प्रार्थनादण्डकम्
मधुरविहारविशेषवशीकृत
गोपनितम्बवतीनिकुरुम्ब,
नवाम्बुदडम्बरदिव्यतनो,
महितमहामुनिमानसगोचर-
नित्यसुखाद्वयसत्यचिदात्मक,
नुत्यनिरत्ययशक्तिनिधे,
निपुणधनञ्जयसूतसमञ्जस-
योगनियोगनिरञ्जनजीवित-
रञ्जनमार्गविधानगुरो,
भवति हरे, भवताद् भवतारक,
भक्तिभरो भगवन्, मम चेतसि
पावनमारुतगेहपते!
इति श्रीवासुदेवन् एलयथेन विरचितं प्रार्थनादण्डकं सम्पूर्णम् ।