मानसोल्लसस्तुतिः श्रीमदप्पय्यादीक्षितेन्द्रैः विरचिता
Introduction:
This is a short poem by the famous author. It consists
of seventeen verses and is construced in the form of
advice to the mind. The poet finds that the mind is now
fully preoccupied with the affairs of the world,
family and friends to the extent that it is unable
to think of the consequences of such preoccupation.
The poem points out the consequences and also the way
to escape them. The remedy is to start thinking of
Lord Siva and worship Him. One may continue to attend
to personal matters but, should, at the same time engage
the mind in thinking of the Lord. This will bring in
all the prosperity one requires for a good life.
It will also confer ever lasting peace which one
cannot find by being busy with the world. It is common
to find saints and devotees addressing their mind and
also other organs like the eyes to turn to the Lord
for escape from the stresses and strain that the
worldly life brings in its wake.
Some examples are given here.
1) Mana sambodha niyamanam - 10 verses by
Bhartruhari in his Vairagya shatakam.
2) Manache Sloka of Sri Samartha Ramadasa of Maharashtra.
This work is in Marathi language and has 205 verses.
3) Manoniyamanam (मनोनियमनम् ।) by Saint
Sadasiva Brahmendra is a small but beautiful poem
consisting of 13 verses addressed to the mind.
4) The saint has also composed many songs that address
the mind, the tongue etc.
Some are:
(1)Bhaja re Gopalam manasa. (भज रे गोपालम् मानस ।)
(2)Smara varam chetah smara Nanda Kumaram.
(स्मर वारं चेतः स्मर नन्दकुमारम् ।)
(3)Bruhi Mukundeti Rasane (ब्रूहि मुकुन्देति रसने ।)
(4)Manasa sancharare (मानस संचर रे)
(5)Bhaja re Yadhunatham (भज रे यदुनाथम् ।).
5) The saint Kulasekhara also addresses the organs in his
Mukundamala. One of his popular poems is given here.
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चयाच्युतकथा-श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरे-र्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्द-पाद-तुलसीं मूर्धन् नमाधोक्षजम् ॥
Now let us go to the poem proper.
॥ श्री शिवमस्तु ॥
अयि भ्रातश्चेतः परममुपदेशं श्रुणु मम
स्मरारेरर्चायां पटुषुकरणेषु स्मर फलम् ।
तवैषां प्रेष्याणामुपरतिकृतिश्रान्ति महति
त्वायैकेन श्वासप्रशमसमये किन्नु सुकरम् ॥ १॥
अतिस्थेमस्फीतानपि शिखरिणः पश्य चलितान्
कियंतं वा कालं किसलयमृदु स्थास्यति वपुः ।
असारेऽस्मिन्पूजांअयि हृदय शंभोर्न कुरुषे
कदेदृक् ते लभ्यं कथय जड तंत्रोपकरणम् ॥ २॥
इदानीमत्यल्पेष्वयि हृदय कार्येष्वति महान्
