भवबन्धमुक्त्यष्टकम्

भवबन्धमुक्त्यष्टकम्

एकं द्वितीयरहितं सदबाधितं च सच्चित्स्वरूपमिति यच्छ्रुतिशीर्षपूगैः । जेगीयते सकललोकविवर्तभूतं तद्भावयामि सततं भवबन्धमुक्त्यै ॥ १॥ अन्नासुमानसमुखप्रकृतीञ्जगाद कोशान्छ्रुतिर्यदवबोधकृतेऽत्र पञ्च । सर्वान्तरं भृगुमुनिप्रवरेण दृष्टं तद्भावयामि सततं भवबन्धमुक्त्यै ॥ २॥ आनाशकेन तपसा बहुदक्षिणेन यज्ञेन दाननिचयाच्छ्रुतिपाठतश्च । इच्छन्ति वेत्तुमिह यद्धरणीसुराग्र्या- स्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ३॥ कश्चिद्विपश्चिदिह संसृतिसौख्यवाञ्छां सन्त्यज्य सद्गुरुमुपेत्य कृपापयोऽब्धिम् । विज्ञाय तद्वचनतः खलु मोदते य- त्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ४॥ प्राणान्नियम्य तु मनो हृदयारविन्दे भ्रूगह्वरे शिरसि वा प्रणिधाय सम्यक् । ध्यायन्ति यत्परगुरोर्वचनानुसारा- त्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ५॥ यज्जाग्रदादिसमये धृतविश्वमुख्य- नामातनोति बहिरन्तरवस्तुसेवाम् । सुप्तावबोधसहितस्य सुखस्य भोक्तृ तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ६॥ वागादयःस्वविषयेषु चरन्ति येन सञ्चोदिताः प्रभुवरेण यथा सुभृत्याः । तत्सर्वकार्यकरणव्यवहारसाक्षि सञ्चिन्तयामि सततं भवबन्धमुक्त्यै ॥ ७॥ संन्यस्य कर्मनिचयं च तदङ्गभूतं सूत्रं शिखां च पुनरप्यबलादिरागम् । बोधाय यस्य यतते परिशुद्धचित्त- स्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ८॥ पद्याष्टकं पठति योऽर्थविबोधपूर्वं सञ्चिन्तयन्ननुदिनं प्रतिपाद्यवस्तुम् । भक्त्या युतः कलुषदूरनिजान्तरङ्ग- स्तस्याचिराद्धि भविता भवबन्धमुक्तिः ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं भवबन्धमुक्त्यष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : bhavabandhamuktyaShTakam
% File name             : bhavabandhamuktyaShTakam.itx
% itxtitle              : bhavabandhamuktyaShTakam (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : bhavabandhamuktyaShTakam
% Category              : misc, vedanta, advice, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org