जय भारति! वन्दे भारतीम्!
जय भारति! वन्दे भारतीम्!
शिरसि हिमवतः छत्रो हि
चरणे च नद्यः एकत्र हि
हस्ते च वेदानां पत्रं हि
देशस्त्वये! नोऽन्यत्र हि
जय भारति! वन्दे भारतीम्!
धूम्रेण पावनं व्योम हि,
गेहे गेहे सुशोभते होमो हि
पुलकितं अस्मदीयं रोम हि
आदिरनादिः शब्दः ``ॐ'' हि ॥ जय भारति!
यद्देशे ह्यजायत रामो हि,
गीतां श्रावयति श्यामो हि,
पावयन्ति चतुर्धामानि
स्वर्गोऽपि लज्जते वै अत्र हि ॥ जय भारति!
जय भारति! वन्दे भारतीम्!
वन्दे मातरम् ! वन्दे मातरम्!
जय भारती, वन्दे भारती इति हिन्दीगीतस्य
संस्कृतानुवादः - रंजन बेजबरुवा
अनुवाद-सम्पादनाः डाॅ. नारायण दत्त मिश्रः (नवदहेली)
A famous Patriotic song originally sung in
Hindi by Bharat Ratna Lata Mangeshkar in the
Film `Jagadguru Sankaracharya'
मूलरचना- भारत-व्यासः,
सङ्गीतम्- अविनाशः व्यासः
चलच्चित्रम्- जगद्गुरुः शङ्कराचार्यः
Ranjan Bezbaruah ranjanbezbaruah at gmail.com