ब्रह्मविद्यापञ्चकम्
नित्यानित्यविवेकतो हि नितरां निर्वेदमापद्य सद्-
विद्वानत्र शमादिषट्कलसितः स्यान्मुक्तिकामो भुवि ।
पश्चाद्ब्रह्मविदुत्तमं प्रणतिसेवाद्यैः प्रसन्नं गुरुं
पृच्छेत् कोऽहमिदं कुतो जगदिति स्वामिन्! वद त्वं प्रभो! ॥ १॥
त्वं हि ब्रह्म न चेन्द्रियाणि न मनो बुद्धिर्न चित्तं वपुः
प्राणाहङ्कृतयोऽन्यदप्यसदविद्याकल्पितं स्वात्मनि ।
सर्वं दृश्यतया जडं जगदिदं त्वत्तः परं नान्यतो
जातं न स्वत एव भाति मृगतृष्णाभं दरीदृश्यताम् ॥ २॥
व्यप्तं येन चराचरं घटशरावादीव मृत्सत्तया
यस्यान्तःस्फुरितं यदात्मकमिदं जातं यतो वर्तते ।
यस्मिन् यत् प्रलयेऽपि सद्घनमजं सर्वं यदन्वेति तत्
सत्यं विध्यमृताय निर्मलधियो यस्मै नमस्कुर्वते ॥ ३॥
सृष्ट्वेदं प्रकृतेरनुप्रविशती येयं यया धार्यते
प्राणीति प्रविविक्तभुग्बहिरहं प्राज्ञस्सुषुप्तौ यतः ।
यस्यामात्मकला स्फुरत्यहमिति प्रत्यन्तरङ्गं जनै-
र्यस्यै स्वस्ति समर्थ्यते प्रतिपदा पूर्णा शृणु त्वं हि सा ॥ ४॥
प्रज्ञानं त्वहमस्मि तत्त्वमसि तद् ब्रह्मायमात्मेति सं-
गायन् विप्रचर प्रशान्तमनसा त्वं ब्रह्मबोधोदयात् ।
प्रारब्धं क्वनु सञ्चितं तव किमागामि क्व कर्माप्यसत्
त्वय्यध्यस्तमतोऽखिलं त्वमसि सच्चिन्मात्रमेकं विभुः ॥ ५॥
इति श्रीनारायणगुरुविरचितं ब्रह्मविद्यापञ्चकं सम्पूर्णम् ।
Encoded by Shankara and P. S. Ramachandran
Proofread by Shankara, PSA Easwaran