कलहप्रियः नारदः
श्रीगर्ग उवाच -
एवं ते व्यासवचनात्सपत्नीका द्विजा नृपाः ॥ १॥
आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः ।
देवकीं रोहिणीं कुन्तीं गान्धारीं च यशोमतीम् ॥ २॥
पुरस्कृत्य तु जग्राह कुम्भो भैष्म्या युतो हरिः ।
तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥ ३॥
सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः ।
रुक्मिण्या सहितं यान्तं कृष्णं दृष्ट्वा समागमे ॥ ४॥
नारदः कलहं कर्तुं सत्यभामागृहं ययौ ।
दृष्ट्वा चैकां हरेर्भार्यां सम्पृष्टः स तयाब्रवीत् ॥ ५॥
नारद उवाच -
आदरं सदने नास्ति सत्राजितसुते तव ।
गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥ ६॥
बहुभिर्याचिता त्वं तु पारिजातकहारिणी ।
कृष्णसङ्कल्पकरणी मणियुक्ता च मानिनी ॥ ७॥
ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् ।
विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥ ८॥
यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः ।
सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥ ९॥
गर्ग उवाच -
इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥ १०॥
रुरोद दुःखिता राजन्सत्यभामा रुषान्विता ।
तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥ ११॥
सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् ।
गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥ १२॥
न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये ।
आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥ १३॥
इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता ।
भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥ १४॥
गत्वा जाम्बवतीगेहं तस्याग्रे सर्वमब्रवीत् ।
श्रुत्वा हसन्ती सा प्राह मृषा मा वद हे मुने ॥ १५॥
करोति शयनं गेहे श्रीनाथो भोजनान्तरे ।
इति श्रुत्वा शङ्कितस्तु त्वरं निर्गत्य नारदः ॥ १६॥
मित्रविन्दागृहे गत्वा प्रत्युवाच विलोकयन् ।
नारद उवाच -
न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥ १७॥
आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः ।
भैष्मीं सत्यां जाम्बवतीं सह नेष्यति तत्र वै ॥ १८॥
मित्रविन्दोवाच -
केशवस्य प्रियाः सर्वा गन्तासौ यां विहाय च ।
सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥ १९॥
ततो मुनिः समुत्थाय सर्वाणि मन्दिराणि च ।
बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥ २०॥
पुनर्विचार्य देवर्षिर्गोपीनां मन्दिराणि च ।
प्रययौ कथितुं वार्तां राधिकायै च मानद ॥ २१॥
तत्र दीव्यन्तमक्षैश्च राधया नन्दनन्दनम् ।
गोपीभिः सहितं वीक्ष्य ऋषिर्गन्तुं मनो दधे ॥ २२॥
तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् ।
तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥ २३॥
श्रीकृष्ण उवाच -
किं करिष्यसि विप्रेन्द्र वृथा भ्रमसि मोहितः ।
गेहे गेहे स्वपत्नीएनां मया त्वं तु विलोकितः ॥ २४॥
मया धृतानि रूपाणि त्वद्भयादृषिसत्तम ।
नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥ २५॥
सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः ।
ये द्रुह्यन्ति द्विजान्मूढाः सन्ति ते मम शत्रवः ॥ २६॥
ये पूजयन्ति विप्रांश्च मम भावेन भूजनाः ।
ते भुञ्जन्ति सुखं चात्र ह्यन्ते यास्यन्ति तत्पदम् ॥ २७॥
मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः ।
सर्वे मुह्यन्ति देवर्षे ब्रह्मरुद्रादयः सुराः ॥ २८॥
इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः ।
आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥ २९॥
अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः ।
रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥ ३०॥
नारीणां चैव वृन्देन गायन्तीनां हरेर्यशः ।
वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥ ३१॥
पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः ।
कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥ ३२॥
ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः ।
नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥ ३३॥
धारयन्ति कथं कुम्भं पुष्पभारेण पीडिताः ।
ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥ ३४॥
कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना ।
रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥ ३५॥
हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन ।
सबलस्त्वं चक्रधारी ह्यस्मान्पालय सङ्कटे ॥ ३६॥
एवं ब्रुवन्त्यो जगृहुः सकलान्भारवर्जितान् ।
स्वे स्वे शिरसि सन्धाय संयुक्तैर्मणिमौक्तिकैः ॥ ३७॥
यज्ञवाटं समाजग्मुर्नार्यः शीघ्रं सभर्तृकाः ।
यत्र भेर्यश्च शङ्खाद्या वाद्यन्ते पणवादयः ॥ ३८॥
आनीय गोमतीतोयं प्रापितास्तत्र ते नृप ।
श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥ ३९॥
इति श्रीगर्गसंहितायां हयमेधखण्डे
गोमतीजलानयनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 27-65
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran