नीराजनाष्टकम्
ओङ्कारबीजे भुवि मन्त्रमूर्तौ
ब्रह्मात्मशब्दे हरिशङ्करे वा ।
देवेषु देवीचरणेषु शश्व-
दारात्रिकं मङ्गलमातनोमि ॥ १॥
घृतेन सिक्तं खलु वर्त्तिकाभि-
र्विनिर्मितं वह्नियुतं सुगुच्छम् ।
सर्वाङ्गपूर्णं चिरसुन्दरं त-
मारात्रिकं मङ्गलमातनोमि ॥ २॥
प्रशस्तपात्रे घृतवर्त्तिकाभि-
र्दीपैश्च धूपैस्तिलतैलवासैः ।
प्रचण्डतेजोमयदिव्यभास-
मारात्रिकं मङ्गलमातनोमि ॥ ३॥
कर्पूरगौरेण सुवासितेन
ज्वलत्प्रभापावकयोजनेन ।
स्तोत्रेण वाद्यादिभिरर्चनेन
आरात्रिकं मङ्गलमातनोमि ॥ ४॥
शङ्खैर्मृदङ्गानकघण्टघण्टा-
काहालतुर्यादिभिः झल्लकैर्वा ।
सुघोषमन्त्रैर्हरिकीर्तनैश्च
आरात्रिकं मङ्गलमातनोमि ॥ ५॥
दूर्वासपुष्पैस्तुलसीदलैश्च
विल्वादिपर्णैर्बहुसज्जितञ्च ।
पक्वैः फलैस्तण्डुलपूर्णकुण्डे
आरात्रिकं मङ्गलमातनोमि ॥ ६॥
प्रातश्च सायं घनसारहस्तं
माध्याह्निके सौरभपुष्पयुक्तम् ।
काये च वाक्ये मनसा प्रसन्न-
मारात्रिकं मङ्गलमातनोमि ॥ ७॥
योगे न भोगे सकलेषु दीप्तः
कुज्ञानतप्तो न च भावभक्तिः ।
विश्वासलिप्तस्तव पादपद्मे
आरात्रिकं मङ्गलमातनोमि ॥ ८॥
इति नन्दप्रदीप्तकुमारविरचितं नीराजनाष्टकं समाप्तम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com