जयोऽस्तु ते श्रीमहन्मङ्गले
जयोऽस्तु ते श्रीमहन्मङ्गले शिवास्पदे शुभदे ।
स्वतन्त्रते भगवति! त्वामहं यशोयुतां वन्दे ॥ ध्रु॥
राष्ट्रस्य चैतन्यमूर्तिस्त्वं नीतिः सम्पदां च ।
स्वतन्त्रते भगवति! श्रीमती राज्ञी त्वं तासाम् ॥
परवशतायाः नभसि त्वं हि आकाशे निवसन्ती ।
स्वतन्त्रते भगवति ।
चन्द्रिका नितरां प्रभासि ॥ १॥
कपोलोपरि कुसुमीयो वा, कुसुम-कपोले वा ।
स्वतन्त्रते भगवति! त्वं हि यः विलसति सः रक्तिमा ।
त्वं सूर्यस्य तेजः, वारिधेः गाम्भीर्यमपि त्वम् ।
स्वतन्त्रते भगवति! अन्यथा ग्रहणबाधितौ तौ ॥ २॥
मोक्षः मुक्तिश्च तवैव रूपे, त्वामेव वेदान्ते ।
स्वतन्त्रते भगवति! योगिनः परब्रह्म वदन्ति ॥
स्वतन्त्रते भगवति सर्वं तव सहचारि आसीत् ॥ ३॥
हे अधमरक्तरञ्जिते, सुजनपूजिते ।
श्री-स्वतन्त्रते श्री-स्वतन्त्रते श्री-स्वतन्त्रते ।
त्वदर्थं मरणं जननं त्वां विना हि जननं मरणम् ।
त्वां सकल-चराचरं शरणम्, चराचरं शरणम् ।
श्री-स्वतन्त्रते श्री-स्वतन्त्रते श्री-स्वतन्त्रते ।
जयोऽस्तु ते श्रीमहन्मङ्गले ॥ ४॥
स्वातन्त्र्यवीर सावरकरविरचितं मराठी गीतस्य संस्कृतानुवादः
जयोऽस्तु ते संस्कृतानुवाद - राजेन्द्र भावे
Translated from Hindi to Sanskrit by Rajendra Bhave