कृषीवलगीतम्
कृषीवलोऽहं विख्यातेऽस्मिन् मम भारतदेशे ।
सर्वेषामभ्युदयं कर्तुं सततमहं प्रयते ॥ ध्रु.॥
इयं मदीया भारतमाता तस्याः सुसुतोऽहम् ।
व्रतं गृहीतं तत्सेवाया एतन्मेऽभितम् ॥ १॥
उटजं क्षेत्रं वृषभावेतौ कपिला धेनुरियम् ।
क्षेत्रं वापी जलपरिपूर्णा सर्वं मे सुधनम् ॥ २॥
सर्वकार्यपरतन्त्रे नगरे सौख्यं को लभते ?
स्वावलम्बनात् सर्वं मन्ये सुलभं मम हस्ते ॥ ३॥
यत्नं कृत्वा धनं लभेऽहं सुलभा मे निद्रा ।
उद्यमशीलाः सततं वर्ते न च कदापि तन्द्रा ॥ ४॥
सत्यमहिंसा दीर्घोद्योगो जनसेवा सततम् ।
राष्ट्राभ्युदयं कामयमाना आदिशक्तितत्त्वम् ॥ ५॥
विद्या-संस्कृति-शास्त्रकलानां महदाद्यं स्थानम् ।
सर्वाग्रसरं सदा विजयतां मम भारतराष्ट्रम् ॥ ६॥
- (सं) लक्ष्मीकान्तजाम्बोरकरः