागाधगर्भप्रदेशं दुग्धाम्भोधिं मनसि भगवन् भावये त्वन्निवासम् ॥ ७१॥ पुष्यत्कल्पद्रुमसुरलताजृम्भितामोदभारं नानापक्षिप्रवरललिताबन्धनादप्रपञ्चम् । भृङ्गश्रेणीरवमुखरितं मन्दवाताभिरामं श्वेतद्वीपं तव पदमिमं देव सम्भावयामि ॥ ७२॥ उद्यानोद्यत्कुसुमनिकरं गोपुराबद्धसालं रथ्याश‍ृङ्गाटकविलसितं केतनोद्यत्पताकम् । प्रासादाग्रस्फुरितवलभीभागमुत्तङ्गसौधं वासस्थानं मनसि कलये पद्मनाभ त्वदीयम् ॥ ७३॥ आशापालान् सहितदयितान् सप्रियान् देवयोनीन् देवब्रह्मक्षितिपतिमुनीन् भक्तिभारैर्विनम्रान् । त्वत्पादाब्जप्रणमनपरान् भक्तिभारावनम्रान् पर्यन्तस्थान् परमपुरुष त्वन्मयान्भावयामि ॥ ७४॥ तत्त्वज्ञानप्रवणहृदयान् भूयशोऽभ्यस्तयोगान् ज्योतिर्जालप्रसरतरलान्नित्यकौमारयुक्तान् । ब्रह्माण्डान्तभ्रमणनिपुणानुज्ज्वलत्त्वत्पदाब्ज- प्राप्तान् पद्मारमण सनकाद्यान् मुनीन् भावयामि ॥ ७५॥ भूषावेषाद्यधिकसुभगान् दोश्चतुष्काभिरामान् मेघश्यामान् कपिशवसनान् फालबद्धार्धपुण्ड्रान् । दीर्घापाङ्गान् प्रहसितमुखान् भक्तलोकैकबन्धो नाथ त्वत्पार्षदवृषवरान्नन्दमुख्यान् स्मरामि ॥ ७६॥ भक्तिप्रह्वं मुकुलितदृशं प्राञ्जलिं प्रान्तसंस्थं नामान्युच्चैःस्वरमुखरिताभ्याशमुच्चारयन्तम् । आह्लादार्दै मनसि विकसत्त्वत्स्वरूपप्रकाशं प्रह्लादाख्यं नलिननयन त्वत्प्रियं चिन्तयामि ॥ ७७॥ सङ्गायन्तौ गमकगतिमन्मूर्छनाग्रामभिन्न- श्रुत्यारूढस्वरपरिणमद्रागहृद्यं विपञ्चया । नानावन्दिप्रवरसहितौ गायकौ तावकीनौ साक्षादीक्षे मनसि भगवन्नारदं तुम्बुरुं च ॥ ७८॥ किञ्चिद्विस्रंसितकचभराः पूर्णसर्वाङ्गभङ्गी- र्नेपथ्यश्रीमधुरिमजुषो मञ्जुशिञ्जानभूषाः । पार्श्वे स्थित्वा ललितललिन्त चामरं चारयन्तीः पश्याम्यन्तदितिसुतरिपो चामरग्राहिणीस्ते ॥ ७९॥ अभ्याशस्थं भुजगपटलीभूषितोद्दीप्तगात्रं पक्षक्षेपक्षुभितभुवनं चण्डतुण्डप्रकाण्डम् । आपिङ्गाक्षं कनककपिशज्योतिषं वाहनं ते तार्क्ष्यं वीक्षे मनसि करबद्धाञ्जलिं कञ्जनाभ ॥ ८०॥ शूत्कुर्वन्तं फणदशशतीविस्फुरद्रत्नजालं दंष्ट्राकोटिद्वितयविलसच्चण्डतुण्डान्तरालम् । श्वेताकारं तरलपवनाहारतो वर्धमानं पर्यङ्कस्थं मनसि कमलाकान्त पश्याम्यनन्तम् ॥ ८१॥ ज्योतिर्जालज्वलितवपुषः प्राञ्जलीन् प्राज्यविद्यान् उच्चैरभ्युच्चरितजयशब्दस्वनाध्मापिताशान् । मूर्तान् दैत्यप्रमथनपरानायुधौघान् प्रभाते चित्ताभोगः प्रकटयति मे शङ्खचक्रप्रधानान् ॥ ८२॥ पीतश्यामप्रभतनुलते रक्तपीताङ्गराग- क्षौमाभोगे मकुटकटकाद्युज्ज्वलन् भूशिताढ्ये । सौन्दर्योद्यत्तरुणिमदिलासाञ्चिते पार्श्वसंस्थे सङ्गच्छेते हृदि मम हरे त्वत्प्रिये श्रीधरण्यौ ॥ ८३॥ रत्नभ्राजत्कनकमकुटं कुञ्चितानीलकेशं वेल्लत्सान्द्रालकमलिकसम्भासमानोर्ध्वपुण्ड्रम् । भ्रूविक्षेपाञ्चितमभिनवाम्भोजपत्रायताक्षं साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८४॥ कर्णाभ्युद्यन्मकरविलसत्कुण्डलं तुङ्गनासं दन्तज्योत्स्नामधुरमधरज्योतिषा शोभमानम् । गण्डाभोगोड्डमरसुषमं कौस्तुभोल्लासिकण्ठं साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८५॥ हाराभ्यन्तस्स्फुरिततुलसीदामवन्यस्रगाढ्यं श्रीवत्साङ्कप्रथिनघुसृणामोदिवक्षोविभागम् । दीप्तस्वर्णाङ्गदवलयकेयूरवद्दोश्चतुष्कं साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८६॥ उद्यद्रोमावलिवलियुतं प्रस्फुरद्दुन्दबन्धं लोकेशाढ्यासितविकचपद्मोल्लसन्नाभिरन्ध्रम । काञ्चीदामाञ्चितकटितटं पीतकौशेयवस्त्रं साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८॥ आपीनोरुद्वितयमतुलाकारजानुप्रदेशं भ्राजज्जङ्घायुगलसुषमाभोगमागूढगुल्फम् । कूर्माकारप्रपदमधिकाताम्रपादारविन्दं साक्षादीक्षे मनसि मधुविध्वंसन त्वत्वरूपम् ॥ ८८॥ कालाम्भोदाज्जननवकलायप्रसूनाभिरामं श्यामज्योतिष्पटलपरिवेषाञ्चितं चारुवेषम । सर्वाङ्गीणप्रकटनफलावन्यपूर्णप्रकाशं (फलावन्ध्य) साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८९॥ उद्यन्मन्दस्मितमधुरिमोद्भासिवक्त्रारविन्दं कारुण्याम्भःप्रसरलहरीपूर्णनेत्रारविन्दम् । योगीन्द्रान्तःकरणमधुलिट्सेव्यपादारविन्दं साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ९०॥ पातालाङ्घ्निं धरणिवलयं श्रोणिभागं विहाय मध्योद्देशं सुरपुरमुखं ब्रह्मलोकोत्तमाङ्गम् । भास्वच्चन्द्रेक्षणमनिलनिश्वासमम्भोधिवीर्यं ध्यायाम्यन्तस्त्रिभुवनपते पूरुषं त्वां विराजम् ॥ ९१॥ भूतात्मानं भुवनविततं भूतिसर्वस्वभाञ्ज भुक्तेर्मुक्तेरपि च विषयं भूरिकारुण्यपूर्णम् । भूतग्रामप्रभवविभवं भूर्भुवःस्वर्निधानम् । भूयो भूयो मनसि भगवन् भावयेयं भवन्तम् ॥ ९२॥ मायातीतं मननविषयं मौनभाजां मुनीनां कालात्मानं कलिमलमुषं कारणं कारणानाम् । दुर्विज्ञेयं निगमवचसा मुख्यावाक्यार्थसारं तेजोरूपं त्रिभुवनपते चेतसा त्वां स्मरामि ॥ ९३॥ आत्मारामं विपुलममलं वाक्प्रपञ्चातिवृत्तं द्वन्द्वातीतैर्विषयविमुखैर्योगिभिश्चिन्त्यमानम् । आविर्भूतस्वरसपरमानन्दनिष्यन्दसान्द्रं विश्वोत्पत्तिस्थितिलयकरं त्वां मुरारे स्मरामि ॥ ९४॥ मुक्तिस्थानं मुनिजनमनोमन्दिरं मूर्तिहीनं नानाकारं निरुपममसङ्ख्यातवीर्यानुभावम् । निर्व्यापारं विविधविभवं निर्मलं निर्विकल्पं विश्वाकारं परमपुरुष त्वामहं भावयामि ॥ ९५॥ स्थूलं सूक्ष्मं गुरुलघुसमुत्तुङ्गमुच्चैर्गभीरं दीप्रं शान्तं तरलमचलव्यक्तमव्यक्तरूपम् । सर्वाध्यक्षं सकलकरुणागोचरं लूतमायं मायाहीनं मनसि कलये देव रूपं त्वदीयम् ॥ ९६॥ सत्तामात्रं विकृतिरहितं व्याप्तमाद्यन्तशून्यं संविद्रूपं गुणगणनिकाविक्रमाह्लादपूर्णम् । शुद्धं बुद्धं विघटिततमोबन्धमात्मप्रकाशं प्रत्यग्भूतं तव मुररिपो रूपमन्तःस्स्मरामि ॥ ९७॥ सर्वस्मादप्युपरि विलसत्सर्वभूतात्मभूतं सर्वाकारप्रकटनपरं सर्वतेजोनिधानम् । सर्वापायक्षपणनिपुणं सर्वलोकप्रधानं त्वद्रपं मे लसतु हृदयाम्भोरुहे देवदेव ॥ ९८॥ निर्वाणाख्यं निखिलजगतामाश्रयं दुर्विभाव्यं भव्यं दिव्यं भवजलनिधेः पारमुच्चैरयन्तम् । सच्चित्सौख्यात्मकमुपनिषन्मुख्यवाक्यप्रपञ्च- व्याख्यायोग्यं परमपुरुष त्वत्स्वरूपं स्मरामि ॥ ९९॥ सत्यं ज्ञानं मुहुरपि महायोगिभिश्चिन्त्यमानं पूर्णानन्दामृतलहरिकाजालमान्यं तुरीयम् । ओङ्कारार्थं परमममृतं त्वन्निषेधावशेषं ब्रह्माद्वैतं परमपुरुष स्वात्मबोधं स्मरामि ॥ १००॥ स्तोत्रं विष्णोरिति मृदुपदैः सुप्रबन्धैः शतेन श्लोकैरेभिर्विरचितमिदं भक्तिसंवर्धनाख्यम् । भक्त्या युक्तः पठति खलु यः प्रातरुत्थाय नित्यं प्राणापाये व्रजति हि हरेर्धाम निर्वाणनाम ॥ १०१॥ इदं स्तोत्रं पठेन्नित्यं यो नरः प्रातरुत्थितः । भक्तिसंवर्धनं नाम स याति परमं पदम् ॥ १०२॥ भक्तिसंवर्धनं नाम श्लोकानां शतकं मया । ब्रह्मदत्ताभिधानेन स्तोत्रं विष्णोर्विनिर्मितम् ॥ १०३॥ ॥ इति श्रीभक्तिसंवर्धनशतके उत्तरभागः सम्पूर्णः ॥ इति भक्तिसंवर्धनशतकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Bhaktisamvardhana Shatakam 06 37
% File name             : bhaktisaMvardhanashatakam.itx
% itxtitle              : bhaktisaMvardhanashatakam
% engtitle              : bhaktisaMvardhanashatakam
% Category              : misc, shataka, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : From stotrArNavaH 06-37.  pUrvabhAga and uttarabhAga 50 verses each
% Indexextra            : (Scan)
% Latest update         : January 6, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org