इयान् व्यासंगस्ते न कलयसि येन स्मररिपुम् ॥
अतिक्रंदद्बंधुव्यसनजलधावर्ति समये
कियानागंता ते शिव शिव हतोस्म्येव भवता ॥ ३॥
अये चेतश्शास्त्राण्यधिकमवगूढान्न्यपि
मुधा न यद्यासज्जेथाः पशुपतिपदांभोजभजने ।
तदित्थं भोक्तव्यं खलु पुनरपि प्रेत्य भुवने
महद्दुःखं वर्णग्रहणसमयोपक्रममिदम् ॥ ४॥
कियंतो ना भूवन् हृदयपरमप्रेमविषयाः
पुराजन्मस्वद्य क्व गतमिति जानासि किमु तान् ।
वृधा मोहं ब्ंधुष्वहितपरिणामं त्यज सखे
यदासेवादोषात् स्मरसि न कदाऽपि स्मररिपुम् ॥ ५॥
अमी चेत् पुत्राद्या-स्तव भृशतरं प्रेमविषयाः
भविष्यन्तो न स्युः किमु जड तथा भाविजनने ।
सदेव त्वय्येवं समुपजनिताक्षत्रयहते
कदा शंभोश्चिन्ता भवति भवभीतिप्रशमनी ॥ ६॥
अनापृच्छ्य ज्ञाती-नवश रुदितोच्छून-नयनान्
गतिःका न-स्तातेत्यति-करुणमग्रे विलुटितान् ।
अवश्यं गन्तव्यं खलु तदहितानामपि पुरस्त-
दद्यैव स्नेहं त्यज हृदय तेष्वर्च्च गिरिशम् ॥ ७॥
इदं सज्जीभूतं कृतमिद-मिदं कार्यमधुने-
त्ययं व्यर्थारंभस्तव बतमनश्-शाम्यतु कदा ।
सखल्वागन्ता ते शिवभजनहीनस्य समयस्-
समुद्यन्निर्घोषज्वलदशनिपात प्रतिभयः ॥ ८॥
त्वया गर्भे मातुर्यदिह चिन्तितमभूत् त-
दालोच्य स्वान्ते व्रज शिवमकार्ये त्यज रुचिम् ।
गतो दूरं मूर्खः क इव खलु वित्तार्जन धिया
चरेस्स्वैरं त्यक्त्वा प्रभुवरमृणादानरसिकः ॥ ९॥
अपथ्या-दाहारादपि तव कियन् मानस भयं
मुहूर्तावस्थायि ज्वरजठर-भारादिकरणात् ।
अमुष्मादश्रान्त-प्रवितत भवव्याधिजननात्
महेशे वैमुख्यात् किमिति न भयं किञ्चिदपि ॥ १०॥
इयंतंकालं ते नियतसहवासेन जनिता किं-
ईषन्नास्त्यन्तःकरण मयि सौहार्दकणिका ।
यथेच्छं भ्रान्त त्वं विहरविषयारण्य-कुहरे
भज श्रीपादाब्जं सकृदपि पुरारेरनुदिनम् ॥ ११॥
स्थितोऽस्मि त्वां पश्यन् चिरमहित एवं तवकृते
मदर्थासु स्थाणोर्हृदय परिचर्यासु विमुखः ।
इदानीन्निर्विण्णोऽस्म्यलमुपगतस्तेऽद्यसमयो
यदात्मन्न्यप्यास्थां जहति सुहृदर्थे कॄतविदः ॥ १२॥
अलभ्येवप्यर्थेष्वधिक चपला-नक्षपृथुकान्
अतॄप्तानत्यर्थे सुचिरमनुवृत्तानपि तथा ।
अशक्यं ते शंभोर्भजन-मनुरुध्यैव-मशुचीन्
उपेक्षैवोपायस्तव हृदय तेषामुपशमे ॥ १३॥
उपायं ते चेतः परमुपदिशामि स्मररिपोः
पदांभोजद्वंद्वे परवशतया रज्यसि यतः ।
अवश्यं भोक्तव्य-मनुदिन-मतर्क्योपगमनां
दशा-मन्त्यां-मन्तस्सपदि गणयोपस्थिततराम् ॥ १४॥
चिरात् कश्चित्व्याधः शिव इति वसत्यद्रिशिकहरे
स मे मायीभूत्वा मतिमहर-दद्धा सुखनिधिम् ।
सलग्नश्चेद्दैवात् क्वचनपथिपाशैस्मृतिमयैः
सखे तं बध्नीयाः हृदय निभृतं दास्यति धनम् ॥ १५॥
बहिस्त्वं वैय्यग्र्यं प्रकटय परं लौकिककृति-
ष्ववर्ज्यासु स्थैर्यं भज पशुपतेः पादभजने ।
विटेषु स्निह्यन्तीमिव बहिरसारै-रभिनयैः
धने बद्धासंगां गणय धिषणे वारवनिताम् ॥ १६॥
महादेवध्यानान्ममशरणमन्यन्न कलये
भवग्रहग्रासोल्लसितभववेगादधिभुवि ।
प्रसीद प्रागल्भ्यं तदिह परिगृह्याद्य महतो
भयात्रायस्वैनं भगवति नमस्तेऽस्तु धिषणे ॥ १७॥
॥ श्री शिवमस्तु ॥
Endoded by N. Balasubramanian bbalu@satyam.net.in