पञ्चमहायज्ञविश्लेषणम्
लेखकः - नन्दप्रदीप्तकुमारः
तत्रादौ यज्ञशब्दार्थः व्याख्यायते । अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् (ऋ०वे०-१)इति सर्वप्राचीन वैदिक-अपौरुषेय-सिद्धान्तेन यज्ञस्य महनीयता सर्वव्यापकता च प्रमाणीक्रियते । तत्र ऋग्वेदे (१/१६४/३५) अयं यज्ञो भुवनस्य नाभिः । अथर्वेऽपि (९/१०/१४) यज्ञो विश्वस्य भुवनस्य नाभिः, यज्ञेन यज्ञमयजन्त देवाः (यजु०३५/१६) यज्ञ इन्द्रमवर्धयत् (साम०-१३३९)इत्यादिषु सर्वेषु वैदिकग्रन्थेषु विश्वस्य जगतः केन्द्ररूपो यज्ञः देवानां जनकत्वेन पोषकत्वेन च स्वीकृतोऽस्ति । शतपथब्राह्मणस्य एकादशतमे काण्डे भूतयज्ञ-मनुष्ययज्ञ-पितृयज्ञ-देवयज्ञ-ब्राह्मयज्ञादीनां प्रख्यातयज्ञ एव महायज्ञ नामाङ्कितोऽस्ति(११/५/६) । भारतीयसंस्कृतौ अस्य स्थानं महत्वपूर्णमत्यावश्यकमिति न विसंवादः । ज्ञान-कर्म-भक्तीनां त्रयाणां समाहार एव यज्ञे तिष्ठति । सर्वं यज्ञमयं जगत् (३१/४०) इति कालिकापुराणवचनात् यज्ञात् हि सृष्टिप्रक्रिया बलवत्तरा चलायमाना संजाता । यज्ञार्थात्कर्मणोऽन्यत्र लोकोयं कर्मबन्धनः (गी०-३/९) इति भगवद्वचनात् मनुष्याणां कृते सर्वाण्येव कर्माणि यज्ञस्वरूपाणि स्थिरीकृतानि । पुरुषजीवनं यज्ञस्वरूपमिति छान्दोग्योपनिषदि (३/१६ )दृश्यते । यज्ञदेवपूजासंगतिकरणादि यज् धातोः नङ् प्रत्ययेन यज्ञशब्दो निष्पन्नः । देवपूजार्थकत्वेन इन्द्रादिदेवानां सत्कारभावनं यज्ञः । संगतिकरणेन धर्मदेशजातिमर्यादारक्षायै महापुरुषाणामेकीकरणं यज्ञः । दानार्थेनापि देवतोद्देशेन श्रद्धापुरःसरं वह्नौ हविर्दानं यज्ञः । यज्ञः कस्मात्? प्रख्यातं यजति कर्मेति नैरुक्ताः (३/४/१९) आख्यायन्ते । यत्र प्रक्षेपाङ्गको देवतोद्देशपूर्वको द्रव्यत्यागोऽनुष्ठीयते स यागपदार्थः (४/२/१२) इति मीमासको भाट्टदीपिकाकारः ।
देवानां द्रव्यहविषां ऋक्सामयजुषां तथा ।
ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥
इति मत्स्यपुराण(१४४/४४) वचनेन कर्मविशेषे आहवनीयपदार्थ-द्रव्य-मन्त्र-ऋत्विज-दक्षिणानामेकीकरणेन यज्ञशब्दः सिद्ध्यति ।
शास्त्रेषु नानाविधाः यज्ञाः उक्ताः । तेषु पञ्चमहायज्ञाः सर्वेषां गृहस्थानां कृते अनिर्वायाः कथिताः । ते च मनुना-
पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोपकुम्भश्च बध्यते यास्तु वाहयन् ॥ (३/६८) इत्युक्तम् ।
सूना नाम प्राणिवधस्थानम् । यत्र जीवहत्यारूपकं पापं विद्यते । तत्पापं पञ्चस्थानेषु संपद्यते । आदौ कण्डनीजनितम् । कण्डनी नाम
उदूखल-मुसलाभ्यां निष्पन्नम् । द्वितीयं
पेषणीजनितम् । तृतीयं चुल्लीजनितम् । चतुर्थं जलकुम्भजनितम् । तुर्यं तु उपस्कर-समार्जनी जनितं पापं यत्तु क्षुद्रजीवहननरूपमस्माभिः प्रतिदिनं क्रियते । सुतरामेतेषां पापानां क्षालनार्थं दैनिकं पञ्चमहायज्ञाः स्वीकर्त्तव्याः गार्हस्थैः । तथाहि-
एतानि वाहयन् विप्रो वाध्यते वा मुहुर्मुहुः ।
एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्त्तिताः ॥
अपि च- तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । पञ्चक्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनः ॥(मनु०-३/६९)इति । ते तु शास्त्रे निर्दिष्टाः सन्ति । यच्चोक्तं-
देवभूतपितृब्रह्ममनुष्यानामनुक्रमात् ।
महासत्राणि जानीयात्त एव हि महामखाः ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो देवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥(मनु०-३/७०)
इति । तत्रादौ ब्रह्मयज्ञो निरूप्यते । सश्च
वैदिकमन्त्राणां ब्रह्मसूत्राणां वेदांग-गीता-भागवतादिपुराणानां च अध्ययनमध्यापनम् । असौ ज्ञानयज्ञविशेषः । द्वितीयो पितृयज्ञः । परलोकगतानां पितॄणां कृते श्राद्ध-तर्पणादिकं कर्म । देवोद्देशेन संस्कृतवह्नौ घृतादिहव्यत्यागो देवयज्ञस्तृतीयः । बलिवैश्वदेवश्चतुर्थो भूतयज्ञः । पञ्चमो मनुष्ययज्ञः अतिथिसेवापरक उक्तः । एतेषां पञ्चयज्ञानामकरणेन प्रत्यवाय इति स्मृतिकारा निगदन्ति । गार्हस्थ्याश्रमेच्छुना उपरोक्तधर्माः सेवितव्याः, नित्यत्वात् । तथैवाह याज्ञवल्क्यः-
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥(१/७) इति ।
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com