पठन्तु संस्कृतम्
आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ।
वेदविज्ञान-ज्ञाननिधानं संस्कृतेन एव सम्प्राप्तम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥
आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ।
भवतां स्वागतं संस्कृतभवने । व्याकरणं आरम्भे पठामः ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥
स्वराः अयोगवाहाः व्यञ्जनानि अक्षराणि भवन्ति ।
कण्ठ-तालु-मूर्धा-दन्ताः-ओष्ठौ-नासिका इति उत्पत्तिस्थानानि भवन्ति ।
श्रद्धया अद्यैव संस्कृतं वयं सम्यक् पठामः ।
आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ।
श्रेष्ठपुराण-काव्यसाहित्यं संस्कृतेन एव सम्प्राप्तम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥
लिङ्गत्रयं वचनत्रयं पुरुषत्रयं धातुत्रयं विभक्तयः तु सप्त ।
कर्तरि कर्मणि भावे इति त्रयः प्रयोगाः ।
श्रद्धया अद्यैव संस्कृतं वयं सम्यक् पठामः ।
आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ।
न्यायमीमांसाधर्मशास्त्राणि संस्कृतेन एव प्राप्तानि।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥
लट् लिट् लुट् ऌट् लेट् लोट् लङ् लिङ् लुङ् ऌङ् लकाराः ।
भ्वादिः अदादिः चुरादिः इत्यादयः दशगणाः सन्ति ।
श्रद्धया अद्यैव संस्कृतं वयं सम्यक् पठामः ।
आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ।
अर्थगर्भित-जीवनतत्त्वं संस्कृतेन एव सम्प्राप्तम् ।
आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥
-- रचयित्री - उषा जयरामन् ।
Composed, encoded, and proofread by Usha Jayaraman