हिमगिरिशृङ्गं उत्तुङ्गम्
हिमगिरिशृङ्गं उत्तुङ्गं
भारतमातुर्मणि मकुटम् ।
गङ्गा-यमुना-सिन्धु-सरस्वती
प्रवहति मातुर्हृदयतटम् ॥ ध्रुवपदम् ॥
काश्मीरादि महोन्नतदेशे विकसन्त्यधुना कुसुमानि ।
गायन्त्यचिरात् तानि सुमानि
वन्दे-मातर-गानानि वन्दे-मातर-गानानि ॥ १॥
वन्दे मातरं सुजलां सुफलां मलयजशीतलां
आरब-वंङ्ग-महोदधिनायुत
हिन्दुसमुन्द्रो स्तौति चिरं ताम् ।
तस्य तरङ्गकरेण हारेण
अर्च्यते मम भारतमात ॥ २॥
- अय्यम्पुपुष हरिकुमारः
Composed by Ayyampuzha Harikumar