ज्ञानतीर्थस्तोत्रषट्पदी
%६७
विशुद्धविज्ञानमहावाक्यार्थालोचनस्त्रुतम् ।
अन्त्यात्माकारवृत्त्यात्मज्ञानतीर्थं पुनातु माम् ॥ १॥
रागद्वेषमुखामात्मगतदोषान्विधूय यत् ।
सत्त्वशुदिन्ध विधत्तेन्तर्ज्ञानतीर्थं पुनातु माम् ॥ २॥
यत्केवलं सजातीयात्मप्रवाहोपबृंहितम् ।
उत्पाटयत्यविद्याद्रून्ज्ञानतीर्थं पुनातु माम् ॥ ३॥
श्रद्धावति विसन्देहे तत्परे विजितेन्द्रिये ।
उदेति शान्तिदं यत्तज्ज्ञानतीर्थं पुनातु माम् ॥ ४॥
यतस्वयं योगसंसिद्धे कालेनोदेति निर्मलम् ।
पवित्राणां पवित्रं तज्ज्ञानतीर्थं पुनातु माम् ॥ ५॥
हृदयग्रन्थिभित्सर्वसंशयच्छिच्च कर्महृत् ।
शोकमोहनुदाश्वोतज्ज्ञानतीर्थं पुनातु माम् ॥ ६॥
षट्पदीयं मदीयास्यपद्मे तिष्ठतु सर्वदा ।
गुर्वभिन्नेशभक्त्याभज्ञानतीर्थसमाह्वया ॥ ७॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं ज्ञानतीर्थषट्पदीस्तोत्रं सम्पूर्णम् ।