होममन्त्रम्
ॐ
१ अग्ने तव यत्तेजस्तद् ब्राह्मम् ।
२ अतस्त्वं प्रत्यक्षं ब्रह्मासि ।
३ त्वदीया इन्द्रियाणि मनो ।
४ बुद्धिरिति सप्तजिह्वाः ।
५ त्वयि विषया इति समिधो जुहोमि ।
६ अहमित्याज्यं जुहोमि ।
७ त्वं नः प्रसीद प्रसीद ।
८ श्रेयश्च प्रेयश्च प्रयच्छ स्वाहा ।
ॐ शान्तिः शान्तिः शान्तिः ।
इति श्रीनारायणगुरुविरचितं होममन्त्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran