नरसिंहवाटिकावर्णनम्

नरसिंहवाटिकावर्णनम्

%७५ मङ्गलायतन तेऽस्तु मङ्गला मङ्गलाय तनुरात्तमङ्गला । मङ्गलायतनसर्वमङ्गलामङ्गला यत इनाः सुमङ्गलाः ॥ १॥ पांसुलं व्याप्तलोकं सद्विक्रमत्रातपांसुलम् । भद्रदं पदमेतत्ते मम भूयादभद्रदम् ॥ २॥ अग्रजन्मासि भूतेश विश्वभून्मानवोऽप्यहम् । अग्रजन्मास्यतो भूयाद्ब्रह्मसम्बन्ध आवयोः ॥ ३॥ नरसिंह इहाद्वैतनरसिंहः प्रभुर्यतिः । कृष्णापञ्चनदीयोगे तृष्णाहारी कलौ युगे ॥ ४॥ धन्या वदान्याश्रितसारतीरा मान्याऽस्तदैन्याऽमृतसारनीरा । कृष्णा वितृष्णान्हि विधाय भक्तान्पुष्णाति कृष्णाच्युतमूर्तिरेषा ॥ ५॥ मन्येऽत्र धन्येयमनन्तमूर्तिः स्वस्पर्शनालोकनकीर्तनाद्यैः । दीनानिमान्पावयितुं स्वभक्तान्कृष्णाऽत्र कृष्णाभिधनिम्नगाऽभत् ॥ ६॥ यदात्मनोः प्रत्ययभेदभिन्नमेकप्रकृत्योः प्रथितं स्वरूपम् । हरिर्हरो दर्शयितुं ह्यभिन्नं गतौ द्विनद्यैक्यमियं तु कृष्क्तैम् ॥ ७॥ अष्टाङ्गयोगसिद्धिः कष्टा मिष्टाशिनां कलौ स्पष्टा । तत्सिद्धिदानि तीर्थान्यष्टातोऽसौ दधौ स्वभक्तेष्टा ॥ ८॥ (गद्यम्)भगवती श्रीकृष्णेयमेव भगवच्चरणावनेजनशोभनजीवनोत्तम- कलेवरामरेश्वराधिष्ठितप्रतीरामरपुरसंयोगपरमरुचिराभितः प्रचुरसुन्दर- मन्दिरालङ्कृतामितामरभूरुहमण्डितासादितमनोहरनिर्जरापरामरनिम्नगेव बभौ ॥ ९॥ वा किल स्वीयजीवनचिन्तनकीर्तनदर्शनस्पर्शनसेवनादिना पवित्रीकृतबाह्याभ्यन्तरात्मन उच्चावचस्वभक्तानज्ञानतः स्वलोकं प्रापयितुमुद्युक्तान्याम्यान्दूतान्निवारयितुं तद्दिशं जिगमिषतीव ॥ १०॥ सह्याद्रिकन्येयमसह्यवीर्या सुधाधिकस्वादुरसा पवित्रा । स्निग्धातिमुग्धा महिषी वृषैः कैर्जानेऽभवत्प्राग्लवणाम्बुधेर्नो ॥ ११॥ तस्यस्तटे श्रीभगवान्नृसिंहसरस्वती तत्र पवित्र देशे । तिष्ठत्यजस्रं खलु तन्निवासः स्वर्वासिवासाधिसुखं तनोति ॥ १२॥ नद्याः सकाशाद्विपुलाचलामला रेजेऽत्र सोपानपरम्परा वरा । रौद्रप्रयत्नै रचिताश्वमेधसत्पङ्क्तिर्ययैन्द्रं पदमारुरुक्षुभिः ॥ १३॥ यत्र ब्रह्मानन्दसंज्ञा मठास्ते दातुं ब्रह्मानन्दहीनामरेभ्यः । ब्रह्मानन्दं केवलं सत्कृपातो गच्छन्तीवोर्ध्वं सतां तद्धि युक्तम् ॥ १४॥ (गद्यम्)सर्वदा खिल जागरूकाखिलवरदामरनिकरकल्पतरु- वरजाह्नव्यन्नपूर्णाद्यलङ्कृतेऽस्मिन्सुगमापावृतकान्तपथे दैन्यपापतापा एवालब्धमार्गा अन्तः प्रवेष्टुं नो इतर इत्येतदेवात्र वैषम्यं व्यालोकि ॥ १५॥ अत्र त्वखिला अपि भूसुराः अज्ञानध्वान्तध्वंसना इना इव, भवतापहराश्चन्द्रा इव, भौमा अपि सर्वमङ्गला इव, बुधा अपि निसर्गसौम्या इव, सुभषितभूषिताः सर्वगुरवो गुरव इव, वशकाव्याः कवयः कवय इवातिपीनस्तनजघन- ललनामण्डलाक्रमणमन्दा मन्दा इव स्थिता अत एवैकैकग्रहमण्डितं ग्रहमण्डलं स्फीताभ्यसूयं स्वस्थमप्यस्वस्थमिवालक्ष्यते ॥ १६॥ सार्थको नाकलोकोऽयं नाकवार्तः परस्य तु । नाकसंज्ञैव यत्रास्ते स्पर्धासूयात्ययादिकम् ॥ १७॥ यत्र स्मरस्मेरनराः सुरा इव प्रीताः स्थिताः सेवितकामितामृताः ॥ सङ्गीतयुक्ते सुधियः स्वया स्त्रियः साध्व्योऽपि सच्छीलजितामृताङ्गनाः ॥ यत्रायमात्मा सुखसच्चिदात्मा सन्दृश्यतेऽज शतसूर्यतेजाः । सत्त्वप्रधाने हृदि सावधाने ब्रह्मेव भिक्षोः श्रुतिभिस्तितिक्षोः ॥ १९॥ देवोऽमरः सहस्राक्षः परितो निर्जरैर्वृतः । त्रिलोकार्चितपादाब्जो मघवेवापरोऽस्त्ययम् ॥ २०॥ धर्मराजो दण्डधरः समवर्ती यमेश्वरः । सर्वदा ज्ञातदेवात्मा जयत्यत्रापरो यमः ॥ २१॥ पश्यन्सत्यानृते कर्मयन्त्रितानां नृणां स्फुटम् । नारायणोऽयं जयति प्रचेता इव पात्रधृक् ॥ २२॥ मनुष्यधर्मा देवोऽपि श्रीदः पुण्यजनेश्वरः । राजराजो जयत्यत्र नरवाह इवापरः ॥ २३॥ मालाकमण्डलुधरो विभुर्वेदपरायणः । सदानन्दो गतच्छन्दो ब्रह्मेवात्र तपस्थितः ॥ २४॥ नारायण इवाशेषसेतुहेतुरयं हरिः । विश्वरूपो हतखलः सदा भक्तमतानुगः ॥ २५॥ मृत्युञ्जयोऽमृतमयः शङ्करस्त्रिपुरान्तकः । सर्वज्ञो जितकामोऽयं वशी शम्भुरिवापरः ॥ २६॥ सृष्ट्वात्मेदं प्रविश्यान्तर्मायया क्रीडतीह सः । पदाभ्यामेव पाति स्वान्प्रज्ञानब्रह्मवाचकः ॥ २७॥ पादपत्वं स्वार्थसिद्ध्यै द्रुमाणामितरे विदुः । पादपत्वं स्वर्थसिद्ध्यै सत्पतेर्नेतरे विदुः ॥ २८॥ (गद्यम्) स एव परमकारुणिको भगवान् जगद्गुरुः केवलयुक्त्या मुक्त्या इह हि परस्परं विवदतामसतां शास्त्रिणां मतानि निराकुर्वन् स्वभक्तानां विमलदृष्ट्यैव स्वपदपर्यालोचनान्मुक्तिरिति श्रुतितात्पर्यमुपदेष्टुमिव सच्चिदानन्दं पदमिह प्रकटीकार ॥ २९॥ परमात्मन इवास्य श्रीगुरोः, प्रबोधमय इव शिबिकोत्सवसमये, विशुद्धज्ञानदीपैरिव प्रदीपैः प्रकाशिते सत्त्वप्रधानान्तर इव शिबिकान्तर उपविष्टं स्वप्रकाशापरोक्षात्मानमिव सर्वात्मानं षड्विधलिङ्गतात्पर्या- वधारणरूपश्रवणमनननिदिध्यासनसमाधिक्रमगतचरमवृत्त्येव केवलामलदृ ष्ट्यापरोक्षीकुर्वन्त इव पश्यन्तो, यतय इव उच्चावचजन्तवो विस्मृतबाह्याभ्यन्तरव्यवहाराः सन्तो ब्राह्मी स्थितिमिव परमानन्दस्थितिं प्राप्नुवन्त्यहो महदाश्चर्यमिदम् ॥ ३०॥ समाधेस्ते पराकाष्ठां प्रापुध्र्येयैकगोचराः ॥ ३१॥ पेशलैः कापिलालापैः किं शेषाशेषभाषितैः । किं चान्यैर्मन्य एवैका तारिका वाटिका हरेः ॥ ३२॥ (गद्यम्) भगवत्पददिदृक्षया परमवाटिगमान्नित्यानित्यवस्तुविवेकस्तत्र यदृच्छयाप्तमाधुकरान्नसेवनादिहामुत्रार्थफलभोग- विरागस्त्रिषवणमघहरणकाष्र्णों णोनिषेवणाच्छमादिसम्पत् सपन्नजनसेवितकान्तानन्तायतनालोकना-न्मुमुक्षुत्वं नारायणार्हणप्रेक्षणात्परोक्षज्ञानमज्ञानध्वान्तध्वंसनजनार्दन- पदालोकनमपरोक्षज्ञानमिति किमतः परं परं साधनम् ॥ ३३॥ अध्वैष यदिदं कार्यं कार्यं सत्पददर्शनम् । विमनोवासनस्तज्ज्ञो न प्रमाद्येदतोऽनिशम् ॥ ३४॥ कन्दर्पदर्पदलिताललिताङ्गनाङ्गसम्बन्धबन्धनवशा अवशास्तु आपुः ॥ नेदं पदं परमया रमयापि येन्धास्ते हन्त हन्त कुधिया विधियान्त्यधोधः ॥ लुलल्लालं लीलाललितललनालोललपनं क्व कीलालेट्बालो ललदमललीलोलितिलकः ॥ क्व लोलालिप्रालिर्ललितकलिभालः क्व मललं बिलं लोलन्मूत्रं क्व कनकघटौ मांसलकुचौ ॥ ३७॥ (गद्यम्)अहह मूर्खप्रतारणेयं पश्य पश्य सरन्ध्रघटकल्पं सङ्घाणपिञ्जूषादिलिप्तं श्लेष्मलमलङ्काराद्यानीतशोभं मलीमसं लपनं निष्कलङ्ककलानिधिरिति, मांसलौ मुक्तावल्यादिरञ्जितौ स्तनगोलौ स्वर्णकलशाविति, चर्मशकलं द्विधा भिन्नं गलन्मूत्रमपानोद्गारधूपितममूल्य चैलतिरोहितं कृमिकुलस्थलकल्पं गलन्मदकरिगण्डस्थलमिति, हिंस्रवञ्चनार्थं त्वगावृता रक्तमांसास्थिघटितात्यमङ्गला, मङ्गलमात्रपवित्रा ममताहन्तावृता स्वपरमूर्तिरियमासेचनककनक-मूर्तिरिति, भ्रान्त्यैवपश्यन्त एतान् भ्रष्टपथानसतो धिग्धिगहो हर हर हरिमायेयं किल ज्ञानिनामपि चेच्छतीति महर्षिवाक्याय शतशो नमो नमः ॥ ३८॥ त्यक्तानित्याशुचिदुःखमयोभयलोकभोगसाधनसङ्गा दुस्तरैषणापारगा परावृतखरतरासुरस्मरशरविसरवर्गा भगवद्दर्शनमात्रकामाश्रितवाटिकायोगा अश्रान्तमाप्तभगवत्पादाभोगा उदितपरमार्थभागा निःसङ्गा अमी नरसिंहवाटिकास्थिताः सर्वेऽपि नरसिंहयतिकृपाप्रसादेनैव कृतकृत्याः स्युः ॥ ३९॥ प्रेतेस्ति नास्तीति यथास्य संशयस्तथा यदन्तस्य च निर्गुणाद्गतैः । तद्भ्रूशरासाद्धि कटाक्षमार्गणैर्विद्धा न चाद्धा यतयो नमोऽस्तु वः ॥ ४०॥ धन्या हि सन्न्यासिन एव यद्दृग्वर्माण एतैरसुरैर्न विद्धाः । विद्धा हरीशाजमुखाः किलैतैः पुनर्मृतप्रायनृणां कथा का ॥ ४१॥ तस्मान्न चास्मात्प्रपदाच्छरण्यान्न कायनं नास्य शरण्यमीश । नियोजयानेन पदा सदा मां तवान्तिकस्थेन सुदुर्लभेन ॥ ४२॥ कृष्णावेणीककुद्मत्यः प्रपञ्चोपशमान्तिके । अखण्डैकरसा ऐक्यात्परात्मानात्मवच्छिवाः ॥ ४३॥ यज्ञाङ्ग आगमस्तत्र सदा सेव्यो द्विजातिभिः । अन्तरप्राकृतैः पूर्णो बहिश्च प्राकृतैः फलैः ॥ ४४॥ सेव्योऽयमागमो नित्यमर्थहीनैर्द्विजातिभिः । सार्थैस्तु ब्राह्मणैः सेव्यं तद्विष्णोः परमं पदम् ॥ ४५॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमन्नृसिंहवाटिकाक्षेत्रवर्णनं सम्पूर्णम् ।
% Text title            : Narasimhavatika Varnanam
% File name             : narasiMhavATikAvarNanam.itx
% itxtitle              : narasiMhavATikAvarNanam (vAsudevAnandasarasvatIvirachitam)
% engtitle              : narasiMhavATikAvarNanam
% Category              : misc, stotra, tIrthakShetra, vAsudevAnanda-sarasvatI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org