नीतिप्रदीपः

नीतिप्रदीपः

रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतिः ॥ १॥ कर्णावघातैरपि ताड्यमाना दूरीकृताः करिवरेण मदान्धबुद्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ २॥ येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह स्वच्छन्दं भ्रमणश्च कन्दरगणे पीतं पयो निर्झरम् । सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणै- र्यद्दैवेन ललाटपत्रलिखितं तत् प्रोज्झितुं कः क्षमः ॥ ३॥ शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि वन्धनम् । मतिमताञ्च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥ ४॥ व्योम्न्येकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं वध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुर्नीते हि विधौ किमस्ति चरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसावितकरो गृह्णाति दूरादपि ॥ ५॥ अपि दलन्मुकुले बकुले यया पदमधायि कदापि न तृष्णया । अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ॥ ६॥ गतोऽस्मि तीरं जलधेः पिपासया स चापि शुष्कश्शुलुकी कृतो मया । न दृश्यते दोषलवोऽपि तोयधेर्ममैव तत्कर्मफलं विजृम्भते ॥ ७॥ सिंहक्षुण्णकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं कान्तारे बदरीधिया द्रुतमगात् भिल्लस्य पत्नी मुदा । पाणिभ्यामगुह्य शुक्लकठिनं तद्वीक्ष्य दूरे जहा- वस्थाने पततामतीव महतामेतादृशी स्याद्गतिः ॥ ८॥ किन्ते नम्रतया किमुन्नततया किन्ते घनच्छायया किन्ते पल्लवलीलया किमनया चाशोक पुष्यश्रिया । यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वयं न स्वादूनि मृदूनि खादति फलान्युत्कण्ठमुत्कण्ठितम् ॥ ९॥ दूरे मार्गान्निवससि पुनः कण्टकैरावृतोऽसि छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यम् । निर्गन्धस्त्वं मधुपरहितः शाल्मले सारशून्यः सेवास्माकं भवति विफला तिष्ठ निश्वस्य यामः ॥ १०॥ हंसाः पद्मवनाशया मधुलिहः सौरभ्यलाभाशया पानथाः स्वादुफलाशया बलिभुजो गृध्राश्च माम्साशया । दूरादुन्नतपुष्परागनिकरैर्निःसारमिथ्योन्नतैः रे रे शाल्मलिपादप प्रतिदिनं केन त्वमावञ्चितः ॥ ११॥ किन्तेन हेमगिरिणा रजताद्रिणा वा यत्र स्थिता हि तरवस्तरवस्त एव । वन्दामहे मलयमेव यदाश्रयेण शाकोटनिम्बकुटजान्यपि चन्दनानि ॥ १२॥ निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् । वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ १३॥ शीतेऽतीते वसनमशनं वासरान्ते निशान्ते क्रीडारम्भः कुवलयदृशां यौवनान्ते विवाहः । सेतोर्बन्धः पयसि गलिते प्रस्थिते लग्नचिन्ता सर्वञ्चैतद्भवति विफलं स्वस्वकाले व्यतीते ॥ १४॥ नवं वस्त्रं नवच्छत्रं नव्या स्त्री नूतनं गृहम् । सर्वञ्च नूतनं शस्तं सेवकान्ने पुरातने ॥ १५॥ समायाति यदा लक्ष्मीर्नारिकेलफलाम्बुवत् । विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ १६॥ इति श्रीमहाकवि वेतालभट्टविरचितं नीतिप्रदीपकाव्यं समाप्तम् ॥ Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran
% Text title            : Niti Pradipa
% File name             : nItipradIpaH.itx
% itxtitle              : nItipradIpaH (vetAlabhaTTavirachitaH)
% engtitle              : nItipradIpaH
% Category              : misc, subhaashita, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vetAlabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Seshadri N, PSA Easwaran
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scans 1, 2)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org