गङ्गे वहसि कथम्
विस्तीर्णप्रतीरे असङ्ख्यनृकृते
हाहाःकारेऽपि, निःशब्दन् निःस्पृहम् -
लोहित्य कथम् लोहित्य वहस्यनिशम्?
(भो गङ्गे कथम् नु गङ्गे वहस्यनिशम् ?)
नैतिकताम् प्रस्खलिताम्
मानवताम् च अधोगताम् -
प्रेक्ष्यापि निर्लज्जम्
वहसे कथम् ?
ज्ञानहीने अक्षररहिते,
लक्ष्यमाणेऽपि निरञ्जने
मौनञ्च कुतस्तन्- नेतृहीने ?
सहस्रवर्षैः ऐतिह्योदीरितैः च
मन्त्रैः पुनः पङ्गुमानवम्
(मन्त्रैः पुनः नव्यभारतम्) -
सुसाङ्ग्रामिकं, सर्वाग्रगमं
करोषि न किमर्थम् ?
व्यक्तौ ह्यदि स्याद् व्यक्तिवादः
समाजो भूयः व्यक्तितत्त्वहीनः -
कस्मात् न प्रध्वंससे स्रस्तजनान् ? (स्वस्त त्रस्त?)
त्वं हि यदि ब्रह्मणः पुत्रः -
(त्वं हि यदि जह्नुनन्दिनी)
तत् पितृत्वम् किल नाममात्रम्,
नो चेत् न प्राणेषु
प्रेरणा कथम् ?
उन्मत्तधराम् कुरुक्षेत्ररूपाम्
आलिङ्ग्य हि घोरं न निद्रायमाणम् -
भीष्मसमम् अजस्रवीरम्
(भीष्मसमम् भारतप्रसृतम्)
जागरयसि कथम्?
--- मूल रचना डाॅ भूपेन हजारिका
संस्कृत रूपान्तर रंजन बेजबरुवा