निगमानन्ददर्शनसमीक्षणम्

निगमानन्ददर्शनसमीक्षणम्

लेखकः - नन्दप्रदीप्तकुमारः श्रीचैतन्यपथस्य भक्तितनयां संघीयधारां शुभां श्रीमच्छंकरमार्गतः प्रियतमं ज्ञानात्मजं शाश्वतम् । धृत्वा मन्त्रमहानिधिं जयगुरुं प्रेमाम्बुधौ मज्जति वन्दे तं परमेश्वरं गुरुवरं भक्तस्य चिन्तामणिम् ॥ स्वामिनिगमानन्दः वंगप्रदेशस्य नदीयामण्डलान्तर्गत- कुतवपुराख्ये ग्रामे १८७९ खीष्टाब्दे अगष्टमासस्य ऊनविंशतिदिनांके श्रावणपौर्णमास्यां शुभतिथौ रात्रौ द्विवादनसमये एकस्मिन् ब्राह्मणपरिवारे जनिमलभत । अस्यपितुर्नाम भुवनमोहन भट्टाचार्यः मातुश्च माणिक्यसुन्दरी आसीत् । अस्य पूर्वनाम नलिनीकान्तः आसीत् । तन्त्र-ज्ञान-योग-प्रेमसिद्धस्य निर्विकल्पसमाधिव्युत्थितस्य स्वामिनिगमानन्दपरमहंसपरिव्राजकाचार्यप्रवर्तितस्य इदं ज्ञानभक्तिसम्मेलनात्मकं दर्शनं भारतीयदर्शनाकाशे ध्रुवताराप्रायं प्रतिभातीति निःसन्देहमेव । श्रीमदादिशंकराचार्यप्रोक्तमद्वैतमतस्याधिकारिनियमदृष्ट्या संकीर्णमिति मत्वा तस्यैवमतं श्रीचैतन्यदेवप्रवर्तितप्रशस्तभक्तिसिद्धान्तमाध्यमेन प्रचारयितुमनेन परमर्षिणा यदभिनवदर्शनस्याविष्कारः कृतस्तदेव भारतीयदर्शनेषु स्वकीयं महत्त्वपूर्णस्थानं भजते । स्वामिनिगमानन्ददर्शने त्वयं विशेषः-ऋते ज्ञानान्न मुक्तिः इति यत् शांकरसिद्धान्तः स च साधनचतुष्टयसंपन्नानां तत्त्वमस्यादिश्रुतिसैद्धान्तिकानां पक्षे सम्भवति । एवं तत्र अधिकारिदृष्ट्या मार्गः संकीर्ण इति प्रतीयते । श्रीचैतन्यमते किन्तु भक्तिरेव मुक्तेः प्रधानोपायत्वेन निरूपिता । यद्यपि अनेन महानुभावेन भगवतः श्रीकृष्णस्य भजनव्यतिरिक्तः कश्चिदुपायो न विहितस्तथापि तत्प्रोक्तभक्तिमार्गस्तु अधिकारिदृष्ट्या प्रशस्त एव । प्राणिमात्रस्य भक्तावधिकारश्रवणात् । एतस्मात्कारणात् श्रीचैतन्यदेवस्य भक्तिपथेन श्रीशंकरप्रोक्तज्ञानलाभः सुकर इति दर्शयितुमनेन शंकरस्य मतं चैतनस्य पन्था इति सम्मेलनात्मकमार्गो दर्शितः । यद्यपि सन्ति भारतीयप्राचीनपरंपरायां बहूनि दर्शनानि तथाप्यस्य ज्ञानभक्तिसम्मेलनात्मकदर्शनस्य तत्त्वप्रतिपादनप्रकारः सर्वानतिशेते । निगमानन्ददर्शने अनेका विषया सज्जीकृताः । तेषु विशिष्टविषयास्त्वेते ब्रह्मचर्यसाधन-आदर्शगृहस्थजीवन-संघशक्तिप्रतिष्ठा-भावविनिमय-भक्तसम्मिलनी-सत् शिक्षाविस्तार-शिवज्ञाने जीवसेवा-सनातनधर्मप्रचारादयो मुख्याः दृष्टिपथं समायान्ति । निगमानन्ददर्शनोद्देश्यस्तु पूर्णानन्दानुभवः । असावनुभवः साक्षात्कारजन्यः । पूर्णानन्दपदेन न द्वैतं नाप्यद्वैतं ज्ञेयम्, किन्तु द्वैताऽद्वैतयोर्यत् सन्धिस्थलं तदेवास्माकं पक्षे परमानन्दविषय इति भावः । ज्ञानं विश्लेषणात्मकं, भक्तिस्तु संश्लेषणात्मिका । अनयोः कार्येण कारणस्य कारणेन च कार्यस्य युगपत् ज्ञानकरणमेव पारमार्थिकम् । अन्यथा ये विश्लेषणात्मकं ज्ञानं ज्ञानमार्गेण संश्लेषणात्मिकां भक्तिं च भक्तिमार्गेण मन्यन्ते वस्तुतस्ते संप्रदायान्धा एव । ज्ञानमार्गेणापि ज्ञानकर्मभक्तीनां समन्वयसत्वात् । अत्रेदं बोद्ध्यम्-जडजगद्विषये नेति नेतीति वदन्तः स्थूलसूक्ष्मातिक्रमपूर्वकं ये ब्रह्मानन्दे विश्राम्यन्ति ते ज्ञानमार्गिणः । ये ब्रह्मस्वरूपं सम्यक् ज्ञात्वाऽखिलं जगत्तस्य लीलावयव इति मत्वा लीलानन्दे विश्राम्यन्ति ते भक्तिमार्गिण इत्यनयोर्भेदः फलितः । यथा ज्ञानिनां कृते लीलानन्दस्य अत्यन्ताभावस्तथा भक्तानां कृते ब्रह्मानन्दस्य । किन्तु यः विश्लेषणमार्गेण गच्छन् संश्लेषणमार्गेण पुनरायाति अर्थात् युगपत् ब्रह्मानन्दं लीलानन्दं च भोक्तुं शक्नोति स एव पूर्णः । स एव परमहंसः । स एव पूर्णानन्दस्य विशिष्टो ज्ञाता । असौ सर्वधर्मसमन्वयस्य परिभाषा । अयमेव सार्वभौमगुरुस्वामिनिगमानन्ददर्शनस्य मौलिकसिद्धान्तः । अत्राद्वैतशब्देन स्वरूपानन्दो द्वैतशब्देन च लीलानन्दो बोद्धव्यः । पूर्णानन्दानुभवात्मकोद्देश्यस्य सत्यासत्यमुपपद्यते न वेति विमर्शः परीक्षा । सा तु सद्गुरुसेवापेक्षा । प्रयोजनं द्विविधम् । स्वरूपावस्थानं प्रेमभक्तिविलासश्चेति । सद्गुरुसेवया प्रयोजनं सिद्ध्यति । तत्त्वपिपासुरेवाधिकारी । ननु पूर्णानन्दशब्दः सगुणो निर्गुणः साकारो निराकारः सविशेषोऽविशेषो वेति चेदुभयमेव सत्यम्, श्रुतिस्मृतिप्रामाण्यात् । किन्त्वधिकारिविशेषात् तत्तदनुभवस्तत्तदुपासकेषु प्रमाणितः । उपासना द्विविधा । स्वरूपतटस्थभेदात् । तत्राद्या निर्गुणा, सन्न्यासिनोऽधिकारिणः । फलं निर्गुणब्रह्मसाक्षात्कारः । गतिरिह्यैव जीवन्मुक्तिरन्ते च ब्रह्मनिर्वाणम् । द्वितीया सगुणा तटस्था, फलं ब्रह्मात्मभगवतां युगपत्साक्षात्करणम् । दार्शनिकेषु ज्ञानिनो बौद्धाश्च ब्रह्मज्ञाः । फलं परंब्रह्मसाक्षात्कारः । आत्मज्ञा योगिनः, फलमात्मसाक्षात्कारः । भक्ता भगवद्द्रष्टारः । फलं च प्रेमभक्तिलाभः । भगवान् ब्रह्माण्डपतिः, कूटस्थो भावगम्यः । द्विविधो भावः । माधुर्यैश्वर्यभेदात् । तत्र माधुर्यभाववादिनो वैष्णवा यीशोरनुयायिनश्च । ऐश्वर्यभाववादिनः शाक्ताः मुहम्मदानुयायिनश्च स्युः । माधुर्यानां क्रममुक्तिरभिप्रेता । सा सालोक्यसारूप्यस्थानीया । ऐश्वर्यशालिनामपि क्रममुक्तिरभिप्रेता, किन्तु सा सायुज्यात्मिका इति विशेषः । उपासना तु गुरुसेवापरपर्यायरूपा