निर्वृतिपञ्चकम्
का नाम देशः का जातिः प्रवृत्तिः का कियद्वयम् ।
इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ १॥
आगच्छ गच्छ मा गच्छ प्रविश क्व नु गच्छसि ।
इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ २॥
क्व यास्यासि कदायातः कुत आयासि कोऽसि वै ।
इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ ३॥
अहं त्वं सोऽयमन्तार्हि बहिरस्ति न वास्ति वा ।
इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ ४॥
ज्ञाताज्ञातसमः स्वान्यभेदशून्यः कुतो भिदा ।
इत्यादि वादोपरतिर्यस्य तस्यैव निर्वृतिः ॥ ५॥
इति श्रीनारायणगुरुविरचितं निर्वृतिपञ्चकं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran