देवदेवतासद्गुरुध्यानानि
गुरुपरम्परा-
आदिनारायणं विष्णुं ब्रह्माहं च वसिष्ठकम् ।
श्रीरामं मारुतिं वन्दे रामदासं च श्रीधरम् ॥ १॥
श्रीश्रीधर-
नमः शान्ताय दिव्याय सत्यधर्मस्वरूपिणे ।
स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥ २॥
श्रीगणेश-
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ ३॥
श्रीसरस्वती-
सच्चिदानन्दरूपिण्यै भक्तकारुण्यसिन्धवे ।
भवसागरतारिण्यै सरस्वत्यै नमो नमः ॥ ४॥
श्रीशिव-
नमः शिवाय गुरवे सच्चिदानन्दमूर्तये ।
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥ ५॥
श्रीभवानी-
चिदानन्दमयीं दिव्यां आदिमध्यान्तवर्जिताम् ।
आत्मरूपां परां शान्तां भवानीं नौमि सन्ततम् ॥ ६॥
श्रीसूर्य-
सूर्याद्गवन्ति भूतानि सूर्येण पालितानि तु ।
सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च ॥ ७॥
श्रीदत्तात्रेय-
दत्तात्रेयं शिवं शान्तं सच्चिदानन्दमद्वयम् ।
आत्मरूप परं दिव्यमवधूतमुपास्महे ॥ ८॥
श्रीनृसिंह-
सच्चित्सुखस्वरूपाय जगत्कल्याणहेतवे ।
आत्मरूपाय शान्ताय श्रीनृसिंहाय ते नमः ॥ ९॥
श्रीव्यकटेश-
कल्याणाद्भुतगात्राय मोक्षानन्दप्रदायिने ।
श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १०॥
श्रीकृष्ण-
सच्चिदानन्दरूपाय कृष्णाय क्लिष्टकर्मणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ ११॥
श्रीगोविन्द-
सच्चित्सुखनाकारं आदिमध्यान्तवर्जितम् ।
वेदगम्यं परं ब्रह्म गोविन्दं प्रणतोस्म्यहम् ॥ १२॥
श्रीअञ्जनेय-
जगत्कल्याणकार्याय रामभक्तप्रदायिने ।
चिदानन्दाय गुरवे आञ्जनेयाय ते नमः ॥ १३॥
श्रीसमर्थरामदास-
अनन्तबलवीर्याय मोक्षानन्दप्रदायिने ।
सच्चित्सुखस्वरूपाय रामदासाय ते नमः ॥ १४॥
श्रीमल्हारीमार्तण्ड-
दत्तमल्हारिरूपेण राजते यो दिवानिशम् ।
सच्चिदानन्दमद्वन्द्वं श्रीधरं तं नतोस्म्यहम् ॥ १५॥
श्रीगुरु-
आनन्दघनरूपाय नित्यमङ्गलरूपिणे ।
ममाखण्डस्वरूपाय नित्यं श्रीगुरवे नमः ॥ १६॥
श्रीरामचन्द्र-
विश्वोद्गवस्थितिलयादिषु हेतुमेकं
मायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।
आनन्दसान्द्रममलं निजबोधरूपं
सीतापतिं विदिततत्त्वमहं नमामि । १७॥
॥ श्रीसद्गुरुचरणारविन्दाभ्यां नमः ध्यायामि ॥