पारंपरिकी । गुरु ब्रह्मा गुरु विष्णुर्गुरुदेवो महेश्वरप्रमाणसाहचर्यात् सर्वदेवमयो गुरुरेव भुक्तिमुक्तिप्रदाता परमेश्वरत्वेन सर्वोपास्यो लक्ष्यः । ननु श्रवणमनननिदिध्यासनादयो ज्ञानस्य मुख्यहेतवरूपेण स्थिरीकृताः, तत्कथमुपासना इति चेत् सत्यम् । श्रवणं हि गुरुमुखात् भवति सुतरां तत्पूजा सर्वादौ कर्त्तव्या इति न्यायात् गुरुपूजासेवादिभिस्तेषां चरमज्ञानदर्शनात् तद्वाक्यमननं ध्येयं पश्चाद्निदिध्यासनमिति विचारे त्वियं व्यवस्था सुस्था फलवती च । नराकारस्य सद्गुरोर्भोजनशयनादिदेहधर्मो दिव्यः । तत्र सन्देह अकरणीयो देवो वा मानुषो वेति, जीवित उत मृतो वा । तद्वाक्यमेव प्रमाणम् । तदेव सत्यम् । तमनुसरमिति । तथाहि विवेकचूडामणौ- स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥(५१८) इति । अपि च तत्र मंगलाचरणे- सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ किं चान्यत्र- यत्र श्रीगुरोरनुगमनं सर्वत्र सर्वभजनसाधने अनुसरणं सर्वदा सर्वकाले जीवने मरणे विपदि संपदि दूरे निकटे दिनादौ निशादौ संकीर्तनादौ महाप्रसादे अनुशीलने इत्येवमादिभिः गुरुरेव मुख्यत्वेन निर्द्दिश्य तदनुसन्धानेन भाव्यो मार्गः समुद्घोषितः । तन्त्रज्ञानयोगप्रेमाणश्चतुर्विधमार्गाः तत्त्वानि वा । तन्त्रं शक्तितत्वमतिगोपनीयम् । आत्मतत्वं योगः । ब्रह्मतत्वं ज्ञानम् । तत्तु वेदान्तापरपर्यायरूपम् । भावतत्वं भक्तिः । ज्ञानं नामानुभावः । अनुभवो भाववाचकः । भक्तिरत्र भावप्रधानया चित्तवृत्त्या विग्रहादिपूजनं, सद्गुरो वा कस्यापि उपास्यदेवस्य श्रद्धामात्रेण विश्वासेन मुमुक्षुचेतसा वा यदुपासनं तत्तु भक्तिरर्थैः प्रगुम्फितं तत्तदाचार्यैः । गुरुस्तत्त्वदर्शी परमाचार्यः । तच्छुश्रूषया प्रणिपातेन च को बन्धः कथं विमुक्तिः इति स्पष्टं भगवता गीतायां- तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञाणं ज्ञानिनस्तत्त्वदर्शिनः ॥(४/३४) कठे -दुर्गं पथस्तत् कवयो वदन्ति (२/३/१४) छान्दोग्ये च -आचार्यवान् पुरुषो वेद् (६/१४/२) इत्यादयः श्रुतिस्मृतयो न मौनाः गुरुतत्त्वविषये । एतस्मादाचार्योपासनं सर्वादौ फलितमिति निगमानन्ददर्शनस्य मतमिति दिक् । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : nigamAnandadarshanasamIkShaNam
% File name             : nigamAnandadarshanasamIkShaNam.itx
% itxtitle              : nigamAnandadarshanasamIkShaNam (lekhaH)
% engtitle              : nigamAnandadarshanasamIkShaNam
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org