जातिसम्बन्धं ब्रह्मवैवर्तपुराणान्तर्गतम्
पिता तातस्तु जनको जन्मदाता प्रकीर्तितः ।
अम्बा माता च जननी जनयित्री प्रसूरपि ॥ १३९॥
पितामहः पितृपिता तत्पिता प्रपितामहः ।
अत उर्ध्व ज्ञातयश्च सगोत्राः परिकीर्तिताः ॥ १४० ॥
मातामहः पिता मातुः प्रमातामह् एव च ।
मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः ॥ १४१ ॥
पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही ।
तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही ॥ १४२ ॥
मातामही मातृमाता मातृतुल्या च पूजिता ।
प्रमातामहीति ज्ञेया प्रमातामहकामिनी॥ १४३ ॥
वृद्धमातामही ज्ञेया तत्पितुः कामिनि तथा ।
पितृभ्राता पितृव्यश्च मातृभ्राता च मातुलः ॥ १४४ ॥
पितृष्वसा पितुर्मातृष्वसा मातुः स्वसा स्मृता ।
सूनुश्च तनयः पुत्रो दायादश्चाऽत्मजस्तथा॥ १४५ ॥
धनभाग्वीर्यजश्चैव पुंसि जन्ये च वर्तते ।
जन्यायां दुहिता कन्या चाऽऽत्मजा परिकीर्तिता ॥ १४६ ॥
पुत्रपत्नी वधूर्ज्ञेया जामाता दुहितुः पतिः ।
पतिः प्रियश्च भर्ता च स्वामी कान्ते च वर्तते ॥ १४७ ॥
देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा ।
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥ १४८ ॥
भार्या जाया प्रिया कान्ता स्त्री च पत्नी प्रकीर्तिता ।
पत्निभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका ॥ १४९ ॥
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ।
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ॥ १५० ॥
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः ।
आवुत्तो भगिनीकान्तो भगिनीपतिरेव च ॥ १५१ ॥
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ।
श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥ १५२ ॥
अन्नदाता भयत्राता पत्नीतातस्तथैव च ।
विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥ १५३ ॥
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी ।
माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ॥ १५४ ॥
मातुर्माता पितुर्माता श्वश्रूःपित्रोः स्वसा तथा ।
पितृव्यस्त्री मातुलानी मातरश्च चतुर्दश ॥ १५५ ॥
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च ।
तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः ॥ १५६ ॥
कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बान्धवाः ।
भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥ १५७ ॥
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः ।
गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः ॥ १५८ ॥
गुरुकन्या च भगिनी पोष्या मातृसमा मुने ।
पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ॥ १५९ ॥
पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः ।
कन्यायाः श्वशुरे चैव तत्संबन्धः प्रकीर्तितः ॥ १६० ॥
गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवाः ।
गुरुश्वशुरभ्रातृणां गुरुतुल्यः प्रकीर्तितः ॥ १६१ ॥
बन्धुता येन सार्धं च तन्मित्रं परिकीर्तितम् ।
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ॥ १६२ ॥
बान्धवो दुःखदो दैवान्निःसंबन्धोऽसुखप्रदः ।
संबन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले ॥ १६३ ॥
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः ।
मित्रं तु प्रीतिजं ज्ञेयं स संबन्धः सुदुर्लभः ॥ १६४ ॥
मित्रमाता मित्रभार्या मातृतुल्या न संशयः ।
मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ॥ १६५ ॥
चतुर्थं नामसंबन्धमित्याह कमलोद्भवः ।
जारश्चोपपतिर्बन्धुर्दुष्टसंभोगकर्तरि ॥ १६६ ॥
उपपत्न्यां नवज्ञा च प्रेयसि चित्तहारिणी ।
स्वामितुल्यश्च जारश्च नवज्ञा गृहिणीसमा ॥ १६७ ॥
संबन्धो देशभेदे च सर्वदेशे विगर्हितः ।
अवैदिको निन्दतस्तु विश्वमित्रेण निर्मितः ॥ १६८ ॥
दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते ।
अकीर्तिजनकः पुंसां योषितां च विशेषतः ॥ १६९ ॥
तेजीयसां न दोषाय विद्यमाने युगे युगे ॥ १७० ॥
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे
जातिसंबन्धनिर्णयो नाम् दशमोऽध्यायः ॥ १०॥
Encoded and proofread by
Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com