चिदम्बरस्तुतिः
%९२
चिदम्बरस्य चिन्ता नो जाड्य्ं हृत्वा व्यदर्शयत् ।
सर्वव्यापकतां तच्च चिन्तनीयं चिदम्बरम् ॥ १॥
उदयास्तमया भावा सती चित्स्वप्रभाद्वया ।
अम्बराभा सुखा तच्च चिन्तनीयं चिदम्बरम् ॥ २॥
सुखं नित्यं निरुत्कर्षं भूमैव निरुपाधिकम् ।
स्वरूपमेव यत्तच्च चिन्तनीयं चिदम्बरम् ॥ ३॥
पायादम्बरलिङ्गं नो यच्चिदम्बरनामकम् ।
शेषशायिप्रभृतिपुन्दोषहारिसुरावृतम् ॥ ४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता चिदम्बरस्तुतिः समाप्ता ।