पठ्यतां हि संस्कृतम्
पठ्यतां हि संस्कृतं ज्ञायतां नु वाङ्मयम् ।
संस्कृतस्य पाठनाय दीयतां स्वजीवनम् ॥ ध्रुवम्॥
प्रेमशुद्धिसंप्लुतं त्यागसलिलवधितं
कष्टकोटिपावितं स्वार्थरहितचेष्टितम् ।
अचललक्ष्यकेन्द्रितं सकलशीलभूषितं
राष्ट्रधर्मरक्षणाय स्यान्मदीयजीवनम् ॥ १॥
परोपदेशवर्जकं परोपकारकारकं
द्वेषदोषनाशकं क्रोधमोहलोपकम् ।
स्नेहभावगुम्फितं क्षात्रवीर्यपूरकं
ऐक्यबन्धवर्धनाय स्यान्मदीयजीवनम् ॥ २॥
जातिभेदवारकं दीनदलितसेवकं
स्वाभिमानपोषकं सामरस्यसाधकम् ।
ज्ञानविनयसंयुतं विपुलगुणगणान्वितं
लोकशक्तिवर्धनाय स्यान्मदीयजीवनम् ॥ ३॥
जीवनस्य वाञ्छितं संस्कृतस्य वैभवं
मामकीनयौवनं संस्कृतार्थमर्पितम् ।
नैव किमपि सञ्चितं नास्ति किमपि काङ्कितं
संस्कृतप्रसारणाय स्यान्मदीयजीवनम् ॥ ४॥