एकः अनेके
भारतम् । वयं सर्वे एकम् । (तर ...... ) भाषा अनेकाः ।(२)
अनेकाः इत्युक्ते किं अग्रजे ?
अनेकाः इत्युक्ते बहवः ।
बहवः इति किं ?
अस्तु वदामि ।
एकस्सूर्यः । एकश्चन्द्रः । तारा अनेकाः ।
तारायाः अन्यत् नाम अनेकाः ?
न न । पुनः वदामि ।
एकस्सूर्यः । एकश्चन्द्रः । एका एका एका मिलित्वा तारा अनेकाः ।
सम्यक् वदतु अग्रजे ।
पश्य पश्य एकस्चिक्रोडः । पुरतः चिक्रोडा अनेके ।
चित्रपतङ्गः । अन्यचित्रपतङ्गः ।
एकः एकः एकः मिलित्वा इदानीं अत्र चित्रपतङ्गाः ।
अवगच्छामि अग्रजे ।
एका अङ्गुली । अनेका अङ्गुल्यः ।
आम् ।
अग्रजे अग्रजे पश्य अनेके खगाः ।
खगानां कथां श्रुणोषि किं ?
आं आम् ।
अ ...... अ । खगः एकः । एकेनैकः मिलित्वा खगा अनेके ।
धान्यं खादितुं खगा आगताः ।
अग्रजे अस्मान् अपि श्रावयतु ।
अस्तु शृण्वन्तु ।
खगः एकः । खगा अनेके । धान्यं खादितुं खगा आगताः ।
हे ईश्वर । किन्तु तत्र व्याधः जालं प्रसारयति ।
व्याधः ? व्याधः कः अग्रजे ?
पक्षिग्राहकः ।
अनन्तरं किं अभवत् अग्रजे ? व्याधः खगान् गृहीतवान् ? मारितवान् ?
धैर्येण वयं आचरामः अल्पाश्चेदपि मिलामः तर्हि
सर्वमपि साधयामः (अनुज) (२)एकं द्वे त्रीणी
खगाः चतुराः । अल्पाश्चेदपि सर्वे मिलित्वा जालं नीत्वा सहैव डयन्ते ।
फुर ..... ।
दूरे एकस्मिन् ग्रामे खगानां मित्राणि मूषकाः वसन्ति स्म ।
ते जालात् खगानां विमोचनं कृतवन्तः ।
अतः अवगच्छत यूयं यदि मिलित्वा कार्यं कुरुथ तर्हि कार्यसिद्धिः भवति ।
अग्रजे अहं वदामि । एकता शक्तिप्रदात्री । एकता बलप्रदात्री ।
एकता धैर्यप्रदात्री ।
अग्रजे, यदि वयं मिलामः तर्हि बृहत् कार्यं कर्तुं शक्नुमः ?
आं आं किमर्थं न ?
अस्मात् वृक्षात् आम्राणि लुञ्चितुं शक्नुमः ?
आं लुञ्चितुं शक्नुमः । किन्तु युक्तिः करणीया
अस्तु एषा युक्तिः । आनन्देन कुर्म ।
भारतस्य जनाः सर्वे एकं (२)। वर्णरूपवेषभाषा अनेकाः प्रायः (२)।
Popular Indian Doordarshan Children's documentary in Samskritam.
It teaches singular and plural. And also has a popular story on unity.
It promotes unity and diversity.
Encoded and proofread by Usha Jayaraman