ज्योतिर्विद्याविवेकः

ज्योतिर्विद्याविवेकः

लेखकः - नन्दप्रदीप्तकुमारः सिद्धान्त-संहिता-होरारूपस्कन्धत्रयात्मने । नमो ज्योतिः स्वरूपाय निगमागमचक्षुषे ॥ इदं संस्कृतवाङ्मयं विश्ववाङ्मयसमुदाये मूर्द्धन्यमिति वचनं सर्वथा युक्तियुक्तं सत्यञ्च । अस्य सर्वांगपूर्णं कलेवरं सर्वानपि विश्वजनान् विस्मापयतीति नैवात्युक्तिः । वेदस्य षडंगेषु ज्योतिषं हि नयनमिति स्तिरीकृतम् । यच्चोक्तं भास्कराचार्यैः- ``वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चांगमध्येऽस्य तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिः चक्षुषांगेन हीनो न किञ्चित्करः '' ॥ इति । अन्यत्र लगधेनापि अस्य श्रेष्ठत्वं प्रमाणीकृतम् । यथोक्तं- ``यथा शिखा मयूराणां नागानां मणयो यथा । तद्वत्वेदांगशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ''॥ (वे. ज्यौ। -४) अनेन शुभाशुभफलकथनपुरःसरं शास्त्रमिदं महत्वपूर्णं वरीवर्ति । तिथिवारमुहूर्तादिकं ज्ञातुं यज्ञीयकार्ये उपयुक्तसमयनिर्धारणे च अस्य प्रयोजनं मुख्यमेव प्रतिभाति । निखिलेऽस्मिन् गगनमण्डले यानि तेजोमयानि ग्रह-नक्षत्रविम्बानि गतिमयानि दृश्यन्ते तानि समष्टिरूपेण ज्योतिः शब्देनोच्यन्ते । तेषु सदैकरूपगतीनि नक्षत्राणि । दैनिकभिन्नगतियुक्तानि तु ग्रहसंज्ञकानि ज्योतींषि भवन्ति । अन्यार्थेन सूर्यादीनां गतिरेवात्र ज्योतिः । ज्योतिस् शब्दान्मत्वर्थीये अचि प्रत्यये कृते ज्योतिषशब्दो निष्पन्नो जातः । तदधिकृत्य कृतो ग्रन्थो जौतिषः सूर्यसिद्धान्तादिः । तदधीते तद्वेद वा ज्यौतिषिकः । केचिज्ज्योतिर्विद्यारूपेऽर्थे ज्योतिषमिति शब्दं रूढमिति वदन्ति । आकाशीयज्योतिषु दृश्यादृश्यमानेषु केचन अमृतमयकिरणाः, केचिद्विषमयकिरणाः, अपरे केचिदुभयमिश्रकिरणाः, केचिच्च उभयधर्महीनकिरणाः स्मृताः । एवंविधनक्षत्रग्रहतारकादिज्योतिःपुञ्जानां स्थिति-गति-प्रभावादिवर्णनात्मकं खलु ज्योतिषशास्त्रं वेदांगत्वेन स्थिरीकृतं भारतीयैः विद्वभिः । मानवः सर्वदा सुखमभिलषति । तदीयं समस्तकार्यं सफलं भवतु शुभे समये भवतु इत्यभिलाषं तस्य मनसि यदा जातं तदा तेन ज्योतिःशास्त्रमन्वेषीकृतम् । केनोपायेन अनिष्टकारिण्यो दारुणा घटिकाः तं न निपातयेयुः तं प्रति आशंकां न सञ्चारयेयुः इति विषये कृत्स्नतया ज्ञानमधिगन्तुं तस्य सर्वदा इच्छा बलवती जाता, येन ग्रहादिजनितबाधाऽऽगमनात् प्रागेव तत्प्रतिबन्धकरूपकं ज्ञानं लब्धुं तेन सर्वदा संचेष्ट्य मानवजीवने ज्यौतिषस्य आवश्यकता स्थिरीकृता निश्चिता । कस्मिन् समये का घटना घटेत्, कदा विपदः सम्भावनास्ति, कदा भाग्योदयो भवेत्, कदा रोगादिकं नश्यन्ति इत्यादिकं निखिलजिज्ञासायाः अन्तः केवलं ज्योतिषशास्त्रं हि करोति । एतस्मात्कारणात् वेदचक्षुःरूपमिदं शास्त्रं सर्वेषां मानवजातीनां कृते नितान्तं प्रियमस्ति । वैदिकसंहितेभ्यः ज्योतिःसूत्रं गृहीत्वा लगधनामा कश्चित्मुनिः प्राक् अस्य शास्त्रस्योद्भावनं चकार । तत्प्रणितो वेदांगज्योतिषाख्यो ग्रन्थः ज्योतिर्विद्यायाः प्रथमत्वेन स्थिरीकृतः । चतुर्णामपि वेदानां पृथक् पृथग् ज्यौतिषशास्त्रमासीत् । संप्रति सामवेदस्य ज्योतिषं नोपलभ्यते । ऋग्वेदस्य ज्यौतिषम् आर्चज्यौतिषम्, षट्त्रिंशत्पद्यात्मकम् । यजुर्वेदस्य याजुषज्यौतिषम्, ऊनचत्वांरिशत्पद्यात्मकम् । अथर्ववेदस्य आथर्वणज्यौतिषम्, द्विषष्ट्युत्तरशतपद्यात्मकम् । एतेषां त्रयाणां ज्योतिषाणां कर्तास्ति लगधाचार्यो निःसन्देहः । कोऽयं लगधः ? इति विषयं वक्तुं संप्रति न कोऽपि सक्षमः । यद्भवतु यज्ञविधानाय इदं शास्त्रारम्भ इति भास्कराचार्येण स्वीकृतम् । यच्चोक्तं सिद्धान्तशिरोमण्यां- ``वेदास्तावत् यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्यात् वेदांगत्वं ज्यौतिषस्योक्तमस्मात् ''॥ इति ज्योतिषशास्त्र प्रवर्तकाः सूर्यादयोऽष्टादश ऋषयः स्मर्यन्ते । यदुक्तं काश्यपसंहितायां नामानि- ``सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः । कश्यपो नारदो गर्गो मरीचिर्मनुरंगिराः ॥ रोमशः पौलिशश्चैव च्यवनो यवनो भृगुः । शौनकोऽष्टादशाश्चैते ज्योतिःशास्त्रप्रवर्तकाः ''॥ इति । शास्त्रमिदमतिपुरातनमस्ति । अस्य शास्त्रस्य मूलबीजानि वेदेषु दृष्टानि भवन्ति । तत्र- ``एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे'' ``प्रातः जुहोति, सायं जुहोति'' (तै०आ०-२/१/२) ``एकाष्टकायां वीक्षेरन् फाल्गुनीपूर्णमासे दीक्षेरन्'' (ता०ब्रा०-५/९/१७) इत्यादिषु मन्त्रेषु गणितादिसिद्धान्तानां वर्णनं मिलति । वेदांभूतस्य ज्योतिर्विज्ञानस्य साहित्यं तु अतीव विशालम् । वेदांगज्यौतिषस्य पश्चात् ये आचार्याः अस्मिन् शास्त्रे कृतभुरिपरिश्रमाः कृतास्तेषु वराहमिहिरः, आर्यभट्टः, ब्रह्मगुप्तः, लल्लाचार्यः, उत्पलाचार्यः, श्रीपतिः, भोजदेवः, भास्कराचार्यः, केशवः, गणेशदैवज्ञः, ज्ञानराजः, कमलाकरादयश्च उदीयमाना भवन्ति । इमे आचार्याः ज्योतिश्शास्त्रसम्बन्धीयान् उत्तमोत्तमान् ग्रन्थान् विरचितवन्तः । आर्षेषु अष्टादशाचार्याः सिद्धान्तग्रन्थाः कृतवन्तः । एतदतिरिक्ताः गौरीजातकादि दैवग्रन्थाः, पराशर-जैमिनीकृताः आर्षग्रन्थाः, वराहमिहिरादिकृताः पौरुषग्रन्थाः दृष्टिपथे विलसन्तितमाम् । शास्त्रमिदं संहितागणितजातकाख्येषु त्रिषु भागेषु आत्मानं प्रकटीचकार । यज्ञादीनां प्राकृतविधानं समुचितकाले करणीयमिति निर्द्दिश्य शास्त्रोद्भावनं सर्वादौ वेदेषु निहितम् । यज्ञविधानस्य उपयुक्तं कालं निर्दिशति ज्योतिषम् । एतस्मादस्य कालविधायकमिति नामान्तरं श्रूतम् । यदुक्तमस्य महिम्नि- ``वेदस्य निर्मलं चक्षुः ज्योतिश्शास्त्रमकल्मषम् । विनैतदखिलं श्रौतं स्मार्तं कर्म न सिद्ध्यति'' ॥ इति । ज्योतिषशास्त्रस्य विषयास्त्रयः । तन्त्रं संहिता होरा चेति । सिद्धान्तो नाम तन्त्रम् । इदं गणितशास्त्रं बीजगणितं पाटीगणितभेदेन द्विविधं ग्रहगतिसम्बन्धीतम् । होरा तु जातक-ताजिकभेदेन द्विविधा । इयमेव फलितज्योतिषनाम्ना परिचिता । संहिताग्रन्थः कालचक्रं विवृणोति, मुहूर्तादिविषयान् उत्थापयति । तत्र सिद्धान्तग्रन्थेषु आर्षत्वेन सूर्यसिद्धान्तः प्रसिद्धः । पश्चात् आर्यभट्टस्य आर्यभटीयम्, लल्लस्य शिष्यधीवृद्धिदतन्त्रम्, वराहमिहिरस्य पञ्चसिद्धान्तिका, ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्तः, श्रीपतेः सिद्धान्तशेखरः,भास्करस्य सिद्धान्तशिरोमणिः, गणेशस्य ग्रहलाघवम्, कमलाकरस्य सिद्धान्ततत्त्वविवेकः, शतानन्दस्य भास्वतिः, सामन्तचन्द्रशेखरस्य सिद्धान्तदर्पणः प्रमुखाः सैद्धान्तिका ग्रन्थाः । होराग्रन्थेषु बृहत्पराशरहोरा आर्षत्वेन सुविदिता । वराहस्य बृहज्जातकम्, वैद्यनाथस्य जातकपारिजातः, नीलकंठस्य ताजिकनीलकंठी, जीवनाथस्य भावकुतूहलम्, गणेशस्य जातकालंकारः प्रधानाः ग्रन्थाः सन्ति । संहितातु भृगुसंहिता, कश्यपसंहिता, गर्गसंहिता, नारदसंहिता च आर्षाः । वराहस्य बृहत्संहिता, कल्याणवर्मणः सारावली, नारायणस्य मुहूर्तमार्तण्डः, रामस्य मुहूर्तचिन्तामणिः एवं नरपतेः नरपतिजयचर्या स्वरोदयादि ग्रन्थाश्च मान्याः परिगणिताः । एतदतिरिक्ताः केरलमतप्रतिपादकाः केचन रमलचिन्तामणिः रमलामृतप्रभृतयो ग्रन्थाः, प्रश्नज्ञानसम्बलिताः ताजिकनीलकंठी, ताजिकभूषणपद्धतिः, ताजिकतन्त्रसारप्रभृतयश्च दृष्टिपथे विचरन्ति । शकुनशास्त्रं संहितास्कन्धभूतम् । अपि च हस्तरेखादिसम्बलितं सामुद्रिकशास्त्रं स्वरशास्त्रं, शिल्पकलासंयुक्तं वास्तुशास्त्रमपि ज्योतिर्विज्ञानेषु उपनिवद्धा अन्तर्भूताः दृश्यन्ते । निष्कर्षमेतत् इदं विज्ञानं प्रथमं ब्रह्मणा यज्ञप्रवर्तनाय सृष्टम् । शिष्यपरंपरानुसारेण बुधैर्गृहीतम् । तदेवार्यभट्टेन प्रकाशितं वराहमिहिरेण च विवेचितमिति शास्त्रं संप्रति मानवजातीनामशेषकल्याणं साधयति, साधयिष्यति च । इत्यलं पल्लवितेन । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Jyotirvidya Vivekah
% File name             : jyotirvidyAvivekaH.itx
% itxtitle              : jyotirvidyAvivekaH (lekhaH)
% engtitle              : jyotirvidyAvivekaH
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org